| YouTube Channel

भैरवः (bhairavaH)

 
Apte Hindi
Hindi
भैरवः
पुं*
- -
शिव का एक रूप
Wordnet
Sanskrit
Synonyms:
भैरवः, चित्रभानुः
noun
शिवस्य गणानां प्रकारः।
"मन्त्रस्य सिद्ध्यर्थे जनाः भैरवस्य उपासनां कुर्वन्ति।"
Synonyms:
भैरवः
noun
सङ्गीते षट्सु रागेषु एकः रागः।
"सः भैरवं गायति।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Tamil
Tamil
பை4ரவ: : சிவனின் பயம் தரும் உருவம்.
शब्दकल्पद्रुमः
Sanskrit
भैरवः,
पुं,
(भीर्भयङ्करो रवो यस्य इति भीरव ।ततः स्वार्थे अण् ।) शङ्करः इति मेदिनी वे४६
भयानकरसः इत्यमरटीकायां भरतः
नदविशेषः इति शब्दरत्नाबली
रागभेदः ।इति हेमचन्द्रः
*
अष्टभैरवाणामुत्पत्तिर्यथा, “दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत् ।संस्थितस्तु महायोगी सर्व्वाधारः प्रजापतिः
गदापातक्षताद्भूरि चतुर्धासृगथापतत् ।पूर्व्वधारासमुद्भूतो भैरवोऽग्निसमप्रभः
विद्याराजेति विख्यातः पद्ममालाविभूषितः ।तथा दक्षिणधारोत्थो भैरवः प्रेतमास्थितः
कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः ।नागराजेति विख्यातश्चक्रमालाघिभूषितः
क्षतजाद्रुधिराज्जातो भैरवः शूलभूषितः ।सच्छन्दराजेति विख्यात इन्द्रायुधसमप्रभः
भूयिष्ठाद्रुधिराज्जातो भैरवः फलभूषितः ।ख्यातो लम्बितराजेति शोभाञ्जनसमप्रभः
ततोऽभूद्देवराजेति भैरवः क्षतजादथ ।उग्रराजो बभूवाथ क्षतजाद्भैरवोऽपरः
एवं हि सप्तरूपोऽसौ कथ्यते भैरवो मुने ! ।विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते
”इति वामनपुराणे अन्धकवरप्रदाने भैरवप्रादु-र्भावे ६७ अध्यायः
*
शारदीयदुर्गापूजायां अष्टौ पूज्यभैरवा यथा, “आदौ महाभैरवञ्च संहारभैरवं तथा ।असिताङ्गभैरवञ्च रुरुं भैरवमेव
ततः कालं भैरवञ्च क्रोधभैरवमेव ।ताम्रचूडं चन्द्रचूडं अन्ते भैरवद्वयम्
एतान् संपूज्य मध्ये नवशक्तीश्च पूजयेत्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे दुर्गोपाख्याने ६१अध्यायः
ताम्रचूडचन्द्रचूडयोः स्थाने कपालभैरवरुद्र-भैरवौ ज्ञेयौ इति तत्रैव गणपतिखण्डे ४१अध्यायः
*
अपि ।“असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः ।कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः
”इति तन्त्रसारः
*
शिवगणाधिपभैरवो यथा, --“नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा ।अङ्गं भूत्वा महेशस्य वीतभीतास्तपोधनाः
यैर्मानुषशरीरेण प्रापिरे तपसो बलात् ।गणानामाधिपत्यन्तु ते जानन्ति हरं परम्
”इति कालिकापुराणे ४४ अध्यायः
*
करवीरपुरराजचन्द्रशेखरपत्नीतारावतीगर्भेमहादेवाज्जातपुत्त्रः पुरा भृङ्गी बभूवपार्व्वतीशापात् वानरमुखो भूत्वा भैरव इतिनाम्ना ख्यातः यथा, --“प्रविवेश ततो देवी स्वयं तारावतीतनौ ।महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः
कामावसाने तस्यान्तु सद्यो जातं सुतद्वयम्अभवन्नृपशार्दूल ! तथा शाखामृगाननम्
