| YouTube Channel

भृङ्गी (bhRGgI)

 
Spoken Sanskrit
English
भृङ्गी - bhRGgI -
f.
- Indian aconite [ Aconitum Ferox -Bot. ]
Monier Williams Cologne
English
भृङ्गी (ई),
f.
(cf. g. गौरादि) id.,
Kāv.
Kathās.
Aconitum Ferox,
L.
Apte Hindi
Hindi
भृङ्गी
स्त्री*
- -
भौंरी
L R Vaidya
English
BfMgI {% m. %} Name of an attendant of Śiva.
BfMgI {% f. %} The female of the large black bee, अपि भ्राम्यद्‌भृंगीरणितरमणीया मुकुलप्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति Git.G.ii.
वैजयन्तीकोषः
Sanskrit
Word: भृङ्गी
Root: भृङ्गिन्
Gender: पुं
Number: all
अर्थः भृङ्गिः नाम शिवानुचरः
Meaning(s):
Śiva's worshipper
Shloka(s):
1|1|52|1 भङ्गरीटः पुनर्भङ्गी चर्मी भृङ्गिरिटिः शला। (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|52|1 भृङ्गरीटः (भृङ्गरीट) (पुं) Śiva's worshipper भृङ्गिः नाम शिवानुचरः
1|1|52|1 भृङ्गी (भृङ्गिन्) (पुं) Śiva's worshipper भृङ्गिः नाम शिवानुचरः
1|1|52|1 चर्मी (चर्मिन्) (पुं) Śiva's worshipper भृङ्गिः नाम शिवानुचरः
1|1|52|1 भृङ्गिरिटिः (भृङ्गिरिटि) (पुं) Śiva's worshipper भृङ्गिः नाम शिवानुचरः
1|1|52|1 शलः (शल) (पुं) Śiva's worshipper भृङ्गिः नाम शिवानुचरः
Related word(s):
स्व_स्वामीसंबन्धः शिवः
जातिः देवयोनिः
पुराणम्
English
भृंगी / BHṚṄGĪ. A Maharṣi who was a devotee of śiva. Once he went to kailāsa and began to go round śiva to pay homage to him. But since pārvatī and śiva were sitting together as one body, he could not go round śiva separately. He did not have much reverence for pārvatī. So he took the form of a female beetle (bhṛṅgī) and bored his way through a hole made in the place where their bodies were united and thus went round śiva alone. pārvatī was angry at this slight shown to her and cursed him to become physically weak. His legs became so weak that they were unable to support his body. So he prayed to śiva again and he blessed him with a third leg. In this way bhṛṅgī became a Maharṣi with three legs. (Maharṣis).
शब्दकल्पद्रुमः
Sanskrit
भृङ्गी,
स्त्री,
(भृ + गक् + नुट् + गौरादित्वात्ङीष् ।) अतिविषा इति राजनिर्घण्टः
भृङ्गी, [न्]
पुं,
(भृङ्गः भृङ्गवद्वर्णोऽस्यास्तीति ।इनिः ।) वटवृक्षः इति राजनिर्घण्टः
शिव-द्वारपालविशेषः तत्पर्य्यायः भृङ्गेरिटिः २भृङ्गरीटः शलः नाडीदेहः अस्थिविग्रहः६ इति त्रिकाण्डशेषः
भृङ्गरिटिः इतिभूरिप्रयोगः
तस्य जन्मकारणं यथा, --ईश्वर उवाच ।“रतिमात्रेण नोमायां मत्पुत्त्रः संभविष्यति ।महामैथुनसंत्यागात् स्यादपुत्त्री पार्व्वती
तस्मादहन्तु देवानां वचनाद्ब्रह्मणस्तथा ।त्यक्ष्ये महामैथुनन्तु किन्त्वेकं करुतामराः !
