| YouTube Channel

भूमिखर्जूरिका (bhUmikharjUrikA)

 
Monier Williams Cologne
English
भूमि—खर्जूरिका (Bhpr. ) or भूमि—खर्°जूरी (L. ),
f.
a species of palm.
Apte Hindi
Hindi
भूमिखर्जूरिका
स्त्री*
भूमि-खर्जूरिका -
खजूर वृक्ष का एक प्रकार
शब्दकल्पद्रुमः
Sanskrit
भूमिखर्ज्जूरिका,
स्त्री,
(भूमिजाता खर्ज्जूरिका ।)क्षुद्रखर्ज्जूरी तत्पर्य्यायः स्वाद्वी दुरा-रोहा मृदुच्छदा अस्या भेदाः गुणाश्च ।“भूमिखर्ज्जूरिका स्वाद्वी दुरारोहा मृदुच्छदा ।अथ स्कन्धफला काककर्क्कटी स्वादुमस्तका
पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् ।खर्ज्जूरी गोस्तनाकारा पराद्द्वीपादिहागता
जायन्ते पञ्चिमे देशे सा च्छोहोरेति कीर्त्तिता
खर्ज्जूरीत्रितयं शीतं मधुरं रसपाकयोः ।स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु
तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भिशुक्रदम् ।कोष्ठमारुतकृद्वल्यं वाह्यवातकफापहम्
ज्वराभिघातक्षुत्तृष्णाकाशश्वासनिवारणम् ।मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत्
महतीभ्यां गुणैरल्पा स्वल्पखर्ज्जूरिका स्मृता
खर्ज्जूरीतरुतोयन्तु मदपित्तकरं भवेत् ।वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
भूमिखर्जूरिका स्त्री भुवि जाता खर्जूरिका शा० त० ।स्वर्जरिकाभेदे “भूमिखर्जूरिका साद्वी दुरारोहा मृदु-च्छदा अथ स्कन्धफला काककर्कटी स्वादुमस्तका ।पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत् खर्जूरीगोस्तनाकारा पराद्द्वीपादिहागता जायते पश्चिमेदेशे सा छोहोरेति कीर्त्तिता खर्जूरीत्रितयं शीतंमधुरं रसपाकयोः स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम् ।कोष्ठमारुतकृद्बल्यं बाह्यवातकफापहम् ज्वराभिघात-क्षुत्तृष्णाकासश्वासनिवारणम् मदमूर्च्छामरुत्पित्त-मद्योद्भूतगदान्तकृत् महतीभ्यां गुणैरल्पा स्वल्पखर्जू-रिका स्मृता खर्जूरीतरुतोयन्तु मदपित्तकरं भवेत् ।वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्” भावप्र०