| YouTube Channel

भूनिम्बाद्य (bhUnimbAdya)

 
वाचस्पत्यम्
Sanskrit
भूनिम्बाद्य
न०
चक्रदत्तोक्ते औषधभेदे “भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान् द्वौ चित्रकात् वत्सक-त्वग्भागान् षोडश चूर्णयेत् गुडशीताम्बुना पीतंग्रहणीदोषगुल्मनुत् कामलाज्वरपाण्डुत्वमेहारु-म्यतिसारनुत् गुडयोगाद् गुडाम्बु स्याद् गुडवर्णरसान्वितम्”