| YouTube Channel

भृञ् (bhRJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भृ
मूलधातुः:
भृञ्
धात्वर्थः:
भरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
भरति-ते
धातुप्रदीपः
Sanskrit
भृञ् भरणे
- भरति भरते सनीवन्तर्ध (7/2/49) इति सनि वेट् बिभरिषति बुभूर्षति भर्त्ता भृत्यः भार्य्या भारः भृत्या भृतिः बिभर्तीति श्लुविकरणपाठेन जौहोत्यादिकस्य रूपम् ।। 903 ।।
क्षीरतरङ्गिणी
Sanskrit
भृञ् भरणे
- भरते, भरति ह्वादौ डुभृञ् (35) बिभर्ति भारः भृतः क्र्यादौ भॄ भरणे (920) भृणाति भरः ऋदोरप् (3357) भरितः संज्ञायां भृतॄ (3256) इति खच्-विश्वम्भरा अवे भृञः (उ02'3) क्थन्-अवभृथो यज्ञान्तः अण्डन् कृसृभृवृञः (उ0 1229) भरण्ड आपवनम् भृशम् भृङ्गः भुरिक् छन्दः कुर्भ्रश्च (तु0 उ0 122) इति बभ्रुः भरतः भरुर्देशः 869
धातुवृत्तिः
Sanskrit
भृञ् (अर्थः) भरणे
एतदादयो वयत्यन्ता अनुदात्ता उभयपदिनः ( भरति बभर बभ्रतुः बभर्थ बभृव ) क्रादिनियमादिडभावः पिति गुणः, वृद्धिः, अन्यत्राजादौ यण् ( भर्त्ता भरिष्यति ) "ऋद्धनोः स्ये'' इतीट् ( भिरतु अभरत् भरेत ) आशिषि ( भषीष्ट ) "उश्च'' इति आत्मनेपदविषययोर्ज्ञलाद्योर्लिङ्सिचोः कित्त्वान्न गुणः ( अभृत ) "हस्वादङ्गात्'' इति सिचो लोपः सिजाश्रायो गुणः "उश्च'' इति कित्त्वान्न् भवति ( बिभरिषति )"सनीवन्त'' इत्यादिना वेट् इडभावे सनो ज्ञलदित्वात् "इको ज्ञल्'' इति कत्त्वे"अजज्ञनगमाम्'' इति दीर्घे "उदोष्ठ्याप्'' इति लोपे ( अबर्भः ) एवं रिग्रीकोरपि "सनीवन्त'' इत्यत्रभरेति शपा निर्देशात् यङ्लुकि नेङ्विकल्प इति ( बर्भरिषति ) इत्येवं भवति अत एव शपो निर्देशात् आचार्याः शब्विकरणं नेच्छन्तोति मतं प्रत्युक्तम् तथा वर्द्धमानसुधाकरशिवस्वाम्यादयो भरेति शपा निर्देशाद्भृञ् भरण इति भौवादिकस्य ग्रहणमिच्छन्ति ( भारयति अबीभात् भर्त्ता ) भर्त्तुर्भावकर्मणी, ( भार्त्रम् ) उद्गात्रादित्वादञ् ग्रामभर्त्ता ) याजकादित्वात् समासः जारं भरति इति ( जारभरः ) जारभरेति वचादिपाठादच् ( भूत्यः ) भरणपीयः "भृञोसंज्ञायाम्'' इति क्यपि तुक् संपूर्वाद् विभाषेत्युक्तत्वात् ण्यदपि भवतीति ( संभृत्यः संभार्य इति ) क्यब्ण्यतौ भवतः संज्ञायां ण्यदेव (भार्येति) पाणिगृहीतीत्यर्थः ( संभार्यं ) गवामयनो हविर्विशेषः भृत्या भरणविशेषः "संज्ञायां समज'' इत्यादिना स्त्रियां भावे क्यप्, "कर्मणि भूतौ''इति निर्देशात् ( भूतिरिति ) क्तिन् भवति ( आत्मम्भरिः "फलेग्रहिरात्मम्भरिश्च'' इति इन्प्रत्ययान्तो निपातितः चकारात् ( कुक्षिम्भरिश्चेति ) वृत्तौ अत एव चकारात् ज्योत्स्राकरम्भमुदरम्भरयश्चकोरा इत्यपि निर्वाह्मः ( विश्वम्भरिः "फलेग्रहिरात्मत्मम्भरिश्च'' इति इन्प्रत्ययान्तो निपातितः चकारात् ( कुक्षिम्भरिश्चेति ) वृत्तौ अत एव चकारात् ज्योत्स्राकरम्भमुदरम्भरयश्चकोरा इत्यपि निर्वाह्मः ( विश्वम्भरा ) "संज्ञायां भृतॄवृजि'' इत्यादिना खचि मुमागमः ( भारः ) घञ् वंशभारं इति, ( वांशभारिकः ) ( सूत्रम्) तद्धरतिवहत्त्यावइति भाराद्वंशादिभ्यः'' (इति सूत्रम्) वंशादिपूर्वपदाद् भारातात् प्रातिपदिकात् द्वितीयासमर्थात्वहत्यादिष्वर्थेषु ठगितिठक् अपो भरतीति (अभ्रम् ) मूलविमूजादित्वात् कः अभ्रं करोति, ( अभ्रायते ) ( सूत्रम्) शब्दवैरकलाभ्रकण्वमेघेभ्यःकरणे (इति सूत्रम्) इति द्वितीयान्तात्.करणे क्यङ् करणं क्रिया "अकृत्सार्वधातुकयोः'' इति दीर्घः ( भरुः, भर्त्ता ) भृमशीत्युप्रत्ययः ( बभ्रुः ) पिङ्गललोचनो नकुलश्च "कुर्भुश्च'' इति कुप्रत्यये द्वत्वम् ( भरतः ) "पृशियज्'' इत्यतच् ड्विदयं जुहोत्यादौ, ऋकारान्तो भर्त्सनादौ क्र्यादौ 882
कृदन्तरूपमाला
Sanskrit
1 {@“भृञ् भरणे”@} 2 ‘पूरणेऽपि-इति भट्टिः।’ इति धा।
का।
व्याख्याने 3।
‘भृञो बिभर्ति बिभृते भरते भरतीत्यपि।
ॠदन्तस्य भृणातीति भर्त्सने श्नि तथा भरः।।’ 4 इति देवः।
भारकः-रिका, भारकः-रिका, 5 बिभरिषकः-बुभूर्षकः-षिका, 6 बेभ्रीयकः-यिका
भर्ता-र्त्री, भारयिता-त्री, बिभरिषिता-बुभूर्षिता-त्री, बेभ्रीयिता-त्री
भरन्-न्ती, भारयन्-न्ती, बिभरिषन्-बुभूर्षन्-न्ती
-- 7 8 भरिष्यन्-न्ती-ती, भारयिष्यन्-न्ती-ती, बिभरिषिष्यन्-बुभूर्षिष्यन्-न्ती-ती
-- भरमाणः, भारयमाणः, बिभरिषमाणः-बुभूर्षमाणः, बेभ्रीयमाणः
भरिष्यमाणः, भारयिष्यमाणः, बिभरिषिष्यमाणः-बुभूर्षिष्यमाणः, बेभ्रीयिष्यमाणः
9 मेदिनीभृत् 10 -भृतौ-भृतः
-- -- -- भृतम्-तवान्, भृतकी, 11 भारितः, बिभरिषितः-बुभूर्षितः, बेभ्रीयितः-तवान्
12 जारभरः, 13 उदकभारः, वंशभारः 14 आत्मम्भरिः 15, 16 कुक्षिम्भरिः-उदरम्भरिः, 17 18 शाकम्भरी, 19 अब्भ्रम्, 20 21 मालभारी-उत्पलमालभारी, 22 विश्वम्भरः-विश्वम्भरा, 23 ग्रामभर्ता, 24 बभ्रिः, भारः, बिभरिषुः-बुभूर्षुः 25, 26 बेभ्रियः
भर्तव्यम्, भारयितव्यम्, बिभरिषितव्यम्-बुभूर्षितव्यम्, बेभ्रीयितव्यम्
भरणीयम्, भारणीयम्, बिभरिषणीयम्-बुभूर्षणीयम्, बेभ्रीयणीयम्
