| YouTube Channel

भूमिजम्बूः (bhUmijambUH)

 
शब्दकल्पद्रुमः
Sanskrit
भूमिजम्बूः,
स्त्री,
(भूमिजाता जम्बूरिति मध्यपदलोपीसमासः ।) भूजम्बुः क्षुद्रजम्बुः तत्पर्य्यायः ।ह्रस्वफला भृङ्गवल्लभा ह्रस्वा भूजम्बुः ५भ्रमरेष्टा पिकभक्षा काष्ठजम्बूः अस्यागुणाः कषायत्वम् मधुरत्वम् श्लेष्मपित्त-नाशित्वम् रुच्यत्वम् संग्राहित्वम् हृत्-कण्ठदोषनाशित्वम् वीर्य्यपुष्टिदत्वञ्च इतिराजनिर्घण्टः