| YouTube Channel

भृष्ट्वा (bhRSTvA)

 
Kridanta Forms
Sanskrit
भृश् (भृ꣡शुँ꣡ अधःपतने - दिवादिः - सेट्)
ल्युट् = भर्शनम्
अनीयर् = भर्शनीयः - भर्शनीया
ण्वुल् = भर्शकः - भर्शिका
तुमुँन् = भर्शितुम्
तव्य = भर्शितव्यः - भर्शितव्या
तृच् = भर्शिता - भर्शित्री
क्त्वा = भर्शित्वा / भृष्ट्वा
ल्यप् = प्रभृश्य
क्तवतुँ = भृष्टवान् - भृष्टवती
क्त = भृष्टः - भृष्टा
शतृँ = भृश्यन् - भृश्यन्ती
भृंश् (भृं꣡शुँ꣡ अधःपतने - दिवादिः - सेट्)
ल्युट् = भृंशनम्
अनीयर् = भृंशनीयः - भृंशनीया
ण्वुल् = भृंशकः - भृंशिका
तुमुँन् = भृंशितुम्
तव्य = भृंशितव्यः - भृंशितव्या
तृच् = भृंशिता - भ्र्ंशित्री
क्त्वा = भृंशित्वा / भृष्ट्वा
ल्यप् = प्रभृश्य
क्तवतुँ = भृष्टवान् - भृष्टवती
क्त = भृष्टः - भृष्टा
शतृँ = भृश्यन् - भृश्यन्ती
भ्रस्ज् (भ्र॒स्जँ॑ पाके - तुदादिः - अनिट्)
ल्युट् = भर्जनम् / भ्रज्जनम्
अनीयर् = भर्जनीयः / भ्रज्जनीयः - भर्जनीया / भ्रज्जनीया
ण्वुल् = भर्जकः / भ्रज्जकः - भर्जिका / भ्रज्जिका
तुमुँन् = भर्ष्टुम् / भ्रष्टुम्
तव्य = भर्ष्टव्यः / भ्रष्टव्यः - भर्ष्टव्या / भ्रष्टव्या
तृच् = भर्ष्टा / भ्रष्टा - भर्ष्ट्री / भ्रष्ट्री
क्त्वा = भृष्ट्वा
ल्यप् = प्रभृज्ज्य
क्तवतुँ = भृष्टवान् - भृष्टवती
क्त = भृष्टः - भृष्टा
शतृँ = भृज्जन् - भृज्जन्ती / भृज्जती
शानच् = भृज्जमानः - भृज्जमाना
कृदन्तरूपमाला
Sanskrit
1 {@“भ्रस्ज पाके”@} 2 ‘भृज्जते भृज्जति भ्रस्जेः भर्जने भर्जते भृजेः।’ 3 इति देवः।
4 भर्जकः-र्जिका, भ्रज्जकः-ज्जिका, भर्जकः-र्जिका, भ्रज्जकः-ज्जिका, 5 बिभर्जिषकः- बिभर्क्षकः-बिभ्रज्जिषकः-बिभ्रक्षकः-क्षिका, 6 बरीभृज्जकः-ज्जिका
7 8 भर्ष्टा-भर्ष्ट्री-भ्रष्टा-भ्रष्ट्री, भर्जयिता-भ्रज्जयिता-त्री, बिभर्जिषिता-बिभर्क्षिता- बिभ्रज्जिषिता-बिभ्रक्षिता-त्री, बरीभृज्जिता-त्री
-- -- 9 भृज्जन्-न्ती-ती, भर्जयन्-भ्रज्जयन्-न्ती, बिभर्जिषन्-बिभर्क्षन्-बिभ्रज्जिषन्- बिभ्रक्षन्-न्ती
-- -- भर्क्ष्यन्-भ्रक्ष्यन्-न्ती-ती, भर्जयिष्यन्-भ्रज्जयिष्यन्-न्ती-ती, बिभर्जिषिष्यन्- बिभर्क्षिष्यन्-बिभ्रज्जिषिष्यन्-बिभ्रक्षिष्यन्-न्ती-ती
-- भृज्जमानः, भर्जयमानः-भ्रज्जयमानः, बिभर्जिषमाणः-बिभर्क्षमाणः-बिभ्रज्जिषमाणः- बिभ्रक्षमाणः, बरीभृज्ज्यमानः
-- -- भर्क्ष्यमाणः-भ्रक्ष्यमाणः, भर्जयिष्यमाणः-भ्रज्जयिष्यमाणः, बिभर्जिषिष्यमाणः- बिभर्क्षिष्यमाणः-बिभ्रज्जिषिष्यमाणः-बिभ्रक्षिष्यमाणः, बरीभृज्जिष्यमाणः
धानाभृट् 10 प्रभृट्-प्रभृड्-प्रभृज्जौ-प्रभृज्जः
