भैरवी (bhairavI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiभैरवी
- -
दुर्गादेवी का एक रूप
भैरवी
- -
हिन्दू-संगीत पद्धति में एक विशेष रागिनी का नाम
भैरवी
- -
बारह वर्ष की कन्या या किशोरी जो दुर्गा पूजा के उत्सव पर दुर्गा का प्रतिनिधित्व करे
L R Vaidya
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Abhyankara Grammar
Englishभैरवी name given to a commentary in general written by Bhairavamiśra, which see above. The commentary on the Paribhāṣenduśekhara is more popularly known as Bhairavī.
Wordnet
Sanskrit भैरवी
दुर्गायाः रूपम्।
"दुर्जनं हन्तुं माता दुर्गा भैरवी अभवत्।"
भैरवी
प्रातःकाले गेया एका रागिणी।
"सः भैरवीं गायति।"
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
Sanskrit Tibetan
Tibetanjigs byed dkar mo
भैरवी
अभिधानचिन्तामणिः
Sanskritचामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका ।
कर्णमोटी महागन्धा भैरवी च कपालिनी ॥ २०६ ॥
चामुण्डा (स्त्री), चर्चिका (स्त्री), चर्ममुण्डा (स्त्री), मार्जारकर्णिका (स्त्री), कर्णमोटी (स्त्री), महागन्धा (स्त्री), भैरवी (स्त्री), कपालिनी (स्त्री)
अभिधानरत्नमाला
Sanskritचामुण्डा
चामुण्डा, कर्णमोटी, चर्चा, भैरवी
चामुण्डा कर्णमोटी च चर्चा स्याद्भैरवी तथा ॥ १७ ॥
verse 1.1.1.17
page 0003
Tamil
Tamilபை4ரவீ : துர்க்கை, காளி, ஒரு ராகத்தின் பெயர்.
पुराणम्
Englishभैरवी / BHAIRAVĪ. One of the eight Ambas. They are: Rudrārcikā, Rudracaṇḍī, Naṭeśvarī, Mahālakṣmī, Siddhacāmuṇḍikā, Siddhayogeśvarī, bhairavī and rūpavidyā. All these are the eight different forms of devī. (See the word devī).
शब्दकल्पद्रुमः
Sanskritभैरवी, (भैरव + ङीप् ।) चामुण्डा । यथा, “चामुण्डा चर्चिका चर्म्ममुण्डा मार्जारकर्णिका ।कर्णमोटी महागन्धा भैरवी च कपालिनी ॥
”इति हेमचन्द्रः । २ । १२० ॥
भैरवीविशेषा यथा । त्रिपुरभैरवी १ सम्पत्-प्रदा भैरवी २ कौलेशभैरवी ३ सकलसिद्धिदाभैरवी ४ भयविध्वंसिनी भैरवी ५ चैतन्यभैरवी६ कामेश्वरी भैरवी ७ षट्कूटा भैरवी ८ नित्याभैरवी ९ रुद्रभैरवी १० भुवेनेश्वरी भैरवी ११त्रिपुरबाला भैरवी १२ नवकूटा भैरवी १३अन्नपूर्णा भैरवी १४ । आसां मन्त्रा यथा, --अथ त्रिपुरभैरवी ।“वियद्भृगुहुताशस्थो भौतिको बिन्दुशेखरः ।वियत्तदादिकेन्द्राग्निस्थितं वामाक्षिबिन्दुमत् ॥
आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् ।पञ्चकूटात्मिका विद्या वेद्या त्रिपुरभैरवी ॥
” १ ॥
अथ सम्पत्प्रदा भैरवी ।यथासौ त्रिपुरा बाला तथा त्रिपूरभैरवी ।सम्पत्प्रदा नाम तस्याः शृणु निर्म्मलमानसे ॥
शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् ।कामराजं तथा देवि ! शिवचन्द्रान्वितं ततः ॥
पृथ्वीबीजान्तवह्न्याट्यं तार्त्तीयं शृणु वल्लभे ! ।शक्तिबीजे महेशानि ! शिववह्नी नियोजयेत् ॥
कुमार्य्याः परमेशानि ! हित्वा सर्गन्तु बैन्दवम् ।त्रिपुरा भैरवी देवी महासम्पत्प्रदा प्रिये ! ॥
२ ॥
अथ कौलेशभैरवी ।सम्पत्प्रदाभैरवीवद्विद्धि कौलेशभैरवीम् ।हसाद्या सैव देवेशि ! त्रिषु बीजेषु पार्ब्बति ! ।इयन्तु सहराद्या स्यात् पूजाध्यानादिकंतथा ॥
३ ॥
अथ सकलसिद्धिदा भैरवी ।एतस्या एव विद्याया आद्यन्ते रेफवर्जिते ।तदेयं परमेशानि ! नाम्ना सकलसिद्धिदा ।सम्पत्प्रदाभैरवीवत् ध्यानपूजादिकं तथा ॥
४ ॥
अथ भयविध्वंसिनी भैरवी ।सम्पत्प्रदा भैरवी आद्यन्ते रेफरहिता चेत्तदाभयविध्वंसिनी भैरवी भवति । दक्षिणामूर्त्तौतथादर्शनात् । पूजादिकन्तु सम्पत्प्रदावत् ॥
