| YouTube Channel

भृजी (bhRjI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भृज्
मूलधातुः:
भृजी
धात्वर्थः:
भर्जने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
भर्जते
कृदन्तरूपमाला
Sanskrit
1 {@“भृजी भर्जने”@} 2 भर्जनम् = पाकविशेषः।
‘… भर्जने भर्जते भृजेः।’ 3 इति देवः।
भर्जकः-भर्जिका, भर्जकः-र्जिका, बिभर्जिषकः-बरीभृजकः-जिका
इत्यादीनि 4 सर्वाण्यपि रूपाणि भौवादिकगर्जतिवत् 5 बोध्यानि।
निष्ठायाम्- 6 भृक्तम् 7 - क्तवान्, घञि- 8 भर्गः, 9 भृज्यम्, 10 अवश्यभर्ज्यम् इमानि रूपाण्यधि- कान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(११६९)
02
=>
(१-भ्वादिः-१७८। सक। सेट्। आत्म।)
03
=>
(श्लो। ६८)
04
=>
[पृष्ठम्०९६९+ ३१]
05
=>
(४२२)
06
=>
[[१। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः। जकारस्य कुत्वम्।]]
07
=>
[[आ। ‘समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।’ धा। का। १। २४।]]
08
=>
[[२। ‘अकर्तरि कारके संज्ञायाम्’ (३-३-१९) इति घञ्। निष्ठायामनिट्त्वात्, ‘चजोः--’ (७-३-५२) इति कुत्वम्। भर्गः = शिवः।]]
09
=>
[[३। ‘ऋदुपधात्--’ (३-१-११०) इति कर्मणि क्यप्।]]
10
=>
[[४। “अवश्यभर्ज्यम्। ‘ण्य आवश्यके’ (७-३-६५) इति कुत्वाभावः।” इति क्षीरतरङ्गिण्यां दृश्यते। तत्र, ‘कृत्याश्च’ (३-३-१७१) इत्यनेन सूत्रेण आवश्यकार्थे कृत्यप्रत्ययस्य सामान्येन विधानेऽपि, यथासम्भवं तत्तद्धातुगतं प्रातिस्विकरूपं निमित्तमादायैव कृत्यप्रत्ययानामुत्पत्तिः। ततश्च प्रकृते, भृजीधातोरनुबन्धविनि- र्मुक्तस्य ऋकारोपधत्वात्, हलन्तलक्षणं ण्यतं बाधित्वा ऋदुपधलक्षणः क्यबेव प्राप्तः। क्यपश्च कित्त्वात् गुणवृद्धिप्रभृतीनामप्राप्तेः प्रकृतलक्ष्ये भर्ज्यम् इति गुणस्य प्राप्त्यभावात् अवश्यभृज्यम् इत्वेव आवश्यकार्थेऽपि रूपं स्यादिति युक्तमुत्प- श्यामः।]]