-- -- 11 भृष्टम् 12 -भृष्टवान्, भर्जितः-भ्रज्जितः, बिभर्जिषितः-बिभर्क्षितः-बिभ्रज्जिषितः- बिभ्रक्षितः, बरीभृज्जितः-तवान्
-- -- 13 भर्जः-भ्रज्जः, भर्जः-भ्रज्जः, बिभर्जिषुः-बिभर्क्षुः-बिभ्रज्जिषुः- 14 बिभ्रक्षुः, 15 बाभ्रज्जः
भर्ष्टव्यम्-भ्रष्टव्यम्, भर्जयितव्यम्-भ्रज्जयितव्यम्, बिभर्जिषितव्यम्-बिभर्क्षितव्यम्- बिभ्रज्जिषितव्यम्-बिभ्रक्षितव्यम्, बरीभृज्जितव्यम्
भर्जनीयम्-भ्रज्जनीयम्, भर्जनीयम्-भ्रज्जनीयम्, बिभर्जिषणीयम्-बिभक्षर्णीयम्- बिभ्रज्जिषणीयम्-बिभ्रक्षणीयम्, बरीभृज्जनीयम्
16 भर्ग्यः-भ्रद्ग्यः, भर्ज्यम्-भ्रज्ज्यम्, बिभर्जिष्यम्-बिभर्क्ष्यम्-बिभ्रज्जिष्यम्- बिभ्रक्ष्यम्, बरीभृज्ज्यम्
ईषद्भर्जः-दुर्भर्जः-सुभर्जः, ईषद्भ्रज्जः-दुर्भ्रज्जः-सुभ्रज्जः
भृज्ज्यमानः, भर्ज्यमानः-भ्रज्ज्यमानः, बिभर्जिष्यमाणः-बिभर्क्ष्यमाणः-बिभ्रज्जि- ष्यमाणः-बिभ्रक्ष्यमाणः, बरीभृज्ज्यमानः
भर्गः-भ्रद्गः, भर्जः-भ्रज्जः, बिभर्जिषः-बिभर्क्षः-बिभ्रज्जिषः-बिभ्रक्षः, बरीभृज्जः
भर्ष्टुम्-भ्रष्टुम्, भर्जयितुम्-भ्रज्जयितुम्, बिभर्जिषितुम्-बिभर्क्षितुम्-बिभ्रज्जिषितुम्- बिभ्रक्षितुम्, बरीभृज्जितुम्
भृष्टिः, भर्जना-भ्रज्जना, बिभर्जिषा-बिभर्क्षा-बिभ्रज्जिषा-बिभ्रक्षा, बरीभृज्जा
भर्जनम्-भ्रज्जनम्, भर्जनम्-भ्रज्जनम्, बिभर्जिषणम्-बिभर्क्षणम्-बिभ्रज्जिषणम्- बिभ्रक्षणम्, बरीभृज्जनम्
भृष्ट्वा, भर्जयित्वा-भ्रज्जयित्वा, बिभर्जिषित्वा-बिभर्क्षित्वा-बिभ्रज्जिषित्वा- बिभ्रक्षित्वा, बरीभृज्जित्वा
17 प्रभृज्ज्य, प्रभर्ज्य-प्रभ्रज्ज्य, प्रबिभर्जिष्य-प्रबिभर्क्ष्य-प्रबिभ्रज्जिष्य-प्रबिभ्रक्ष्य, 18 प्रबरीभृज्ज्य
भर्जम् -भ्रज्जम् २, भृष्ट्वा २, भर्जम् -भ्रज्जम् २, भर्जयित्वा -भ्रज्जयित्वा २, विभर्जिषम् -बिभर्जिषित्वा २- बिभर्क्षम् -बिभ्रज्जिषम् -बिभ्रक्षम् २, बिभर्क्षित्वा -बिभ्रज्जिषित्वा -बिभ्रक्षित्वा २, बरीभृज्जम्
बरीभृज्जित्वा
19 भृगुः, 20 भृज्जनम्, 21 इत्यादिना ष्ट्रन्प्रत्ययः वृद्धिश्च, बाहुलकात् रमागमो न।
उपधासकारस्य लोपस्तु भवत्येव।
धातुजकारस्य षत्वे ष्टुत्वे रूपमेवम्।
भ्राष्ट्रम् = भर्जनसाधनीभूतः पात्रविशेषः।]] भ्राष्ट्रम्।
प्रासङ्गिक्यः
01
=>
(११८६)
02
=>
(६-तुदादिः-१२८४। सक। अनि। उभ।)
03
=>
(श्लो। ६८)
04
=>
[[३। ण्वुलि, ‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ (६-४-४७) इति रेफोपधावर्णयोर्नि- वृत्तिः, रमागमश्च विकल्पेन भवतः। रमागमे रेफोत्तराकार उच्चारणार्थस्सन् इत्संज्ञ लब्ध्वा लुप्यति। रमागमाभावपक्षे, उपधाभूतस्य सकारस्य श्चुत्वेन शकारे, तस्यां ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन जकारः। एवमेव रूपद्वयं तृजादिषु, ण्यन्ते ज्ञेयम्।]]