27 भृत्यः, भार्याः 28, 29 संभृत्यः-संभार्यः, 30 सम्भर्यम्, भार्यम्, बिभरिष्यम्-बुभूर्ष्यम्, बेभ्रीय्यम्
ईषद्भरः-दुर्भरः-सुभरः
-- -- 31 भ्रियमाणः, भार्यमाणः, बिभरिष्यमाणः-बुभूर्ष्यमाणः, बेभ्रीय्यमाणः
32 भारः, भारः, बिभरिषः-बुभूर्षः, बेभ्रीयः
भर्तुम्, भारयितुम्, बिभरिषितुम्-बुभूर्षितुम्, बेभ्रीयितुम्
33 भृतिः-सम्भृतिः, 34 उपभृत्, 35 भृत्या 36 -भार्या, 37 पङ्कभारिका, भारणा, बिभरिषा-बुभूर्षा, बेभ्रीया
भरणम्- 38 आभरणम्, भारणम्, बिभरिषणम्-बुभूर्षणम्, बेभ्रीयणम्
भृत्वा, भारयित्या, बिभरिषित्वा-बुभूर्षित्वा, बेभ्रीयित्वा
सम्भृत्य, सम्भार्य, प्रबिभरिष्य-प्रबुभूर्ष्य, प्रबेभ्रीय्य
39 अग्रेभारं व्रजति, अग्रे भृत्वा व्रजति।
भारम् २, भृत्वा २, भारम् २, भारयित्वा २, बिभरिषम् -बुभूर्षम् २, बिभरिषित्वा -बुभूर्षित्वा २, बेभ्रीयम्
बेभ्रीयित्वा
40 इति उप्रत्ययः।
प्राणिनो भरतीति भरुः = समुद्रः।]] भरुः, 41 इति कुप्रत्ययः, चकारात् द्वित्वं च।
बभ्रुः = कपिलो वर्णः, नकुलो वा।]] बभ्रुः, 42 भरतः, 43 अवभृथः, 44 भर्म।
प्रासङ्गिक्यः
01
=>
(११७०)
02
=>
(१-भ्वादिः-८९८। सक। अनि। उभ।)
03
=>
(२-२९)
04
=>
(श्लो। २८)
05
=>
[[५। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इत्यनेन सन्नन्ते इड्- विकल्पः। इट्पक्षे रूपमेवम्। इडभावपक्षे सनो झलादित्वात् ‘इको झल्’ (१-२-९) इति कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्वरपरत्वयोः, ‘हलि च’ (८-२-७७) इति दीर्घे बुभूर्षकः इति रूपम्। एवं सन्नन्ते सर्वत्र रूयद्वयस्य निष्पत्तिः।]]
06
=>
[[६। यङि, द्विर्वचनात् पूर्बं, परत्वेन ‘रीङ् ऋतः’ (७-४-२७) इति ‘भृ’ इत्यत्र ऋकारस्य रीङादेशे, द्विर्वचनादिषु कृतेषु अभ्यासे गुणे रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[पृष्ठम्०९७०+ २९]
08
=>
[[१। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः। एवं शानजन्तेऽपि ज्ञेयम्।]]
09
=>
[[२। ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। ‘ह्रस्वस्य--’ (६-१-७१) इति तुक्।]]
10
=>
[[आ। ‘प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाऽधिरोहति।’ शि। व। १२-४६।]]
11
=>
[[B। ‘घूर्जरान् पारशीकांश्च प्रागेव भृतकीकृतान्।’ या। अ। २२-८९।]]
12
=>
[[३। जारं भरतीति जारभरः। स्त्रियां जारभरा = कुलटा। पचादिषु ‘जारभरा’ इति पाठात् कर्मोपपदे अणपवादोऽच्प्रत्ययः। चारभरा इति कुत्रचिद् दृष्टः पाठः। चाप्रामाणिकः।]]
13
=>