येन मे सुमहत्तेजो महामैथुनकारणम् ।धार्य्यं तेजस्विनं देवमानयन्त्वमरास्तु तम्
यो निष्कम्पो निर्व्विकारो भूत्वा तेजो ग्रही-ष्यति ।तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम्
”श्रीऔर्व्व उवाच ।“वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः ।हरतेजोग्रहायाथ वीतिहोत्रं ययुर्ह्रिया
अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् ।सेन्द्रा देवगणाः सर्व्वे हरमूचुरिदं वचः
”श्रीदेवा ऊचुः ।“एष वैश्वानरः श्रीमान् भूरितेजोमयो बली ।महामैथुनबीजन्तु त्वत्तेजः संग्रहीष्यति
इत्युक्त्वा त्रिदशाः सर्व्वे बीतिहोत्रं पुरःस्थितम् ।तस्मै निदेशयामासुः शम्भवे सर्व्वहेतवे
ततः षडङ्गं स्वं रेतो व्यादिते दहनानने ।उसत्सर्ज महाबाहुर्महामैथुनकारणम्
अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः ।अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात
तयोः कारणयोः सद्यः सम्भूतौ शङ्करात्मजौ ।एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः
भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरीत् ।महाकृष्णैकरूपस्य महाकालेति लोकभृत्
ततस्तौ लालयामास शङ्करः प्रमथोत्करैः ।अपर्णया चापि तथा क्रमात्तावभिवर्द्धितौ
प्रवृद्धौ तौ महात्मनौ हरोमाप्रतिपालितौ ।क्रमाद्गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत्
”इति कालिकापुराणे ४५ अध्यायः
तस्य वानरमुखत्वकारणं तच्छापेन हरपार्व्वत्योश्चापिमनुष्यजन्मग्रहणं यथा, --“यदा सा नर्म्मणे याता गौरी स्मरहरा-न्तिकम् ।तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ ।नर्म्मावसाने सा देवी मुक्तधम्मिल्लबन्धना ।निःसृता रतिसङ्केतशालाया जलजानना
तां निःसरन्तीं सहसा तथाभूतामनिन्दिताम् ।अयोग्यां वीक्षितुं चान्यैर्वृषध्वजमृते प्रियम्
ददर्शतुर्महात्मानौ नातिहृष्टात्ममानसौ ।भृङ्गी चापि महाकालः प्राप्तकालश्च कोपतः
दृष्ट्वा तौ मातरं दीनौ तदा भूतावधोमुखौ ।चिन्ताञ्च जग्मतुस्तीव्रां निशश्वसतुरुत्तमम्
तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता ।चुकोप तदापर्णा वाक्यञ्चैतदुवाच
एवम्भूतान्तु मां कस्मादसम्बद्धामपश्यताम् ।भवन्तौ तनयौ शुद्धौ ह्रीमर्य्यादाविवर्जितौ
तस्मादिमाममर्य्यादां भवन्तौ निरपत्रपौ ।अकुर्व्वतां ततो भूयाद्भवतोर्जन्म मानुषे
मानुषीं योनिमासाद्य ममावेक्षणदोषतः ।भविष्यतो भवन्तौ तु शाखामृगमुखौ भुवि
तौ प्राप्तदुःखौ तु तदा विमनस्कौ हरात्मजौ ।शापं तस्या सेहाते प्रोचतुश्चेदमद्रिजाम्
नियोजितौ यथा द्वारि महेशेन त्वया सह ।तथा नियोगं कुर्व्वन्तौ तिष्टावो द्बारि संयतौ ।हठान्निःसरणं गेहात्तवैव हि युज्यते
तस्मात्तत्र प्रतीकारं शृणु मातरनिन्दिते ! ।त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः
मानुषस्य हरस्यावां जायायां हरतेजसा ।भवत्याञ्चापि मानुष्या भविष्यावस्तथोदरे
अथ काले व्यतीते तु सर्व्वज्ञो वृषभध्वजः ।तद्भावि कर्म्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम्
ब्रह्मणो दक्षिणाङ्गुष्ठाद्दक्षो ब्रह्मसुतोऽभवत् ।अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत्
पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः ।यस्य तुल्यो नृपो भूमौ भूतो भविष्यति
पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ।शेषे वयसि संप्राप्ते भार्य्याभिस्तिसृभिः सह
