| YouTube Channel

भेषृ (bheSR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भेष्
मूलधातुः:
भेषृ
धात्वर्थः:
भये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
भेषति-ते
धातुप्रदीपः
Sanskrit
भेषृँ भेषृ भये
- भेषति अबिभेषत् ।। 887।।
क्षीरतरङ्गिणी
Sanskrit
भेषृँ भेषृ
मानकरूपान्तरम् - भ्रेषृँ
भ्रेषृ भये
- 624। भ्रेषृ चेलने भेषते, भेषति अबिभेषत् भेषयति बिभेतेः (32) मुण्डो भीषयते (द्र0 73 40) भ्रेषते, भ्रेषति भ्रेषः 855, 856
धातुवृत्तिः
Sanskrit
भेषृँ भेषृ (अर्थः) भये
क्क चित् गताविति वठ्यते ( भेषति भिभेष भेषिता बिभेषिषति बेभेष्टि भषयति अबिभेषत् भेषते बिभेषे ) इत्यादि 868
कृदन्तरूपमाला
Sanskrit
1 {@“भेषृ भये”@} 2 ‘-- गतौ’ इति मैत्रेयः।
‘-- अगतौ इत्येके’ इति धा।
का।
3।
भेषकः-षिका, भेषकः-षिका, 4 बिभेषिषकः-षिका, 5 बेभेषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेपतिवत् 6 ज्ञेयानि।
अस्यो- भयपदित्वात् शतरि भेषन्-न्ती, भेषिष्यन्-न्ती-ती, क्विपि- 7 भेट्-भेड्-भेषौ- भेषः इति रूपाणि सम्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११७७)
02
=>
(१-भ्वादिः-८८३। अक। सेट्। उभ।)
03
=>
(२-२७)
04
=>
[[१। सन्नन्ते सर्वत्र, द्वित्वे, अभ्यासस्य ह्रस्वः। च, ‘एच इग्घ्रस्वादेशे’ (१-१-४८) इति शास्त्रात् इकाररूपः।]]
05
=>
[[२। यङन्ते द्वित्वे, अभ्यासस्य ह्रस्वे, ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणेन पुनरेकार इति ज्ञेयम्।]]
06
=>
(२६१)
07
=>
[[३। क्विपि, षकारस्य जश्त्वेन डकारः, तस्य चर्त्वविकल्पः।]]