भेषजं (bheSajaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritभेषजं, (भिषजोवैद्यस्येदमित्यण् निपा-तनादेत्वम् । यद्वा, भेषं रोगं जयतीति । जि +डः । औषधम् । इत्यमरः । २ । ६ । ५० ॥
(“अस्ति भेषजोजलाषः ।” इति ऋक्संहिता ।२ । ३३ । ७ ।) अथ भेषजभक्षणसमयाः ।“भैषज्यमभ्यवहरेत् प्रभाते प्रायशो बुधः ।कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः ॥
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् ।किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने ।सायन्तने भोजने च मुहुश्चापि तथा निशि ॥
”तत्र प्रथमः कालः ।‘प्रायः पित्तकफोद्रेके विरेकवमनार्थयोः ।लेखनार्थे च भैषज्यं प्रभाते नान्नमाहरेत् ॥
’अथ द्वितीयः कालः ।‘भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते ।अरुचौ चित्रभोज्यैश्च मित्रं रुचिरमाहरेत् ॥
समानवाते विगुणे मन्देऽग्नौ वह्निदीपनम् ।दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् ॥
व्यानकोपे तु भैषज्यं भोजनान्ते समाहरेत् ।हिक्काक्षेपककम्पेषु पूर्व्वमन्ते च भोजनात् ॥
’अथ तृतीयः कालः ।‘उदाने कुपिते वाते स्वरभङ्गादिकारिणि ।ग्रासग्रासादिकं देयं भैषज्यं साध्यभोजने ॥
प्राणे प्रदुष्टे साध्यस्य भुक्तस्यान्ते प्रदीयते ।औषधं प्रायशो धीरैः कालोऽयं स्यात् तृती-यकः ॥
’अथ चतुर्थः कालः ।मुहुर्मुहुश्च तृट्छर्द्दिहिक्काश्वासगदेषु च ।सान्नञ्च भेषजं दद्यादिति कालचतुर्थकः ॥
’अथ पञ्चमः कालः ।‘ऊर्द्ध्वगन्तु विकारेषु लेखने वृंहणे तथा ।पाचने शयने देयमनन्तं भेषजं निशि ॥
’इति पञ्चमः कालः ॥
निरन्नस्य भेषजस्य गुणमाह ।‘वीर्य्याधिकं भवति भेषजमन्नहीनंहन्यात्तदामयमसंशयमाशु चैव ॥
तद्बालवृद्धयुवतीमृदुभिश्च पीतंग्लानिं परां नयति चाशु बलक्षयञ्च ॥
’सान्नस्य भेषजस्य गुणमाह ।‘शीघ्रं विपाकमुपपत्तिबलंन हिंस्या-दन्नावृतं न च मुहुर्वदनान्निरेति ।एतद्धितं स्थविरबालकृशाङ्गनाभ्यःप्राग्भोजनाद्यदशितं किल तच्च तद्वत् ॥
’तद्वत् अन्नावृतवत् भेषजमिति शेषः ।‘औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम् ।न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च ॥
’पीतमित्युपलक्षणम् । लीढादि च ।‘अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनः कुतः ।लघुत्वमिन्द्रियोद्गारशुद्धिजीर्णौषधाकृतिः ॥
क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छाशिरोरुजः ।अरतिर्बलहानिश्च सावशेषौषधाकृतिः ॥
’अथ भेषजभक्षणविधिमाह चरकः ।‘देवान् गुरूंस्तथा विप्रान् पूजयित्वा प्रणम्य च ।आशिषश्च समादाय श्रद्धया भेषजं भजेत् ॥
रसायनमिवर्षीणां देवानामिव चामृतम् ।सुधैवोत्तमनागानां भैषज्यमिदमस्तु ते ॥
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।ऋषयः सौषधिग्रामा भूमिदेवाश्च पान्तु वः ॥
’इत्याद्याशिषः ॥
‘औषधं हेमरजतमृद्भाजनपरिस्थितम् ।पिबेदात्मजनस्याग्रे प्रसन्नवदनेक्षणः ॥
प्रशान्तस्तूपविश्याथ पीत्वा पात्रमधोमुखम् ।निःक्षिप्याचम्य सलिलं ताम्बूलाद्युपयोजयेत् ॥
’अथ भेषजानां विधानानि ।‘स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ ।ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् ॥
’तत्रादौ स्वरसविधिः ।‘आहतात्तत्क्षणाकृष्टात् द्रव्यात् क्षुण्णात् समु-द्भवे ।वस्त्रनिष्पीडितो यश्च स्वरसो रस उच्यते ॥
’अथ कल्कविधिः ।‘द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत् ।प्रक्षिप्य गालयेद्वस्त्रे तन्मानं कर्षसम्मितम् ॥
कल्के मधु घृतं तैलं देयं द्विगुणमात्रया ।सितां गुडं समं दद्याद्द्रवा देयाश्चतुर्गुणाः ॥
’अथ क्वाथविधिः ।‘पानीयं षोडशगुणं क्षुण्णे द्रव्यपले क्षिपेत् ।मृत्पात्रे क्वाथयेद्ग्राह्यमष्टमांशावशेषितम् ॥
कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम् ॥
