| YouTube Channel

भूलिङ्गशकुनि (bhUliGgazakuni)

 
Monier Williams Cologne
English
भू—लिङ्ग—शकुनि
m.
a species of bird (said to make a sound like मा साहसम्, ‘no rashness!’),
MBh.
वाचस्पत्यम्
Sanskrit
भूलिङ्गशकुनि
पु०
भूलिङ्गः शकुनिः कर्म० बिलशायिनिपक्षिभेदे “प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा”भा० स० ४१ अ० तद्विवृतिर्यथा“अथ चैषा ते बुद्धिः प्रकृतिं याति मारत! गयैवकथितं पूर्वं भूलिङ्गशकुनिर्यथा भूलिङ्गशकुनि-र्नाम पार्श्वे हिमवतः परे भीष्म! तस्याः सदा वाचःश्रूयन्तेऽर्थविगर्हिताः मा साहसमितीदं सा सततंवाशते किल साहसं चात्मनातीव चरन्ती नावबुध्यते ।साहि मांसार्गलं भीष्म! मुखात् सिंहस्य खादतः ।दन्तान्तरविलग्नं यत्तदादत्तेऽनल्पचेतना इच्छतः साहि सिंहस्य भीष्म! जीवत्यसंशयम् तद्वत्त्वमप्यधर्मिष्ठ! सदा वाचः प्रभाषसे भा० स० ४४ अ० “भूलिङ्गशकुनिर्यथान्यद्वदत्यन्यत् करोति तद्वत्ते शुद्धं कामयन्तेशबलं वदन्तीत्यर्थः भुवं लिङ्गतीति भूलिङ्गो बिलशायीपक्षिविशेषः एषेति पाठे एषा अस्मदीया बुद्धिस्तेत्वदीया त्वद्वत्ते इति योज्यं तदा स्वसैव शकुन्युप्रमत्वम्अर्थविगर्हिताः उक्तिविपरीतक्रियया अर्थोविगर्हितोयासां ताः वाशते शब्दं करोति मांसार्गलं दंष्ट्रा-न्तरलग्नस्य मांसस्य वहिर्निर्गतभागमुल्लोलम् इच्छतिइति सा हि पक्षिणी मृत्युमुखे प्रविष्टापि तदुपेक्षयाजीवन्ती यथा लोकानुपदिशति मा साहसभिति तथात्वमुपदेशकारित्वात् मृत्युमुखे पतितोऽपि मृत्युनाउपेक्षितो जीवस्यस्मांश्चोपदिशसि मृत्युमुखे पतितव्य-मिति” नील०