| YouTube Channel

भूष (bhUSa)

 
Wilson
English
भूष r. 1st and 10th cls. (भूषति भूषयति) To decorate, to adorn.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भूष्
मूलधातुः:
भूष
धात्वर्थः:
अलङ्कारे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
भूषति
धातुः:
भूष्
मूलधातुः:
भूष
धात्वर्थः:
अलङ्करणे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
भूषयति-ते
धातुप्रदीपः
Sanskrit
भूषँ भूष अलङ्कारे
- भूषति बुभूष। भूषते कन्या स्वयमेव भूषणम् ।।683।।
शब्दकल्पद्रुमः
Sanskrit
भूष कि भूषणे इति कविकल्पद्रुमः
(चुरा०-पर०-सक०-सेट् ।) कि भूषयति भूषति हारोजनम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
भूष मण्डने वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ।भूषयति ते भूषति अबूभुषत्--त अभूषीत्
क्षीरतरङ्गिणी
Sanskrit
भूषँ भूष अलङ्कारे
- भूषति भूषा चुरादौ ( 10175) भूषयति तसि भूष इति दुर्गः तंसति उत्तंसः अवतंसः 661
भूषँ भूष अलंकारे
- भूषयति भ्वादौ (1455) भूषति तसि भूषेति दुर्गः -उत्तंसयति अवतंसयति, उत्तंसः, अवतंसः 195
धातुवृत्तिः
Sanskrit
भूषँ भूष (अर्थः) अलङ्कारे
भूषति (भूषते कन्यास्वयमेव अभूषिष्ट कन्या स्वयमेव) "भूषाकर्म'' इति यक्चिणोर्निषेधः भूषाफलं शोभनाख्यं कर्मणि दृश्यत इति कर्मस्थक्रियात्वं कैयट इत्युक्तम् अङ्का सूनाः परिभूषत्वश्वमित्यत्र भट्टभास्करः सूना मांसविकर्षणसाधनान्यश्वादीनि, अश्वं परिभूषन्तु परितो भवन्त्विति भवतेर्लोटि सिपि रूपमुक्त्वा भूषयतेर्वा शप् "छन्दस्युभयथा''इत्यसार्वधातुकत्वाण्णिलोप इत्याह तदस्य धातोरस्मरणात् चायं नास्तीति शक्यते वक्तुं, सर्वेषु व्याख्यानेष्वविवादेनोपादानात् अयं चुरादौ 669
कृदन्तरूपमाला
Sanskrit
1 {@“भूष अलङ्कारे”@} 2 3 “-- ‘अङ्काः सूनाः परिभूषन्त्यश्वम्।’ 4 इत्यत्र भट्टभास्करः -- ‘सूना = मांसविकर्षणसाधनानि अस्थ्यादीनि, अश्वं परिभूषन्ति = परितो भवन्ति।’ भवतेः 5 लोटि सिपि रूपमुक्त्वा, “भूषयतेर्वा शपः ‘छन्दस्युभयथा’ 6 इत्यसार्वधातुकत्वात् णिलोपः।” इत्याह।
तदस्य धातोरस्मरणात्।
चायं नास्तीति शक्यते वक्तुम्--सर्वेषु व्याख्यानेषु अविवादेनोपादानात्।” इति मा।
धा।
वृत्तिपर्यालोचनया केचनामुं धातुं पठन्तीति ज्ञायते।
सर्वत्र धातुपाठेषु भ्वादावपि धातोरस्य पाठदर्शनात्।
देवादिभिः प्राचीनैरुपादानाच्चास्माभिरप्ययमुपात्त इति ज्ञेयम्।]] ‘… भूषति भूषयेत्।।
अलङ्कृतौ…।’ 7 इति देवः।
भूषकः-षिका, बुभूषकः-षिका, बुभूषिषकः-षिका, बोभूषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचूषतिवत् 8 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(११६७)
02
=>
(१-भ्वादिः-६८२। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(तै। सं। ४-६-९)
05
=>
(भूषतेः ?)
06
=>
(३-४-११७)
07
=>
(श्लो। १७२-३)
08
=>
(५५२)
1 {@“भूष अलङ्करणे”@} 2 ‘… भूषति भूषयेत्।।
अलङ्कृतौ…।’ 3 इति देवः।
भूषकः-षिका, बुभूषयिषकः-षिका
इत्यादीनि सर्वाणि रूपाणि चौरादिक- कूटयतिवत् 4 बोध्यानि।
विभूषणम् 5।
प्रासङ्गिक्यः
01
=>
(११६८)
02
=>
(१०-चुरादिः-१७३१। सक। सेट्। उभ।)
03
=>
(श्लो। १७२-३)
04
=>
(२४०)
05
=>
[[आ। ‘विभूषणान्युन्मुमुचुः क्षमायां पेतुर्बभञ्जुर्वलयानि चैव।’ भ। का। ३-२२।]]