भूषणं (bhUSaNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशब्दकल्पद्रुमः
Sanskritभूषणं, (भूष्यते अनेनेति । भूष + करणेल्युट् ।) अलङ्कारः । इति हेमचन्द्रः । ३ । ३१३ ॥
(यथा, चाणक्यसंग्रहे । ८ ।“नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ॥
”)देवदेयभूषणादि यथा, --“भोग्यभूषोत्तमं नित्यं भूषणानि शृणुष्व मे ।किरीटञ्च शिरोरत्नं कुण्डलञ्च ललाटिका ॥
तालपत्रञ्च हारश्च ग्रैवेयकमथोर्म्मिका ।प्रालम्बिका रत्नसूत्रमुत्तुङ्गोऽथर्क्षमालिका ॥
पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा ।कटिलग्नं माणवको मूर्द्धतारा ललन्तिका ॥
अङ्गदो बाहुबलयः शिखाभूषणमिङ्गिका ।प्रागण्डबन्धं तद्भ्राशं नाभिपूरोऽथ मालिका ॥
सप्तकी शृङ्खलञ्चैव दन्तपत्रञ्च वर्णकः ।ऊरुसूत्रञ्च नीवी च मुष्टिबद्धं प्रकीर्णकम् ॥
पादाङ्गदं हंसकञ्च नूपुरं क्षुद्रघण्टिका ।सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः ॥
चत्वारिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः ।अलङ्काराः प्रदानेन चतुर्व्वर्गप्रदायकाः ॥
एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये ।तेषां दैवतमुच्चार्य्य पूजयेत्तु विचक्षणः ॥
शिरोगतानि चादद्यात् सौवर्णानि तु सर्व्वदा ।चूडारत्नादिकानीह भूषणानि तु भैरव ! ॥
ग्रैवेयकादि हंसान्तं सौवर्णं राजतञ्च वा ।निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम् ॥
रीतिवङ्गादिसंजातं पात्रोपकरणादिकम् ।दद्यादायसवर्जन्तु भूषणं न कदाचन ॥
घण्टाचामरकुम्भादि पात्रोपकरणादिकम् ।तद्भूषणान्तरे दद्याद् यस्मात्तदुपभूषणम् ॥
सर्व्वं ताम्रमयं दद्याद्यत्किञ्चिद्भूषणादिकम् ।सर्व्वत्र स्वर्णवत्ताम्रमर्ध्यपात्रे ततोऽधिकम् ॥
पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम् ।औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा ॥
ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः ।सर्व्वप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत् ॥
स्वोपयोगे नरः कुर्य्याद्देवानामपि भैरव ! ।ग्रीवोर्द्ध्वदेशे रौप्यन्तु न कदाचिच्च भूषणम् ॥
प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च ।पर्य्यङ्कादि यदन्यच्च सर्व्वं तदुपभूषणम् ॥
अयोमयमृते कांस्यमृते यद्भूषणं भवेत् ।स्वर्णरौप्यस्य चाभावे त्वधःकाये नियोजयेत् ॥
एतेषां भूषणादीनां यद्दातुं शक्यते नरैः ।तत्तद्दद्यात् सम्भवे तु सर्व्वमेव प्रदापयेत् ॥
चतुर्व्वर्गप्रदं नित्यं भूषणं सर्व्वसौख्यदम् ।तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् ॥
इदं ते भूषणं प्रोक्तं सर्व्वदेवस्य तुष्टिदम् ।”इति कालिकापुराणे ६८ अध्यायः ॥
अथालङ्कारयुक्तिः । तद्धारणदिनमुच्यते ।“रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु ।गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणम् ॥
अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कारधारणम् ।उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥
शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गदन्तथा ।कङ्कणं बालकञ्चैव मेखलाष्टाविति क्रमात् ॥
प्रधानभूषणान्येषु यथा स्वं याति निश्चयः ।पद्मरागश्च वज्रञ्च विजयो गोविदस्तथा ॥
मुक्तावैदूर्य्यनीलञ्च यथा मरकतं क्रमात् ।आदित्यादिदशाजानां सर्व्वसम्पत्तिदायकाः ॥
सुवणनापि घटना सर्व्वेषामुपयुज्यते ।प्रधानभूषणेष्वेवमप्रधाने न निर्णयः ॥
प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते ।तस्य प्रधानभूततत्वादित्याह भृगुनन्दनः ।सुखदा मणयः शुद्धा दुःखदा दोषशालिनः ॥
”इति युक्तिकल्पतरुः ॥
तद्धारणफलम् यथा, --“भूषणं भूषयेदङ्गं यथायोग्यविधानतः ।शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ॥
ग्रहदृष्टिहरं पुष्टिकरं दुःखप्रणाशनम् ।पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥
माणिक्यं तरणेः सुजात्यममलं मुक्ताफलम्शीतगो-र्माहेयस्य च विद्रुमो निगदितः सौम्यस्यगारुत्मतम् ।देवेज्यस्य च पुष्परागमसुराचार्य्यस्य वज्रं शने-र्नीलं निर्म्मलमन्ययोश्च गदिते गोमेदवैदूर्य्यके ॥
वासः स्रग्गन्धरत्नानां धारणं प्रीतिवर्द्धनम् ।रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् ॥
”इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
