| YouTube Channel

भैरवीचक्र (bhairavIcakra)

 
वाचस्पत्यम्
Sanskrit
भैरवीचक्र
न०
भैरव्याः पूजनार्थं चक्रमू देवीपूजार्थेकुलाचारवतां चक्राकारसमूहे तद्विधिर्यथा उत्पत्तितन्त्रे“नित्यं नैमित्तिकं काम्यं प्रकुर्य्याच्च दिनेदिने कुलवारे कुलर्क्षे तिथौ चन्दनके तथा ।भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये सुराणांशोधनं कुर्य्याद् यथावत् परमेश्वरि! प्रवृत्ते भैरवी-चक्रे सर्वे वर्णा द्विजोत्तमाः निवृत्ते भैरवीचक्रे सर्वेवर्णाः पृथक् पृथक्”