| YouTube Channel

भृशि (bhRzi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भृंश्
मूलधातुः:
भृशि
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
भृंशयति-ते
कृदन्तरूपमाला
Sanskrit
1 {@“भृशि भाषार्थः”@} 2 आस्वदीयः।
भाषार्थानामकर्मकत्वमेव न्याय्यम्।
तथापि ‘आस्वदः सकर्मकात्’ 3 इति वचनात्, सम्भवत्कर्मणामेव णिजुत्पत्तेरत्रापि सकर्मकत्वमस्य धातोः कथञ्चिदुन्नेयम्।
चुरादिषु भाषार्थकधातुदण्डके स्वामि-काश्यपानुसारेण लिखितेषु पञ्चदशसु धातुषु मध्येऽयमप्येकः मा।
धा।
वृत्तौ पठितः।
इदि- त्करणादस्य णिज्विकल्पः।
भृंशकः-शिका, बिभृंशयिषकः-षिका, भृंशकः-शिका, बिभृंशिषकः-षिका, 4 बरीभृंशकः-शिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुंशयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(११७३)
02
=>
(१०-चुरादिः-१७८८। सक। सेट्। उभ।)
03
=>
(ग। सू। चुरादौ)
04
=>
[[१। णिजभावपक्षे यङन्ते सर्वत्राभ्यासे, ‘रीग् ऋत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रीगागमो ज्ञेयः।]]
05
=>
(२३२)