05
=>
[[४। सन्नन्ते सर्वत्र, ‘सनीवन्तर्द्धभ्रस्ज--’ (७-२-४९) इत्यादिना इड्विकल्पः। इट्पक्षे इडभावपक्षे रमागमस्य वैकल्पिकत्वम्। तेन सन्नन्ते चातूरूप्यं सर्वत्रेति ज्ञेयम्। इडभावपक्षे रमागम-रेफोपधानिवृत्तिपक्षे च, ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्या- दिना धातुजकारस्य षकारे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, सनः षत्वे बिभर्क्षकः इति रूवम्। इडभावपक्ष एव रेफोपधानिवृत्ति-रमागमा- भाववक्षे, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इत्यनेन झल्परकत्वेन सकारस्य निवृत्तिः, षत्वकत्वादिकं चेति ज्ञेयम्।]]
06
=>
[[५। यङन्ते, ‘भ्रस्जादेशात् सम्प्रसारणं (पूर्व) विप्रतिषेधेन’ (वा। ६-४-४७) इति वचनात्, ‘ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिभृज्जतीनां ङिति च’ (६-१-१६) इति सम्प्रसारणे पूर्वरूपे, द्विर्वचने, अभ्यासे ‘उरत्’ (७-४-६६) इत्यनेनाकारः, रपरः। ‘रीग् ऋत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रीगागमः। उत्तर- खण्डे सकारस्य जश्त्वेन दकारः, तस्य श्चुत्वेन जकारः इति काशिका (६-१-१६) “नच श्चुत्वे दत्वमसिद्धम्
\n\n ‘--भृज्जतीनाम्--’ (६-१-१६) इति निर्देशात्।” इति व्याख्यातारोऽत्राहुः। मा। धा। वृत्तौ तु “… सकारस्यैव श्चुत्वे शकारः, तस्य, ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन जकारेऽपि रूपं सेत्स्यति।” इत्युक्तम्
\n\n एतदेव साध्विति प्रतिभाति। यङन्ते द्विजकारविशिष्टं रूपमेव सर्वत्रेति ज्ञेयम्। स्पष्टमिदं भाष्यप्रदीपोद्द्योते (६-४-४७)।]]
07
=>
[पृष्ठम्०९८१+ २८]
08
=>
[[१। तृचि, रेफोपधानिवृत्तौ रमागमे जकारस्य षकारे ष्टुत्वे भर्ष्टा इति रूपम्। रमभावपक्षे तु, ‘स्कोः--’ (८-२-२९) इति सकारलोपे षत्वष्टुत्वयोश्च भ्रर्ष्टा इति रूपमिति ज्ञेयम्। एवमेव तव्यदादिष्वपि प्रक्रियोह्या।]]
09
=>
[[२। शतरि, तुदादित्वेन कर्तरि शप्रत्यये, तस्य सार्वधातुकत्वेन, ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावः। तेन सम्प्रसारणादिषु रूपमेवम्। एवं शानच्यपि प्रक्रिया ज्ञेया।]]
10
=>
[[३। क्विपि, पदान्तनिमित्तके संयोगादिलोपे, सम्प्रसारणे, जकारस्य षत्वे जश्त्वचर्त्वयोश्च रूपमेवम्। धानाभृट् = भ्राष्ट्रम्। काशिकायाम् (८-२-३६) उदाहृतमेतत् पदम्।]]
11
=>