पौष्यः परमया भक्त्या ब्रह्माणं पर्य्यतोषयत् ।तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः
ब्रह्मोवाच ।शृणु पौष्य ! यथा भावी पुत्त्रस्तव कुलोद्बहः ।तदहं ते वदिष्यामि भार्य्याभिस्तत् समाचर
इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम ! ।अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा
फलमेतत् समादाय यावत् संवत्सरद्वयम् ।आराधय महादेवं सुप्रसन्नो भविष्यति
यथा संभाषते भर्गः फलमेतत्तथा भवान् ।करिष्यंति फलं राजन् ! भार्य्याभिस्तिसृभिः सह
इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः ।हरं यष्टुं समारेभे भक्त्या परमया युतः
तु वर्षद्वयेऽतीते महादेवो जगत्पतिः ।पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये
ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः ।ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाच
ईश्वर उवाच ।इदं फलं ब्रह्मदत्तं विभज्य नृपते ! त्रिधा ।भोजयेस्ताः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः
एकस्या जठरे शीर्षं भार्य्यायास्ते भविष्यति ।अपरस्यास्तथा कुक्षौ मध्यभागो भविष्यति ।अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति
ततः खण्डत्रयं भूप ! यथास्थानं पृथक् पृथक् ।योजयिष्यति पश्चात्ते पुत्त्र एको भविष्यति
ततः फले स्वयं देवः प्रविवेश वृषध्वजः ।तत्क्षणात् तत् फलं भूतं त्रिभागं स्वयमेव हि ।ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम्
तत् फलं नृपशार्द्दूल ! गर्भाश्चाप्याहिताःशुभाः ।सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत
खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् ।तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य
एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत ।तस्य शीर्षे तदा राजन् ! सहजेन्दुकला शुभा
तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः ।चन्द्रशेखर इत्येवं कान्त्या चन्द्रसमप्रभः
एवं तिसॄणामम्बानां गर्भे जातो यतो हरः ।अतस्त्र्यम्बकनामाभूत् प्रथितो देवलोकयोः
”इति कालिकापुराणे ४६ अध्यायः
“अवतीर्णे महादेवे पौष्यजायासु स्वेच्छया ।मानुषेण प्रमाणेन तेन सम्बत्सरद्बये ।गिरिजापि ककुत्स्थस्य राज्ञो भार्य्यास्वजायत
”“इक्ष्वाकुवंशजो राजा ककुत्स्थो नाम धार्म्मिकः ।तस्य भार्य्या महाभागा भर्गदेवस्य पुत्त्रिका
सा मनोन्मथिनी नाम्ना पूजिता पतिबल्लभा ।पुत्त्री विद्यते तस्यास्तदर्थं सा गृहान्तरे ।निभृतं स्थण्डिलं कुत्वा चण्डिकां समपूजयत्
पूज्यमाना महादेवी चण्डिका राजभार्य्यया ।पार्व्वत्यपि स्वयं तस्या गर्भे काले विवेश
सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् ।तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमांशुभाम्
ककुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितोऽभवत्
तेनैव हारचिह्नेन तस्यां तारावतीति वै ।नाम्नाकरोत् पिता काले यथोक्ते नृपसत्तम !
तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह ।ककुत्स्थः कारयामास समयेऽथ स्वयम्बरम् ।स्वयं सा पार्व्वती देवी वव्रे चन्द्रशेखरम्
इति स्वयं महादेवो मानुषीं योनिमाश्रितः ।पार्व्वती स्वयं जाता नरयोनावनिन्दिता
यथा भृङ्गी महाकाल एतयोरभवत् सुतः ।तथा त्वं शृणु राजेन्द्र ! कथयामि समुद्भवम्
अथोमया समं देवो वियता चन्द्रशेखरः ।आजगाम तदा गच्छन् प्रासादं प्रतितं नृप !
