| YouTube Channel

भोक्तव्यं (bhoktavyaM)

 
शब्दकल्पद्रुमः
Sanskrit
भोक्तव्यं त्रि, (भुज + कर्म्मणि तव्यत् ।) भोज-नीयम् भोज्यम् यथा, --“यन्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ।”इति तिथ्यादितत्त्वम्
“अलावू वर्त्तुलाकारा वार्त्ताकी दुग्धवर्णिका ।प्राणान्तेऽपि भोक्तव्या दुग्धवर्णा कलम्बिका
”इति कर्म्मलोत्तनञ्च
(कर्म्मजन्ये अनुभवनीये यथा देवीभाग-वते ११ २८ ।“प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवा शुभम् ।उद्यमस्तद्वशे नित्यं कारयत्येव सर्व्वथा
”)