[[४। निष्ठायाम्, सम्प्रसारने पूर्बरूपे षत्वष्टुत्वयोश्च रूपम्। एवमेव क्त्वा-क्तिन्प्रभृतिष्वपि प्रक्रिया ज्ञेया। क्षीरतरङ्गिण्यां ‘प्रसारणविषये नेष्यते--भृष्टलुचि (ञ्चि?) तिलिङ्गात्।’ इति वाक्यं लक्ष्यते। तस्यायमर्थः -- संप्रसारणयोग्यस्थले ‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ (६-४-४७) इति सूत्रस्य प्रवृत्तिर्न
\n\n तत्र निदानं तु राजदन्तादिगणे (२-२-३१) भृष्टलुचि (ञ्चि?) तपदस्य निर्देशरूपात् लिङ्गात्--इति। अत्र गणे (२-२-३१) काशिकादिषु मृष्टलुञ्चितम् इत्येव पदं पठितम्, गणरत्नमहोदधौ राजदन्तादिगणे (पु १२०-१२१) “पूर्वं लुञ्चितम् = अपनी- तम्, पश्चाद् भृष्टम् = पक्वम् भृष्टलुञ्चितम्। यथा-- ‘यद्भृष्टलुञ्चितशशेव शशाङ्कपात्री।” इत्युक्तमिहावधेयम्।]]
12
=>
[[आ। ‘… प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २। ७२।]]
13
=>
[पृष्ठम्०९८२+ ३०]
14
=>
[[आ। ‘आश्वास्याक्षः क्षणाल्लोकान् बिभ्रक्षुरिव तेजसा। रुषा बिभ्रज्जिषुप्रख्यं कपिं बाणैरवाकिरत्।।’ भ। का। ९। ३४।]]
15
=>
[[१। यङन्तात् पचाद्यचि, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, लुका लुप्ते स्थले स्थानिवत्त्वप्रतिषेधेन यङ्निमित्तकङित्त्वानाश्रयणात् सम्प्रसारणादिकं भवति। आर्घधातुकपरत्वाभावात् रमागमरेफोपधानिवृत्त्यादिकमपि भवति। तेनात्र यथाशास्त्रम्, अभ्यासे ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः। उत्तरखण्डे सकारस्य श्चुत्वजश्त्वे भवत इति ज्ञेयम्।]]
16
=>
[[२। धातोरस्य निष्ठायामनिट्त्वेन, ण्यति, रोपधनिवृत्तिरमागमपक्षे, ‘चजोः कु घिण्- ण्यतोः’ (७-३-५२) इति जकारस्य कुत्वे भर्ग्यम् (ः) इति रूपम्। रमा- गमाद्यभावपक्षे तु, ‘पूर्वत्रासिद्धम्’ (८-२-१) इति शास्त्रात् जश्त्वात् पूर्वं ‘चजोः--’ (७-३-५२) इति कुत्वे, पश्चात् सकारस्य जश्त्वेन दकारे भ्रद्ग्यम् (ः) इति रूपमिति ज्ञेयम्। एवमेव घञ्यपि रूपद्वयस्य निष्पत्तौ निदानं ज्ञेयम्।]]
17
=>
[[३। ल्यपः स्थानिवत्त्वेन कित्त्वात् सम्प्रसारणे, सकारस्य श्चुत्वे रूपमेवम्।]]
18
=>
[पृष्ठम्०९८३+ २८]
19
=>
[[१। ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च’ (द। उ। १। ११३) इत्यनेन कुप्रत्यये सम्प्रसारणे सकारलोपे, न्यङ्क्वादित्वात् (७-३-५३) कुत्वे रूपमेवम्। भृज्जति = परिपक्वविज्ञानो भवतीति भृगुः = महर्षिविशेषः।]]
20
=>
[[२। ‘भूसूधूभ्रस्जिभ्यश्छन्दसि’ (द। उ। ५। २५) इति क्युन्प्रत्यये सम्प्रसारणे रूपम्। बाहुलकात् लोकेऽपि प्रयोगः।]]
21
=>
[[३। भ्रस्जिगमि--’ [द। उ। ८-८०]