| YouTube Channel

भूमिप्रविभाग (bhUmipravibhAga)

 
वाचस्पत्यम्
Sanskrit
भूमिप्रविभाग
पु०
सुश्रुतोक्ते औषधाङ्गभूमिविभागे“अथातो भूमिप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः ।श्वभ्रशकराश्मविषमवल्मीकश्मशानाऽद्यतनदेवतायतनसिक-ताभिरनुपहतामनूषरामभङ्गुरामदूराद्रिकां स्निग्धां प्ररो-हवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वामूमिमौषधार्थं परीक्षेत तस्यां जातमपि कृमिविषशस्त्रा-तपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं पृ-थ्वपगाढमूलसुदीच्यां चौषधमाददीतेत्यौषधभमिपरीक्षा-विशेषः सामान्यः विशेषतस्तु तत्राश्मवती स्थिरागुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुण-भूयिष्ठा स्निग्धा शीतलाऽऽसन्नोदका स्निग्धशस्यतृण-कोमलवृक्षप्राया शुक्लाऽम्बुगुणभूयिष्ठा नानावर्णा लघ्व-श्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा ।रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्षप्रायाऽ-ऽनिलगुणभूयिष्ठा मृद्वी समाश्वभ्रवत्यव्यक्तरसजलासर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाश-गुणभूयिष्ठा तत्र केचिदाहुराचार्य्याः प्रावृट्वर्षा-शरद्धेमन्तवस न्त ग्री ष्म यथासंख्यं मूलपत्रत्वक्क्षीर-सारफलान्याददीतेति तत्तु सम्यक् कस्मात् सौम्याग्ने-यत्वाज्जगतः सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीता-ग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि भवन्ति सौम्यान्यौष-घानि सौम्येष्वृतृषु गृहीतानि सोमगुणभूयिष्ठायां भूमौजातान्यतिमधुरस्निग्धशीतानि जायन्ते एतेन शेषंव्याख्यातम् तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौजातानि विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुण-मूयिष्ठायां वमनद्रव्याणि उभयगुणभूयिष्ठायामुभयती-भागानि आकाशगुणभूयिष्ठायां संशमनान्येवं बल-वत्तराणि भवन्ति सर्वाण्येव चाभिनवान्यन्यत्र मधु-घृतगुडपिप्पलीविडङ्गेभ्यः सर्वाण्येव सक्षीराणि वी-र्य्यवन्ति तेषामसम्पत्तावनतिक्रान्तसंवत्सराण्याददीतेति ।भवन्ति चात्र गोपालास्तापसा व्याधा ये चान्ये वन-चारिणः मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ।सर्वावयवसाध्येषु पलाशलवणादिषु व्यवस्थितो नकालोऽस्ति तत्र सर्वो विधीयते गन्धवर्णरसोपेताषड्विधा भूमिरिष्यते तस्माद्भूमिस्वभावेन वीजिनःषड्रसैर्युताः अव्यक्तः किल तोयस्य रसो निश्चय-निश्चितः रस एव चाव्यक्तो भूमेरेव रसाद्भवेत् ।सर्वलक्षणसम्पन्ना भूमिः साधारणी स्मृता द्रव्याणियत्र तत्रैव तद्गुणानि विशेषतः विगन्धेनापरामृष्ट-मविपन्नं रसादिभि नवं द्रव्यं पुराणं वा ग्राह्यमेवविनिर्दिशेत् विडङ्गं पिप्पली क्षौदं सर्पिश्चाप्यनवंहितम् शेषमन्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम् ।जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् क्षीरमूत्र-पुरीषाणि जीर्णाहारेषु संहरेत् प्लोतमृद्भाण्डफलक-शङ्कुविन्यस्तभेषजम् प्रशस्तायां दिशि शुचौ भोषजा-गारमिष्यते ।”