भृज्जमानः (bhRjjamAnaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“भ्रस्ज पाके”@} 2 ‘भृज्जते भृज्जति भ्रस्जेः भर्जने भर्जते भृजेः।’ 3 इति देवः।
4 भर्जकः-र्जिका, भ्रज्जकः-ज्जिका, भर्जकः-र्जिका, भ्रज्जकः-ज्जिका, 5 बिभर्जिषकः- बिभर्क्षकः-बिभ्रज्जिषकः-बिभ्रक्षकः-क्षिका, 6 बरीभृज्जकः-ज्जिका
7 8 भर्ष्टा-भर्ष्ट्री-भ्रष्टा-भ्रष्ट्री, भर्जयिता-भ्रज्जयिता-त्री, बिभर्जिषिता-बिभर्क्षिता- बिभ्रज्जिषिता-बिभ्रक्षिता-त्री, बरीभृज्जिता-त्री
-- -- 9 भृज्जन्-न्ती-ती, भर्जयन्-भ्रज्जयन्-न्ती, बिभर्जिषन्-बिभर्क्षन्-बिभ्रज्जिषन्- बिभ्रक्षन्-न्ती
-- -- भर्क्ष्यन्-भ्रक्ष्यन्-न्ती-ती, भर्जयिष्यन्-भ्रज्जयिष्यन्-न्ती-ती, बिभर्जिषिष्यन्- बिभर्क्षिष्यन्-बिभ्रज्जिषिष्यन्-बिभ्रक्षिष्यन्-न्ती-ती
-- भृज्जमानः, भर्जयमानः-भ्रज्जयमानः, बिभर्जिषमाणः-बिभर्क्षमाणः-बिभ्रज्जिषमाणः- बिभ्रक्षमाणः, बरीभृज्ज्यमानः
-- -- भर्क्ष्यमाणः-भ्रक्ष्यमाणः, भर्जयिष्यमाणः-भ्रज्जयिष्यमाणः, बिभर्जिषिष्यमाणः- बिभर्क्षिष्यमाणः-बिभ्रज्जिषिष्यमाणः-बिभ्रक्षिष्यमाणः, बरीभृज्जिष्यमाणः
धानाभृट् 10 प्रभृट्-प्रभृड्-प्रभृज्जौ-प्रभृज्जः
-- -- 11 भृष्टम् 12 -भृष्टवान्, भर्जितः-भ्रज्जितः, बिभर्जिषितः-बिभर्क्षितः-बिभ्रज्जिषितः- बिभ्रक्षितः, बरीभृज्जितः-तवान्
-- -- 13 भर्जः-भ्रज्जः, भर्जः-भ्रज्जः, बिभर्जिषुः-बिभर्क्षुः-बिभ्रज्जिषुः- 14 बिभ्रक्षुः, 15 बाभ्रज्जः
भर्ष्टव्यम्-भ्रष्टव्यम्, भर्जयितव्यम्-भ्रज्जयितव्यम्, बिभर्जिषितव्यम्-बिभर्क्षितव्यम्- बिभ्रज्जिषितव्यम्-बिभ्रक्षितव्यम्, बरीभृज्जितव्यम्
भर्जनीयम्-भ्रज्जनीयम्, भर्जनीयम्-भ्रज्जनीयम्, बिभर्जिषणीयम्-बिभक्षर्णीयम्- बिभ्रज्जिषणीयम्-बिभ्रक्षणीयम्, बरीभृज्जनीयम्
16 भर्ग्यः-भ्रद्ग्यः, भर्ज्यम्-भ्रज्ज्यम्, बिभर्जिष्यम्-बिभर्क्ष्यम्-बिभ्रज्जिष्यम्- बिभ्रक्ष्यम्, बरीभृज्ज्यम्
ईषद्भर्जः-दुर्भर्जः-सुभर्जः, ईषद्भ्रज्जः-दुर्भ्रज्जः-सुभ्रज्जः
भृज्ज्यमानः, भर्ज्यमानः-भ्रज्ज्यमानः, बिभर्जिष्यमाणः-बिभर्क्ष्यमाणः-बिभ्रज्जि- ष्यमाणः-बिभ्रक्ष्यमाणः, बरीभृज्ज्यमानः
भर्गः-भ्रद्गः, भर्जः-भ्रज्जः, बिभर्जिषः-बिभर्क्षः-बिभ्रज्जिषः-बिभ्रक्षः, बरीभृज्जः
भर्ष्टुम्-भ्रष्टुम्, भर्जयितुम्-भ्रज्जयितुम्, बिभर्जिषितुम्-बिभर्क्षितुम्-बिभ्रज्जिषितुम्- बिभ्रक्षितुम्, बरीभृज्जितुम्
भृष्टिः, भर्जना-भ्रज्जना, बिभर्जिषा-बिभर्क्षा-बिभ्रज्जिषा-बिभ्रक्षा, बरीभृज्जा
भर्जनम्-भ्रज्जनम्, भर्जनम्-भ्रज्जनम्, बिभर्जिषणम्-बिभर्क्षणम्-बिभ्रज्जिषणम्- बिभ्रक्षणम्, बरीभृज्जनम्
भृष्ट्वा, भर्जयित्वा-भ्रज्जयित्वा, बिभर्जिषित्वा-बिभर्क्षित्वा-बिभ्रज्जिषित्वा- बिभ्रक्षित्वा, बरीभृज्जित्वा
17 प्रभृज्ज्य, प्रभर्ज्य-प्रभ्रज्ज्य, प्रबिभर्जिष्य-प्रबिभर्क्ष्य-प्रबिभ्रज्जिष्य-प्रबिभ्रक्ष्य, 18 प्रबरीभृज्ज्य