ततस्तयोर्नाम चक्रे नारदो वचनान्नृप ! ।ज्येष्ठो भैरवनामाभूत् भीरोः पुत्त्रो भयङ्करः ।वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः
”इति कालिकापुराणे ४९ अध्यायः
*
अपि ।“योऽसौ भृङ्गी हरसुतां महाकालोऽपि भर्गजः ।तावेव गौरीशापेन सम्भूय नरयोनिजौ
वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ।यथा भृङ्गिमहाकालावुत्पन्नौ प्राक् तथा शृणु ।योऽसौ महाभैरवाख्यः सकायः शारभो हरः ।भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः
”इति कालिकापुराणे ४५ अध्यायः
*
दुर्जयाख्यगिरिस्थभैरवो यथा, --“तन्मध्ये भैरवो देवो भर्गसङ्गमसम्भवः ।दुर्जयाख्ये वरगिरौ स्वर्गस्योपमभूमिगः
योऽसौ शरभरूपस्य मध्यखण्डादिभैरवः ।स एव भैरवाख्योऽयं पञ्चवक्त्रस्य मन्त्रकैः ।संपूज्य तत्र मतिमान् याति शिवलोकताम्
”इति कालिकापुराणे ८१ अध्यायः
*
भैरवस्य मन्त्रो यथा, --“केवलः सपरो हादिः षष्ठस्वरसमन्वितः ।चन्द्रबिन्दुसमायुक्तं हयग्रीवस्य बीजकम्
भैरवं पाण्डुनाथन्तु वनमालिस्वरूपिणम् ।वाराहेण तु बीजेन पूजयेत्तु विधानतः
सपरौ द्वावनुस्वारविसर्गाभ्यां समन्वितौ ।महाभैरवमन्त्रोऽयं भैरवं तेन पूजयेत्
”इति कालिकापुराणे ६२ अध्यायः
*
अस्य ध्यानं यथा, --“भैरवः पाण्डुनाथश्च रक्तगौरश्चतुर्भुजः ।गदां पद्मञ्च शक्तिञ्च चक्रञ्चापि करेण ।बिभ्रद्देव्याः पुरोभागे पूज्योऽयं विष्णुरूपधृक्
”इति तत्रैव ६० अध्यायः
*
अस्य गायत्त्री यथा, --“महाभैरव विद्महे केलिरूपाय धीमहि ।तन्नः कामो भैरवस्तु देवी नित्यं प्रचोदयात्
एषा भैरवरूपस्य गायत्त्री मे प्रतिष्ठिता ।यथेष्टमांसमद्यादिभोजनाय मया धृतः
महाभैरवरूपोऽयं तथा स्त्रीरतिसङ्गमे ।अयन्तु वाम्यभावेन पूज्यो मद्यादिभिः सदा
”इति कालिकापुराणे ७७ अध्यायः
अथ महाविद्यादीनां भैरवनिरूपणं यथा, --शिव उवाच ।“शृणु चार्व्वङ्गि शुभगे ! कालिकायाश्च भैरवम् ।महाकालं दक्षिणाया दक्षभागे प्रपूजयेत्
महाकालेन वै सार्द्धं दक्षिणा रमते सदा ।ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत
समुद्रमथने देवि ! कालकूटं समुत्थितम् ।सर्व्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः
क्षोभादिरहितं यस्मात् पीतं हालाहलं विषम्अतएव महेशानि ! अक्षोभ्यः परिकीर्त्तितः
तेन सार्द्धं महामाया तारिणी रमते सदा ।महात्रिपुरसुन्दर्य्या दक्षिणे पूजयेत् शिवम्
पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रे सुरेश्वरि ! ।तेन सार्द्धं महादेवी सदा कामकुतूहला
अतएव महेशानि ! पच्चमीति प्रकीर्त्तिता ।श्रीमद्भुवनसुन्दर्य्या दक्षिणे त्र्यम्बकं यजेत्
स्वर्गे मर्त्ये पाताले या चाद्या भुवनेश्वरी ।एतया रमते तेन त्र्यम्बकस्तेन कथ्यते
सशक्तिश्च समाख्यातः सर्व्वतन्त्रे प्रपूजितः ।भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिसंज्ञकम्
पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि ।छिन्नमस्तादक्षिणांशे कबन्धं पूजयेत् शिवम्
कबन्धपूजनाद्देवि ! सर्व्वसिद्धीश्वरो भवेत् ।धूमावती महाविद्या विधवारूपधारिणी
वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् ।महारुद्रेति विख्यातं जगत्संहारकारकम्
मातङ्गीदक्षिणांशे मतङ्गं पूजयेत् शिवम् ।तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम्
कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् ।पूजयेत् परमेशानि ! सिद्धो नात्र संशयः
पूजयेदन्नपूर्णाया दक्षिणांशे रूपकम् ।महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम्
दुर्गाया दक्षिणे देशे नारदं परिपूजयेत्
नकारः सृष्टिकर्त्ता दकारः पालकः सदा ।रेफः संहाररूपत्वान्नारदः परिकीर्त्तितः
अन्यासु सर्व्वविद्यासु ऋषिर्यः परिकीर्त्तितः
एव तस्या भर्त्ता दक्षभागे प्रपूजयेत्
”इति तोडलतन्त्रप्रथमपटले
(भैरवबलिविषयः यथा, कालिकापुराणे ।पक्षिणः कच्छपाग्राहा मत्स्या नवविधा मृगाः ।महिषा गोधिका गावश्छागो वभ्रुश्च शूकरः ।खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः ।शार्द्दूलश्च नरश्चैव स्वगात्ररुधिरन्तथा
चण्डिकाभैरवादीनां बलयः परिकीर्त्तिताः ।बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम्
)अथ भैरवरागस्य विवरणम् हनूमन्मते षड्-रागमध्ये प्रथमरागः महादेवमुखान्निर्गतः ।अस्य जातिः औडवः अर्थात् धैवतनिषाद-षड्जगान्धारमध्यममिति पञ्चस्वरमिलितः ।अस्य गृहं धैवतस्वरः शरदृतौ प्रातःकालःअस्य गानसमयः रागमालायाम् अस्या-कारः महादेवाकारवत् अर्थात् सुन्दर-सन्न्यासी भस्ममृक्षितवदनः जटामस्तकः ।जटापतद्गङ्गाजलः कङ्कणभूषितहस्तः लला-टार्द्धचन्द्रः त्रिनेत्रः सर्पवेष्टितस्कन्धबाहुः ।भालतिलकः स्कन्धस्थहस्तिचर्म्मा अथवाद्वीपिचर्म्मोपविष्टः गलमुण्डमालः त्रिशूल-हस्तः अथवा सम्मुखप्रोथितत्रिशूलः ।पार्श्वस्थवृषश्च अस्य रागिण्यः पञ्च यथा ।भैरवी वैराटी मघुमाधवी सिन्धवी वङ्गालीच अस्याष्टौ पत्त्राः यथा हर्षः तिलकःपुरीयः माधवः सूहः बलनेहः मधुः पञ्चमश्च ।कल्लिनाथमते तु भैरवश्चतुर्थरागः अस्यरागिण्यः षट् यथा भैरवी गुज्जरी भाषावेलावली कर्णाटी रगतंसा वडहंसीति चकेचित् एतन्मते पूर्व्ववत् अष्टौ पुत्त्राः किन्तुतिलकपुरीयपञ्चमसूहस्थानेषु देवशाखललित-मालकौशविलाबला लिखिताः सोमेश्वर-मतेऽपि रागिण्यः षट् यथा भैरवी गुज्जरीरेवा गुणकली वङ्गाली बहुली तन्मतेरागिण्या सहास्य गानसमयो ग्रीष्मर्त्तुः
भरतमते तु अस्य रागिण्यः पञ्च यथा मधु-माधवी ललिता वरारी वाहाकली भैरवी ।तन्मतेऽपि अस्याष्टौ पुत्त्राः यथा देवशाखःललितः हर्षः विलावलः माधवः वङ्गालःवेभासः पञ्चमश्च एषामष्टौ भार्य्या यथा ।सूहा वेलावली सोरठी कुम्भारी अन्दाहीबहुलगुज्जरी पटमञ्जरी मिरवी इति सङ्गीत-शास्त्रम्
*
मतान्तरे भैरवरागस्य भार्य्यायथा भैरवी वङ्गाली वरारी मध्यमा मधु-माधवी सिन्धवी तत्पुत्त्रा यथा कोशकःअजयपालः श्यामः खरतापः शुद्धः ढोलश्च ।तत्पुत्त्रबध्वो यथा अष्टी रेवा बहुला सोहिनीरम्भेली सूहा अत्र शोभा इति साधुःपाठः इति नारदपुराणम्
(नागभेदः यथा, महाभारते ५७ १६ ।“भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः
”)