[[४। उदकं भरतीति उदकभारः। ‘कर्मण्यण्’ (३-२-१) इत्यण्। ‘मन्थौदनसक्तु- बिन्दुवज्रभारहारवीवधगाहेषु च’ (६-३-६०) इत्यनेन उदकशब्दस्य उदादेशो विकल्पेन भवति।]]
14
=>
[[५। ‘फलेग्रहिरात्मम्भरिश्च’ (३-२-२६) इत्यनेन, आत्मानं भरतीत्यर्थे आत्मन्- शब्दस्योपपदस्य मुमागमः इन्प्रत्ययश्च भृञो निपात्येते। आत्मम्भरिः = उदरैकपरायणः।]]
15
=>
[[C। ‘आत्मम्भरिश्चरति यूथमसेवमानः।’ इति भाष्ये (३-२-२६) उपात्तम्।]]
16
=>
[[६। ‘भृञः कुक्ष्यात्मनोर्मुम् च’ (वा। ३-२-२६) इति वार्तिकात् कुक्षिम्भरिः इत्यपि साधुः। अत्रैव वार्तिके चकारात् उदरम्भरिः इत्याद्यपि साधुरिति वदन्ति। वस्तुतस्तु ‘स्वे पुषः’ (३-४-४०) इत्यत्र यथा स्वशब्देन स्वशब्दपर्यायाणां रै, गोशब्दानां ग्रहणम्, तद्वदत्रापि (३-२-२६) आत्मशब्देन शरीरावयववाचकेन शरीरावयववाचकानां उदर-कुक्षिप्रभृतीनामपि ग्रहणमित्यङ्गीकृत्य उदरम्भरिः कुक्षिम्भरिः इत्यादिप्रयोगाणां साधुत्वं साध्यमिति ज्ञेयम्।]]
17
=>
[[ड्। ज्योत्स्नाकरम्भमुदरम्भरयश्चकोराः।।’ अनर्घराघवे २। ८३।]]
18
=>
[[७। शाकं भरतीति शाकम्भरी = पार्वती। ‘भृञः कुक्ष्यात्मनोर्मुम् च’ (वा। ३-२-२६) इत्यत्र चकारात् मुम् इन् भवति। स्त्रियाम्, ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति ङीष्।]]
19
=>
[[८। अपो भरतीति अब्भ्रम्। कर्मण्युपपदे ‘मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कप्रत्ययः। ‘इको यणचि’ (६-१-७७) इति यण्।]]
20
=>
[पृष्ठम्०९७१+ २७]
21
=>
[[१। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः। ‘इष्टकेषीकामालानां चिततूलभारिषु’ (६-३-६५) इति पूर्वपदस्य ह्रस्वः। ‘पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च’ (परिभाषा-३०) इत्यनेन तदुत्तरपदस्य ह्रस्वः। तेन ‘उत्पलमालभारी’ इत्यपि साधुः।]]
22
=>
[[२। ‘संज्ञायां भृतॄ--’ (३-२-४६) इति खच्। ‘खित्यनव्ययस्य’ (६-३-६६) इति वर्तमाने, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। विश्वम्भरः = विष्णुः। स्त्रियां टापि विश्वम्भरा = भूमिः। ‘विश्वम्भरा, साम रथन्तराख्यं पतिंवरा चापि धनञ्जयश्च।’ इति प्रक्रियासर्वस्वे।]]
23
=>
[[३। ‘तृन्’ (३-२-१३५) इति ताच्छील्ये तृन्। याजकादित्वात् (२-२-९) समासः।]]
24
=>
[[४। तच्छीलादिषु कर्तृषु, ‘आदृगमहनजनः किकिनौ लिट् च’ (३-२-१७१) इत्यनेन किः किन् वा प्रत्ययः। तस्य लिड्वद्भावेन द्विर्वचनादिके कृते, ‘इको यणचि’ (६-१-७७) इति यणादेशः। बभ्रिः = आयुधविशेषाणां भरणशाली।]]