५ ॥
अथ चैतन्यभैरवी ।“वागभवं बीजमुच्चार्य्य जीवप्राणसमन्वितम् ।सकला भुवनेशानी द्वितीयं बीजमुद्धृतम् ॥
जीवं प्राणं वह्निसंस्थं शक्रस्वरसमन्वितम् ।विसर्गाढ्यंमहेशानि ! विद्या त्रैलोक्यमातृका ॥
”ऋष्यादिन्यासः । शिरसि दक्षिणामूर्त्तये ऋषयेनमः । मुखे पङ्क्तिच्छन्दसे नमः । हृदिचैतन्यभैरव्यै देवतायै नमः ॥
६ ॥
अथ कामेश्वरी भैरवी ।“कामेश्वरी च रुद्रार्णा पूर्व्वसिंहासने स्थिता ।एतस्या एव विद्याया बीजद्वयमुदाहृतम् ॥
तदन्ते परमेशानि ! नित्यक्लिन्ने मदद्रवे ।एतस्या एव तार्त्तीयं रुद्रार्णा परमेश्वरि ! ॥
७ ॥
अथ षट्कूटा भैरवी ।डाकिनी राकिणी बीजे लाकिनी काकिनी-युगम् ।शाकिनी हाकिनी बीजे आहृत्य सुरसुन्दरि ! ॥
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् ।शक्रस्वरान्वितं देवि ! तार्त्तीयं बीजमालिखेत् ।बिन्दुनादकलाक्रान्तं त्रितयं शैलसम्भवे ! ॥
८ ॥
अथ नित्या भैरवी ।एतस्या एव विद्यायाः षड्वर्णान् क्रमशः स्थितान् ।विपरीतान् वद प्रौढे ! विद्येयं भोगमोक्षदा ।न्यासपूजादिकं सर्व्वमस्याः पूर्व्ववदाचरेत् ॥
९ ॥
अथ रुद्रभैरवी ।शिवचन्द्रौ मादनान्तं फान्तं वह्निसमन्वितम् ।शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं प्रिये ! ॥
सम्पत्प्रदाया भैरव्याः कामराजं तदेव हि ।सदाशिवस्य बीजन्तु महासिंहासनस्य च ।एषा विद्या महेशानि ! वर्णितुंनैव शक्यते ॥
१०अथ भुवनेश्वरी भैरवी ।हसाद्यं वाग्भवञ्चाद्यं हसकान्ते सुरेश्वरि ! ।भूबीजं भुवनेशानी द्बितीयं बीजमुद्धृतम् ।शिवचन्द्रौ महेशानि ! भुवनेशी च भैरवी ॥
११ ॥
अथ त्रिपुरबाला भैरवी ।अधरो बिन्दुनामाद्यं ब्रह्मेन्द्रस्थः शशी युतः ।द्वितीयं भृगुसर्गाढ्यो मनुस्तार्त्तीयमीरितम् ।एषा बालेति विख्याता त्रैलोक्यवशकारिणी ॥
१२अथ नवकूटा बाला ।बालाबीजत्रयं देवि ! कूटत्रयं नवाक्षरी ।वियत्कूठत्रयं देवि ! भैरव्या नवकूठकम् ॥
१३ ॥
अयान्नपूर्णा भैरवी ।प्रणवं भुवनेशानि ! श्रीबीजं कामबीजकम् ।हृदन्ते भगवत्यन्ते माहेश्वरिपदं ततः ।अन्नपूर्णे ठयुगलं विद्येयं विंशदक्षरी ॥
१४ ॥
”इति तन्त्रसारे भैरवीमन्त्रपरिच्छेदः ॥
रागिणी-विशेषः । सा च भैरवरागस्य पत्नी । यथा, --“भैरवी कौशिकी चैव भाषा वेलाबली तथा ।वङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः ॥
”मतान्तरे मालवरागस्य पत्नी । यथा, --धानसी मालसी चैव रामकीरी च सिन्धुडा ।आशावरी भैरवी च मालवस्य प्रिया इमाः ॥
”अस्या ध्यानं यथा, --“सरोवरस्था स्फटिकस्य मन्दिरेसरोरुहैः शङ्करमर्च्चयन्ती ।तालप्रयोगप्रतिबद्धगीति-र्गौरीतनूर्नारद भैरवीयम् ॥
”अस्या गानसमयः पूर्व्वाह्णकालः । यथा, --“विभाषा ललिता चैव कामोदी पठमञ्जरी ।रामकीरी रामकेली वेलोयारी च गुज्जरी ॥
देशकारी च शुभगा पञ्चमी च गडा तुडी ।भैरवी चाथ कौमारी रागिण्यो दश पञ्च च ।एताः पूर्व्वाह्णकाले तु गीयन्ते गायनोत्तमैः ॥
”इति सङ्गीतदामोदरः ॥
* ॥
हनूमन्मते एषा सम्पूर्णजातिः । अस्याः सप्त-स्वरविन्यासक्रमः मध्यमपञ्चमधैवतनिषादषड्-जर्षभगान्धारान्तः । अस्या गृहं मध्यमस्वरः ।शरदृतौ प्रभाते अस्या गानसमयः । राग-मालायां अस्याः स्वरूपम् । अल्पवयस्का ।सुरूपा । सुनेत्रा । विस्तारवदना । पिङ्गल-केशा । कोमलाङ्गी । रक्तवर्णा । श्वेतवसना ।गलशोभितचम्पकमाला । प्रफुल्लपद्मयुक्तपर्व्वत-गुहायां शिवपूजापरायणा । तत्र मञ्जीर-वादका गायन्ति च ॥
* ॥
कल्लिनाथसोमे-श्वरभरतमतेष्वेवम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