भर्जम् २ -भ्रज्जम् २, भृष्ट्वा २, भर्जम् २ -भ्रज्जम् २, भर्जयित्वा २ -भ्रज्जयित्वा २, विभर्जिषम् २ -बिभर्जिषित्वा २- बिभर्क्षम् २ -बिभ्रज्जिषम् २ -बिभ्रक्षम् २, बिभर्क्षित्वा २ -बिभ्रज्जिषित्वा २ -बिभ्रक्षित्वा २, बरीभृज्जम् २
बरीभृज्जित्वा २
19 भृगुः, 20 भृज्जनम्, 21 इत्यादिना ष्ट्रन्प्रत्ययः वृद्धिश्च, बाहुलकात् रमागमो न।
उपधासकारस्य लोपस्तु भवत्येव।
धातुजकारस्य षत्वे ष्टुत्वे च रूपमेवम्।
भ्राष्ट्रम् = भर्जनसाधनीभूतः पात्रविशेषः।]] भ्राष्ट्रम्।
01 (११८६)
02 (६-तुदादिः-१२८४। सक। अनि। उभ।)
03 (श्लो। ६८)
04 [[३। ण्वुलि, ‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ (६-४-४७) इति रेफोपधावर्णयोर्नि- वृत्तिः, रमागमश्च विकल्पेन भवतः। रमागमे रेफोत्तराकार उच्चारणार्थस्सन् इत्संज्ञ लब्ध्वा लुप्यति। रमागमाभावपक्षे, उपधाभूतस्य सकारस्य श्चुत्वेन शकारे, तस्यां ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन जकारः। एवमेव रूपद्वयं तृजादिषु, ण्यन्ते च ज्ञेयम्।]]
05 [[४। सन्नन्ते सर्वत्र, ‘सनीवन्तर्द्धभ्रस्ज--’ (७-२-४९) इत्यादिना इड्विकल्पः। इट्पक्षे इडभावपक्षे च रमागमस्य वैकल्पिकत्वम्। तेन सन्नन्ते चातूरूप्यं सर्वत्रेति ज्ञेयम्। इडभावपक्षे रमागम-रेफोपधानिवृत्तिपक्षे च, ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्या- दिना धातुजकारस्य षकारे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, सनः षत्वे च बिभर्क्षकः इति रूवम्। इडभावपक्ष एव रेफोपधानिवृत्ति-रमागमा- भाववक्षे, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इत्यनेन झल्परकत्वेन सकारस्य निवृत्तिः, षत्वकत्वादिकं चेति ज्ञेयम्।]]
06 [[५। यङन्ते, ‘भ्रस्जादेशात् सम्प्रसारणं (पूर्व) विप्रतिषेधेन’ (वा। ६-४-४७) इति वचनात्, ‘ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिभृज्जतीनां ङिति च’ (६-१-१६) इति सम्प्रसारणे पूर्वरूपे, द्विर्वचने, अभ्यासे ‘उरत्’ (७-४-६६) इत्यनेनाकारः, स च रपरः। ‘रीग् ऋत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रीगागमः। उत्तर- खण्डे सकारस्य जश्त्वेन दकारः, तस्य श्चुत्वेन जकारः इति काशिका (६-१-१६) “नच श्चुत्वे दत्वमसिद्धम्
\n\n ‘--भृज्जतीनाम्--’ (६-१-१६) इति निर्देशात्।” इति व्याख्यातारोऽत्राहुः। मा। धा। वृत्तौ तु “… सकारस्यैव श्चुत्वे शकारः, तस्य, ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन जकारेऽपि रूपं सेत्स्यति।” इत्युक्तम्
\n\n एतदेव साध्विति प्रतिभाति। यङन्ते द्विजकारविशिष्टं रूपमेव सर्वत्रेति ज्ञेयम्। स्पष्टमिदं भाष्यप्रदीपोद्द्योते (६-४-४७)।]]
07 [पृष्ठम्०९८१+ २८]
08 [[१। तृचि, रेफोपधानिवृत्तौ रमागमे च जकारस्य षकारे ष्टुत्वे भर्ष्टा इति रूपम्। रमभावपक्षे तु, ‘स्कोः--’ (८-२-२९) इति सकारलोपे षत्वष्टुत्वयोश्च भ्रर्ष्टा इति रूपमिति ज्ञेयम्। एवमेव तव्यदादिष्वपि प्रक्रियोह्या।]]