25
=>
[[आ। ‘स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्।’ भ। का। ९। ३७।]]
26
=>
[[५। यङन्तात् पचाद्यचि, यङो लुकि संयोगपूर्वकत्वात् यणं बाधित्वा, इयङादेशे रूपमेवम्।]]
27
=>
[[६। ‘भृञोऽसंज्ञायाम्’ (३-१-११२) इत्यत्र ‘असंज्ञायाम्’ इत्युक्तेः, संज्ञायां क्यपि तुकि भृत्यः = कर्मकरः। असंज्ञायां तु भार्यः इत्येव। भार्याः नाम क्षत्त्रियाः।]]
28
=>
(क्षत्रियाः)
29
=>
[[७। ‘संपूर्वाद्वा’ (वा। ३-१-११२) इत्यनेन वा क्यप्। पक्षे ण्यत्।]]
30
=>
[[८। अत्र बाहुलकात् यत्प्रत्यये, गुणः। सम्भर्यम् गवामयनरूपः सत्रविशेषः। क्वचित्, ‘सम्भार्यम्’ इत्येव गबामयनस्य नाम दृष्टम्।]]
31
=>
[[९। यकि, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशः।]]
32
=>
[[१०। धातोरस्य ह्रस्वऋकारान्तत्वात् घञेव न्याय्यः
\n\n क्षीरस्वामी तु “‘ॠदोरप्’ (३-३-५७) भरः।” इत्युक्तवान्। तच्चिन्त्यम्।]]
33
=>
[पृष्ठम्०९७२+ २७]
34
=>
[[१। उप भ्रियतेऽनेनेत्यर्थे ‘सम्पदादिभ्यः--’ (वा। ३-३-१०८) इति भावे क्विप् भवति। अश्वत्थकाष्ठनिर्मितः दर्शपूर्णमासिको यज्ञपात्रविशेषः = उपभृत्।]]
35
=>
[[२। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति क्यप् स्त्रियां भवति, तुक् च। असंज्ञायां तु भार्या इत्येव। ‘क्तिन्नपीष्यते’ (काशिका ३-३-९४) इति वचनात्, ‘कर्मणि भृतौ’ (३-२-२२) इति निर्देशाच्च क्तिन्नपि साधुः। तेन भृतिः-सम्भृतिः इत्यपि सिध्यति।]]
36
=>
[[आ। ‘कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि।’ रघु। ३-१२।]]
37
=>
[[३। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति अर्हणार्थे ण्वुच्प्रत्ययो भबति। पङ्कभारिकामर्हति गौः।]]
38
=>
[[४। = समन्तात् भ्रियते इत्याभरणम्। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इत्यत्र बहुलग्रहणात् कर्मणि ल्युट्।]]
39
=>
[[५। ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (३-४-२४) इति वा णमुल्। पक्षे क्त्वाऽपि एवं प्रथमं- भारं-प्रथमं भृत्वा, पूर्वम्भारं-पूर्वं भृत्वा इत्यपि बोध्यम्।]]
40
=>
[[६। ‘भृमृ--’ [द। उ। १। ९२।]
41
=>
[[७। ‘कुर्भ्रश्च’ [द। उ। १। १०७]
42
=>
[[८। ‘भृदृ--’ (द। उ। ६-१४) इत्यतच्प्रत्यये रूपमेवम्।]]
43
=>
[[९। ‘अवे भृञः’ (द। उ। ६-२८) इति अवोपपदादस्मात् क्थन्प्रत्ययः। अवभृथः = यज्ञान्तस्नानम्।]]
44
=>
[[१०। ‘मनिन्’ (द। उ। ६-७३) इति मनिन्प्रत्ययः। भर्म = भरणम्।]]