| YouTube Channel

भूनिम्बः (bhUnimbaH)

 
Wordnet
Sanskrit
Synonyms:
भूनिम्बः, किराततिक्तः, अनार्यतिक्तः, भूतिकम्, कैरातः, रामसेनकः, हैमः, काण्डतिक्तः, किरातकः, कटुतिक्तः
noun
पर्वतप्रदेशेषु प्राप्यमाणः औषधीयक्षुपः यः एकवर्षीयः वा द्विवर्षीयः वा भवति, यस्य उन्नतिः द्व्यङ्गुलादारभ्य चतुरङ्गुलपर्यन्तं भवति।
"भूनिम्बस्य मूलरूपं नेपालदेशे प्राप्यते।"
Synonyms:
कैरातम्, भूनिम्बः, किरातः, अनार्यतिक्तः, काण्डतिक्तकः, किरातकः, चिरतिक्तः, चिरातितिक्तः, तिक्तकः, सुत्क्तकः कटुतिक्तकः, रामसेनकः
noun
एकः क्षुपः यस्य गुणाः वायुवृद्धिकारित्वं रूक्षत्वं कफपित्तज्वरनाशित्वं
"कैरातस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
भूनिम्बः,
पुं,
(क्षुपविशेषः चिराता इति भाषा ।(यथा, सुश्रुते चिकित्सितस्थाने अध्याये ।“मधूकभूनिम्बगृष्टिका इति समभागाः कल्कःस्यात् ।”)तत्पर्य्यायः अनार्य्यतिक्तः कैरातः राम-सेनकः किराततिक्तः हैमः काण्ड-तिक्तः किरातकः इति राजनिर्घण्टः
कटुतिक्तः इति भावप्रकाशः
(तथा चास्यपर्य्यायान्तरम् वैद्यकरत्नमालायाम् ।“किराततिक्तं कैरातं भूनिम्बः काण्डतिक्तकः
”)अस्य गुणाः वातिकत्वम् तिक्तत्वम् कफ-पित्तज्वरापहत्वम् ब्रणसंरोपणत्वम् पथ्य-त्वम् कुष्ठकण्डूतिशोफनाशित्वञ्च इति राज-निर्घण्टः
अपि ।“किरातकोऽन्यो नेपालः सोऽर्द्धतिक्तो ज्वरा-न्तकः ।किरातः सारको रूक्षः शीतलस्तिक्तको लघुः
सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् ।कासशोषतृषाकुष्ठज्वरव्रणकृमिप्रणुत्
”इति भावप्रकाशः
अस्य गुणपर्य्यायान्तरे किराततिक्तशब्दे द्रष्टव्ये