09 [[२। शतरि, तुदादित्वेन कर्तरि शप्रत्यये, तस्य सार्वधातुकत्वेन, ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावः। तेन सम्प्रसारणादिषु रूपमेवम्। एवं शानच्यपि प्रक्रिया ज्ञेया।]]
10 [[३। क्विपि, पदान्तनिमित्तके संयोगादिलोपे, सम्प्रसारणे, जकारस्य षत्वे जश्त्वचर्त्वयोश्च रूपमेवम्। धानाभृट् = भ्राष्ट्रम्। काशिकायाम् (८-२-३६) उदाहृतमेतत् पदम्।]]
11 [[४। निष्ठायाम्, सम्प्रसारने पूर्बरूपे षत्वष्टुत्वयोश्च रूपम्। एवमेव क्त्वा-क्तिन्प्रभृतिष्वपि प्रक्रिया ज्ञेया। क्षीरतरङ्गिण्यां ‘प्रसारणविषये नेष्यते--भृष्टलुचि (ञ्चि?) तिलिङ्गात्।’ इति वाक्यं लक्ष्यते। तस्यायमर्थः -- संप्रसारणयोग्यस्थले ‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ (६-४-४७) इति सूत्रस्य प्रवृत्तिर्न
\n\n तत्र निदानं तु राजदन्तादिगणे (२-२-३१) भृष्टलुचि (ञ्चि?) तपदस्य निर्देशरूपात् लिङ्गात्--इति। अत्र गणे (२-२-३१) काशिकादिषु मृष्टलुञ्चितम् इत्येव पदं पठितम्, गणरत्नमहोदधौ राजदन्तादिगणे (पु १२०-१२१) “पूर्वं लुञ्चितम् = अपनी- तम्, पश्चाद् भृष्टम् = पक्वम् भृष्टलुञ्चितम्। यथा-- ‘यद्भृष्टलुञ्चितशशेव शशाङ्कपात्री।” इत्युक्तमिहावधेयम्।]]
12 [[आ। ‘… प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २। ७२।]]
13 [पृष्ठम्०९८२+ ३०]
14 [[आ। ‘आश्वास्याक्षः क्षणाल्लोकान् बिभ्रक्षुरिव तेजसा। रुषा बिभ्रज्जिषुप्रख्यं कपिं बाणैरवाकिरत्।।’ भ। का। ९। ३४।]]
15 [[१। यङन्तात् पचाद्यचि, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, लुका लुप्ते स्थले स्थानिवत्त्वप्रतिषेधेन यङ्निमित्तकङित्त्वानाश्रयणात् सम्प्रसारणादिकं न भवति। आर्घधातुकपरत्वाभावात् रमागमरेफोपधानिवृत्त्यादिकमपि न भवति। तेनात्र यथाशास्त्रम्, अभ्यासे ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः। उत्तरखण्डे सकारस्य श्चुत्वजश्त्वे च भवत इति ज्ञेयम्।]]
16 [[२। धातोरस्य निष्ठायामनिट्त्वेन, ण्यति, रोपधनिवृत्तिरमागमपक्षे, ‘चजोः कु घिण्- ण्यतोः’ (७-३-५२) इति जकारस्य कुत्वे भर्ग्यम् (ः) इति रूपम्। रमा- गमाद्यभावपक्षे तु, ‘पूर्वत्रासिद्धम्’ (८-२-१) इति शास्त्रात् जश्त्वात् पूर्वं ‘चजोः--’ (७-३-५२) इति कुत्वे, पश्चात् सकारस्य जश्त्वेन दकारे च भ्रद्ग्यम् (ः) इति रूपमिति ज्ञेयम्। एवमेव घञ्यपि रूपद्वयस्य निष्पत्तौ निदानं ज्ञेयम्।]]
17 [[३। ल्यपः स्थानिवत्त्वेन कित्त्वात् सम्प्रसारणे, सकारस्य श्चुत्वे च रूपमेवम्।]]
18 [पृष्ठम्०९८३+ २८]
19 [[१। ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च’ (द। उ। १। ११३) इत्यनेन कुप्रत्यये सम्प्रसारणे सकारलोपे, न्यङ्क्वादित्वात् (७-३-५३) कुत्वे च रूपमेवम्। भृज्जति = परिपक्वविज्ञानो भवतीति भृगुः = महर्षिविशेषः।]]
20 [[२। ‘भूसूधूभ्रस्जिभ्यश्छन्दसि’ (द। उ। ५। २५) इति क्युन्प्रत्यये सम्प्रसारणे च रूपम्। बाहुलकात् लोकेऽपि प्रयोगः।]]
21 [[३। भ्रस्जिगमि--’ [द। उ। ८-८०]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