षोडशिकं षोडशगुणम् ॥
* ॥
अथ हिमविधिः ।‘क्षुण्णं द्रव्यपलं सम्यक् षड्भिर्नीरपलैः प्लुतम् ।निशोषितं हिमः स स्यात्तथा शीतकषायकः ॥
अथ फाण्टविधिः ।‘क्षुण्णद्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् ।मृत्पात्रे कुडवोन्मानं ततस्तु श्रावयेत् पुटात् ॥
स स्यात् चूर्णद्रवः फाण्टस्तन्मानं द्विपलोन्मितम् ।क्षौद्रं सिता गुडादींस्तु कर्षमात्रान् विनिः-क्षिपेत् ॥
’ * ॥
अथ तण्डुलजलविधिः ।‘कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत् ।भावयित्वा जलं ग्राह्यं देयं सर्व्वत्र कर्म्ममु ॥
’अथ मन्थविधिः ।‘जले चतुष्पले शीते क्षुण्णं द्रव्यपलं क्षिपेत् ।मृत्पात्रे मन्थयेत् सम्यक तस्माच्च द्विगुणंपिबेत् ॥
’अथ चूर्णविधिः ।‘अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् ।तत् स्याच्चूर्णं रजःक्षोदस्तन्मात्राकर्षसम्मिता ॥
चूर्णे गुडः समो देयः शर्करा द्बिगुणा मता ।चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् ॥
’अथ भावनाविधिः ।‘द्रवेण यावता सम्यक् चूर्णं सर्व्वं प्लुतं भवेत् ।भावनायाः प्रमाणन्तु चूर्णे प्रोक्तं भिषग्वरैः ॥
’अथ पुटपाकविधिः ।‘पुटपक्वस्य कल्कस्य स्वरसो गृह्यते यतः ।अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया ॥
पुटपाकस्य पाकोऽयं लेपस्याङ्गारवर्णता ।लेपञ्च द्व्यङ्गुलं स्थूलं कुर्य्याद्वाङ्गुष्ठमात्रकम् ॥
काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् ।पलमात्रो रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत् ॥
कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः ॥
’अथोष्णोदकविधिः ।‘अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा ।अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् ॥
’अथ क्षीरपाकविधिः ।‘क्षीरमष्टगुणं द्रव्यात् क्षीरान्नीरं चतुर्गुणम् ।क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् ॥
’अथावलेहविधिः ।‘क्वाथादेर्यत् पुनः पाकात् घनत्वं सा रसक्रिया ।सोऽवलेहश्च लेहश्च तन्मात्रा स्यात् पलो-न्मिता ॥
’अथ वटिकाविधिः ।‘वटिका अथ कथ्यन्ते तन्नामवटिका वटी ।मोदको गुटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥
लेहवत् साध्यते वह्नौ गुडो वा शर्कराथवा ।गुग्गुलुर्व्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥
’अथ सन्धानविधिः ।‘द्रवेषु चिरकालस्थं द्रव्यं यत् सन्धितं भवेत् ।आसवारिष्टभेदैस्तत् प्रोच्यते भेषजोचितम् ॥
’अथ धातूनां शोधनमारणविधिः । तत्रशोधनविधिः ।‘पत्तलीकृत्य पत्राणि हेम्नो वह्नौ प्रतापयेत् ।निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा ।एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥
’ * ॥
अथ स्वर्णस्य मारणविधिः ।‘स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्द्दयेत् ।तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥
गोलकञ्च ततो रुद्ध्वा सरावदृढसंपुटे ।त्रिंशद्वनोपलैर्दद्यात् पुटान्येवं चतुर्द्दश ।निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥
’अथ स्नेहपानविधिः ।स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा ।मज्जा च तत् पिवेन्मर्त्यः किञ्चिदभ्युदिते रवौ ॥
अथ पञ्चकर्म्माणि ।प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम् ।एतानि पञ्च कर्म्माणि निरूहेणोत्तरं तथा ॥
अथ फलवर्त्तिविधिः ।घृताभ्यक्ते गुदे क्षिप्त्वा श्लक्ष्णा स्वाङ्गुष्ठसन्निभा ।मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता ॥
अथ नस्यग्रहणविधिः ।नस्यं तत् कथ्यते धीरैर्नासाग्राह्यं यदौषघम् ।लावणं नस्तकर्म्मेति तस्य नाम द्वयं मतम् ॥
अथ धूमपानविधिः ।धूमस्तु षड्विधः प्रोक्तः शमनो वृंहणस्तथा ।रेचनः कासहा चैव वामनो ब्रणधूपनः ॥