ददृशेऽथ चरन्तीं तामुमायाः सदृशीं गुणैः ।सर्व्वलक्षणसम्पूर्णां माधवस्येव माधवीम्
तां दृष्ट्वा न्यगदद्देवीं गौरीं वृषभकेतनः ।इयं ते मानुषी मूर्त्तिः प्रिये ! तारावतोति या
भृङ्गी महाकालयोस्ते जन्मने विहिता स्वयम् ।त्वत्तो ह्यनन्यकान्तोऽहं नान्यां गन्तुमिहोत्-सहे
त्वमिदानीं स्वयञ्चास्यां मूर्त्त्यां प्रविशभाविनि ! ।तत उत्पादयिष्यामि महाकालञ्च भृङ्गिणम्
श्रीदेव्युवाच ।ममैव मानुषी मूर्त्तिरियं बृषभकेतन ! ।विशामि तेऽत्र वचनादुत्पादय सुतद्वयम्
प्रविवेश ततो देवी स्वयं तारावतीतनौ ।महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः
ततः सापर्णयाविष्टा देवी तारावती सती ।कामयानं महादेवं स्वयमेवाभवन्मुदा
कामावसाने तस्यान्तु सद्योजातं सुतद्वयम् ।अभवन् नृपशार्द्दूल ! तथा शाखामृगाननम्
ततस्तयोर्नाम चक्रे नारदो वचनान् नृप ! ।ज्येष्ठो भैरवनामाभूत् भीरोः पुत्त्रो भयङ्करः
वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः ।इति चक्रे तयोर्नाम देवर्षिर्ब्रह्मणः सुतः
अन्यांश्च सर्व्वसंस्कारान्नारदो मुनिसत्तमः ।चकार क्रमशो वाक्याच्चन्द्रशेखरभूभृतः
”इति कालिकापुराणे ४७ ४८ ४९ अध्यायेभ्यःसंकलितम्
तस्य जन्मनः प्रकारान्तरं यथा, वेण उवाच ।प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् ।महादेवं महात्मानं विश्वस्य जगतः पतिम्
अथैनमब्रवीद्देवस्त्रैलोक्याधिपतिर्भवः ।आश्वासनकरञ्चास्य वाक्यविद्वाक्यमुत्तमम्
अहो तुष्टोऽस्मि ते राजन् ! स्तवेनानेन सुव्रत ! ।बहुनात्र किमुक्तेन मत्समीपे वसिष्यसि
उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः ।असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत्
हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि ।पूर्व्वाधर्म्मेण घोरेण वेदनिन्दाकृतेन
साभिलाषो जगन्मातुर्भविष्यसि यदा तदा ।देहं शूलेन हत्वा ते पातयिष्यामि साध्विमम्
तत्राप्यकल्मषो भूतः स्तुत्वा मां भक्तितः पुनः ।प्राप्त्वा गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति स्मृतः ।मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि
”ततः कालान्तरे अन्धककृतस्तवानन्तरं महा-देववाक्यम् यथा, --“सिद्धोऽसि दानवपते ! परितुष्टोऽस्मि तेऽन्धक ! ।वरं वरय भद्रं ते यमिच्छसि विनाम्बिकाम्
अन्धक उवाच ।अम्बिका जननी मह्यं भगबांस्त्र्यम्बकः पिता ।बन्दामि चरणौ मातुर्बन्दनीया ममाम्बिका
वरदोऽसि यदीशान ! तद्यातु विलयं मम ।शारीरं मानसं वाग्जं दुष्कृतं दुर्विचिन्तितम्
तथा मे दानवो भावो ह्यपयातु महेश्वर ! ।स्थिरा स्यात्तव भक्तिस्तु वरमेतं प्रयच्छ मे
महेश्वर उवाच ।एवं भवतु दैत्येन्द्र ! पापं ते यातु संक्षयम् ।मुक्तोऽसि दैत्यभावाच्च भृङ्गी गणपतिर्भव
इत्येवमुक्त्वा वरदः शूलाग्रादवतार्य्य तम् ।निर्म्माज्य निजहस्तेन चक्रे निर्व्रणमन्धकम्
ततः स्वदेहतो देवान् ब्रह्मादीनाजुहाव सः ।ते निश्चेरुर्महात्मानो नमस्यन्तस्त्रिलोचनम्
गणान् नन्दी चाहूय सन्निवेश्य तदग्रतः ।भृङ्गिणं दर्शयामास ब्रुवन्नेषोऽन्धकेति हि
ते दृष्ट्वा दानवपतिं संशुष्कपिशितं रिपुम् ।गणाधिपत्यमापन्नं प्रशशंसुर्वृषध्वजम्
”इति वामनपुराणे ४४ ४५ ६७ अध्यायेभ्यःसङ्कलितम्
वाचस्पत्यम्
Sanskrit
भृङ्गी स्त्री भृ--गन् कित् नुट् गौरा० ङीष् अति-विषायाम् राजनि०