| YouTube Channel

भोक्ता (bhoktA)

 
Hindi
Hindi
enjoyer
Kridanta Forms
Sanskrit
भुज् (भु॒जोँ꣡ कौटिल्ये - तुदादिः - अनिट्)
ल्युट् = भोजनम्
अनीयर् = भोजनीयः - भोजनीया
ण्वुल् = भोजकः - भोजिका
तुमुँन् = भोक्तुम्
तव्य = भोक्तव्यः - भोक्तव्या
तृच् = भोक्ता - भोक्त्री
क्त्वा = भुक्त्वा
ल्यप् = प्रभुज्य
क्तवतुँ = भुग्नवान् - भुग्नवती
क्त = भुग्नः - भुग्ना
शतृँ = भुजन् - भुजन्ती / भुजती
भुज् (भु॒जँ꣡ पालनाभ्यवहारयोः - रुधादिः - अनिट्)
ल्युट् = भोजनम्
अनीयर् = भोजनीयः - भोजनीया
ण्वुल् = भोजकः - भोजिका
तुमुँन् = भोक्तुम्
तव्य = भोक्तव्यः - भोक्तव्या
तृच् = भोक्ता - भोक्त्री
क्त्वा = भुक्त्वा
ल्यप् = प्रभुज्य
क्तवतुँ = भुक्तवान् - भुक्तवती
क्त = भुक्तः - भुक्ता
शतृँ = भुञ्जन् - भुञ्जती
Wordnet
Sanskrit
Synonyms:
उपभोक्ता, भोक्ता
noun
यः वस्तुसेवादीन् उपभुङ्क्ते।
"उपभोक्तुः आवश्यकताः दृष्ट्वा एव उद्योगसंस्थाः नूतनानि वस्तूनि विपण्याम् आनयन्ति।"
शब्दकल्पद्रुमः
Sanskrit
भोक्ता [ऋ] त्रि, (भुज् + कर्त्तरि तृच् ।)भोजनकर्त्ता यथा, --“यज्ञेश्वरो हव्यसमस्तकव्य-भोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।”इति श्राद्धप्रयोगतत्त्वम्
सुखादिभोगकर्त्ता यथा, --“कर्त्ता देही भोक्ता आत्मा भोजयितासदा ।भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव
”इति ब्रह्मवेवर्त्ते प्रकृतिखण्डे २३ अध्यायः
अथ भोक्तुर्लक्षणं यथा, पाकराजेश्वरे ।“स्नातः सुधौतमृदुसुन्दरशुक्तवासा-स्तत्कालधौतचरणः सह पुत्त्रमित्रैः ।स्रग्वी प्रसन्नहृदयो रसपाकवेद्यांभोक्ता विशेच्च सततं हि सहात्मवैद्यैः
मृदुतूलमये स्थूले चारुवस्त्रावगुण्ठिते ।आसने प्राङ्मुखो भोक्तोपविशेद्बाप्युदङ्मुखः
”(भोजनकर्त्रर्थे यथा, --“यदा कारणमासाद्य भोक्तृणां छन्दतोऽपि वा ।अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत्
”इति सुश्रुते सूत्रस्थाने ४६ अध्यायः
“भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ ।सुगन्धिपुष्परचिते रम्ये देशेऽथ भोजयेत्
”इति तत्रैव तदध्याये
यथा सांख्यशास्त्रे भोक्ता भोगकर्त्ता पुरुषः ।सति भोगज्ञाने भोक्तृज्ञानं भवतीति तल्लक्षण-माह “चिदवसानो भोगः ।” इति सांख्यसूत्रम् ।१०४
पुरुषस्वरूपे चैतन्ये पर्य्यवसानं यस्यैतादृशोभोगः सिद्धिरित्यर्थः राज्ञो भृत्यवर्गः यथा, स्वामिने भोग्यजातमर्पयति, तथा, इन्द्रियाणिविषयजातं स्वस्वशक्त्या गृहीत्वा अन्तःकरण-प्रतिविम्बिताय पुरुषाय अर्पयति, पुरुषःप्रतिविम्बग्रहणमात्रेण विषयजातं भुङ्क्तेप्रकाशयतीत्यर्थः पुरुषस्य भोगः प्रतिविम्बा-दानमात्रं अन्येषान्तु पुष्ट्यादिः ईदृशः परि-णामरूपो भोगः पुरुषे निषिध्यते “बुद्धेर्भाग इवात्मनि ।” इत्यादिभिरिति एतादृक्तया पुरुषः भोगकर्त्ता वा भोक्ता
इतितद्भाष्ये विज्ञानभिक्षुः
भोक्ता [ऋ]
पुं,
(भुङ्क्ते जीवरूपेणेति, भुनक्तिपालयतीति वा भुज + तृच् ।) विष्णुः यथा, --“भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।”इति महाभारते तस्य सहस्रनामस्तोत्रम्
भर्त्ता इति हेमचन्द्रः ९१