अथ गण्डूषकवलप्रतिसारणविधिः ।तत्र गण्डूषः ।स्नेहक्षीरकषायादिद्रवैः सम्पूर्णमाननम् ।आपूर्य्य स्थीयते तावद्विधिर्गण्डूषधारणे ॥
अथ कवलः ।वातपित्तकफघ्नस्य द्रव्यस्य कवलं मुखे ।अर्द्धे निःक्षिप्य संचर्व्य निष्ठीवेत् कवले विधिः ॥
अथ प्रतिसारणम् ।दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकैः ।शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥
अथ स्वेदविधिः ।स्वेदश्चतुर्विधः प्रोक्तस्तापोष्णस्वेदसंज्ञितः ।उपनाहो द्रवः स्वेदः सर्व्वे वातार्त्तिहारिणः ॥
अथ कर्णपूरणविधिः ।स्वेदयेत् कर्णदेशन्तु किञ्चित्तु पार्श्वशायिनः ।मूत्रैः स्नेहै रसैरुक्तैः कोष्णैः श्रोत्रं प्रपूरयेत् ॥
कर्णञ्च पूरितं रक्षेच्छतं पञ्चशतानि वा ।सहस्रं वापि मात्राणां श्रोत्रकण्ठशिरोगदैः ॥
रसाद्यैः पूरणं कर्णे भोजनात् प्राक् प्रशस्यते ।तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ॥
* ॥
अथालेपविधिः ।अथालेपस्य नामानि लेपलेपनलिप्तयः ।दोषघ्नो विषहा वर्ण्यः स च लेपस्त्रिधा मतः ।न रात्रौ लेपनं कुर्य्यात् शुष्यमाणं न धारयेत् ॥
अथ शोणितस्रावणविधिः ।शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च ।प्रस्थं प्रस्थार्द्धमथवा प्रस्थार्द्धार्द्धमथापि वा ॥
शरत्काले स्वभावेन शोणितं स्रावयेन्नरः ।त्वग्दोषग्रन्थिशोथाद्या न स्यू रुधिरपातनात् ॥
अथाश्च्योतनविधिः ।क्वाथक्षौद्रासवस्नेहबिन्दूनां यत्तु पातनम् ।द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हितम् ॥
अथ विडालकविधिः ।विडालको वहिर्लेपो नेत्रे पक्ष्मविवर्ज्जिते ।तस्य मात्रा परिज्ञेया मुखालेपविधानवत् ॥
अथ तर्पणविधिः ।वातातपरजोहीने वेश्मन्युत्तानशायिनः ।आधारौ माषचूर्णेन क्लिन्नेन परिमण्डितौ ॥
समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोषयोः ।पूरयेद्घृतमण्डेन विलीनेन सुखोदके ॥
अथाञ्जनविधिः ।“अथ सम्यगदोषस्य प्राप्तमञ्जनमाचरेत् ।अञ्जनं क्रियते नेत्रे तद्द्रव्यञ्चाञ्जनं मतम् ॥
अथ प्रत्यञ्जनविधिः ।गतदोषमपेताश्रु प्रपश्यत् सम्यगम्भसा ।प्रक्षाल्याक्षि यथादोषं कार्य्यं प्रत्यञ्जनं ततः ॥
इति भावप्रकाशः ॥
* ॥
अथ भेषजकरणभक्षणदिनम् । तत्र तिथयःविष्टिभिन्नाः शोभनाः । वाराः रविसोमबुध-बृहस्पतिशुक्राणाम् । नक्षत्राणि पूर्व्वफल्गुनी-पूर्व्वाषाढापूर्व्वभाद्रपन्मघाभरण्यश्लेषाविशाखा-र्द्राभिन्नानि । जन्मर्क्षञ्च निषिद्धम् ।“लग्नानि मिथुनकन्याधनुर्मीनसंज्ञकानि ।तत्र गुरुबुधचन्द्रशुक्रेषु सत्सु प्रशस्तानि ॥
”इति ज्योतिषतत्त्वम् ॥
(करणं पुनर्भेषजम् । भेषजं नाम तत् यदुप-करणाय उपकल्प्यते भिषजो धातुसाम्याभि-निर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायात्तेभ्यः ।तद्द्विविधं व्यपाश्रयभेदात् दैवव्यपाश्रयं युक्ति-व्यपाश्रयञ्च । तत्र दैवव्यपाश्रयं मन्त्रौषध-मणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोप-वासस्वस्त्ययनप्रणिपातगमनादि । युक्तिव्यपा-श्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः ।एतच्चैव भेषजमङ्गभेदादपि द्विविधं द्रव्यभूत-मद्रव्यभूतञ्च, तत्र यद्द्रव्यभूतं तदुपायाभि-प्लुतम् । उपायो नाम भयदर्शनविस्मापनक्षो-भणहर्षणभर्त्सन वधबन्धस्वप्नसंवाहनादिरमूर्त्तोभावः यथोक्ताः सिद्ध्युपायाश्च । यत्तु द्रव्य-भूतं तद्वमनादिषु योगमुपैति । तस्यापीयंपरीक्षा, इदमेवं प्रकृत्या एवंगुणमेवंप्रभाव-मस्मिन् देशे जातमस्मिन् ऋतौ एवं गृहीतमेवंनिहितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन्ऋतौ एवंविधस्य पुरुषस्यैतावन्तन्दोषमपकर्ष-यति उपशमयति वा अन्यदपि चैवंविधंभेषजमभूत्तच्चानेनानेन वा विशेषेण युक्तमिति ।इति चरके विमानस्थानेऽष्टमेऽध्याये ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
