| YouTube Channel

भूमा (bhUmA)

 
शब्दकल्पद्रुमः
Sanskrit
भूमा, [न्]
पुं,
बहुत्वम् यथा “भूयोभूम-भूयिष्ठाः ।” बहोरीयस्विमन् इष्ठान्तस्य एतेनिपात्यन्ते इति मुग्धबोधव्याकरणम्
ईय-सोर्यस् ईयस्वादौ बहोर्भूरादेशः ईयस्विन्नो-रादिलोपः इष्ठे यकारागमश्च निपात्यन्ते ।अतिशयेन बहुः भूयान् बहोर्भावः भूमा ।अतिशयेन बहुः भूयिष्ठः इति तट्टीकायांदुर्गादासः
बहुत्वविशिष्टः तत्र वाच्यलिङ्गः ।यथा भूयः भूम इति प्रभूतशब्दपर्य्यायेअमरटीकायां रमानाथः
*
विराट्पुरुषः ।यथा “यत्र नान्यत् पश्यति नान्यत् शृणोतिनान्यद्विजानाति भूमा यो भूमा तदमृतम् ।”इत्यादि श्रुतिभ्यो ब्रह्मनित्यत्वं सत्त्वशुद्धस्य प्रति-भाति इति वेदान्तसारटीका