| YouTube Channel

भूतिः (bhUtiH)

 
Apte 1890
English
भूतिः f. [भू-क्तिन्] 1 Being, existence.
2 Birth, production.
3 Wellbeing, welfare, happiness, prosperity
प्रजानामेव भूत्यर्थं ताभ्यो बलिमग्रहीत् R. 1. 18
नरपतिकुलभूत्यै 2. 75
वोऽस्तु भूत्यै भगवान् मुकुंदः Vikr. 1. 2.
4 Success, good fortune.
5 Wealth, riches, fortune
विपत्प्रतीकारपरेण मंगलं निषेव्यते भूतिसमुत्सुकेन वा Ku. 5. 76.
6 Grandeur, dignity, majesty.
7 Ashes
भृतभूतिरहीनभोगभाक् Śi. 16. 71 (where भूति means ‘riches’ also)
स्फुटोपमं भूतिसितेन शुंभुना 1. 4.
8 Decoration of elephants with coloured stripes
भक्तिच्छेदैरिव चिरचितां भूतिमंगे गजस्य Me. 19.
9 The superhuman power attainable by the practice of penance or magical rites.
10 Fried meat.
11 The rutting of elephants.
तिः 1 An epithet of Śiva.
2 Of Viṣṇu
3 Of a class of Manes.
Comp.
कर्मन् n. any auspicious or festive rite.
काम a. desirous of prosperity. (
मः) {1} a minister of state. {2} an epithet of Bṛhaspati.
कालः a happy or auspicious hour.
कीलः {1} a hole, pit. {2} a meat. {3} a cellar, an underground room.
कृत् m. an epithet of Śiva.
गर्भः an epithet of Bhavabhūti.
दः an epithet of Śiva.
निधानं the lunar mansion called धनिष्ठा.
भूषणः an epithet of Śiva.
वाहनः an epithet of Śiva.
Hindi
Hindi
असाधारण शक्ति
Apte Hindi
Hindi
भूतिः
स्त्री*
- भू+क्तिन्
"होना, अस्तित्व"
भूतिः
स्त्री*
- भू+क्तिन्
"जन्म, उत्पत्ति"
भूतिः
स्त्री*
- भू+क्तिन्
"कुशल-क्षेम, कल्याण, आनन्द, समृद्धि"
भूतिः
स्त्री*
- भू+क्तिन्
"सफलता, अच्छा भाग्य"
भूतिः
स्त्री*
- भू+क्तिन्
"धन-दौलत, सौभाग्य"
भूतिः
स्त्री*
- भू+क्तिन्
"गौरव, महिमा, विभूति"
भूतिः
स्त्री*
- भू+क्तिन्
राख
भूतिः
स्त्री*
- भू+क्तिन्
रंगीन धारियोंसे हाथी का श्रृंगार करना
भूतिः
स्त्री*
- भू+क्तिन्
तपस्या या अभिचार के अनुष्ठान से प्राप्य अतिमानवशक्ति
भूतिः
स्त्री*
- भू+क्तिन्
तला हुआ मांस
भूतिः
स्त्री*
- भू+क्तिन्
हाथियों का मद
भूतिः
पुं*
- -
शिव का विशेषण
भूतिः
पुं*
- -
विष्णु का विशेषण
भूतिः
पुं*
- -
पितृगण का विशेषण
भूतिः
स्त्री*
- भू+क्तिन्
"सत्ता, अस्तित्व"
भूतिः
स्त्री*
- भू+क्तिन्
"जन्म, उपज"
भूतिः
स्त्री*
- भू+क्तिन्
"कल्याण, कुशलमंगल, समृद्धि"
भूतिः
स्त्री*
- भू+क्तिन्
सफलता
भूतिः
स्त्री*
- भू+क्तिन्
"धन, दौलत"
भूतिः
स्त्री*
- भू+क्तिन्
"शान, आभा, कान्ति "
भूतिः
स्त्री*
- भू+क्तिन्
राख
Wordnet
Sanskrit
Synonyms:
विभूतिः, भूतिः, ऐश्वर्यम्, सिद्धिः
noun
योगसाधनस्य अलौकिकं फलम्।
"अणिमा महिमा गरिमा लघिमा प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं भवति अष्टसिद्धयः।"
Synonyms:
धनिष्ठा, श्रविष्ठा, वसुदैवता, भूतिः, निधानम्, धनवती
noun
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतत्रयोविंशन्नक्षत्रम्।
"पञ्चतारकायुक्तं नक्षत्रं भवति धनिष्ठा यत् नवसु ऊर्ध्वनक्षत्रेषु वर्तते।"
Synonyms:
वेतनम्, वर्तनम्, भूतिः, कर्मण्या, विधा, भृत्या, भरण्यम्, भरणम्, मूल्यम्, निर्वेशः, पणः, विष्टिः, आजीवः, जीवनम्, वार्ता, जीविका
noun
कर्मदक्षिणा
सः अल्पं वेतनं गृहीत्वा कार्यं करोति। /"पणो देयो अवकृष्टस्य षडुत्कृष्टस्य वेतनम् [मनु. 7.126]"
Synonyms:
अस्तित्वम्, भवः, सत्ता, विद्यमानता, भूतिः
noun
विद्यमानस्य भावः।
"ईश्वरस्य अस्तित्वम् अस्ति वा नास्ति इति विषये मम मनसि शङ्का उत्पन्ना।"
Tamil
Tamil
பூ4தி: : இருப்பு, பிறப்பு, இன்பம், செல்வம், மகிமை, கெளரவம், விபூதி, அலங்காரம், தவ வலிமை.
शब्दकल्पद्रुमः
Sanskrit
भूतिः,
स्त्री,
(भवत्यनयेति भू + “क्तिच्क्तौ चसंज्ञायाम् ।” १७४ इति क्तिच् ।)महादेवस्य अणिमाद्यष्टप्रकारवैभवम् इत्य-मरः ३८
शम्भुधृतभस्म इत्यमर-टीकायां भरतः
भस्म
(यथा, शिशुपाल-वधे ।“क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिनास्फुटोपमं भूतिसितेन शम्भुना
”)सम्पत्तिः (उत्तरोत्तरवृद्धिः यथा, भगवद्-गीतायाम् १८ ७४ ।“यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः ।तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम
”)हस्तिशृङ्गारः इति मेदिनी ते, ४०
(हस्ति-शृङ्गारोऽत्र गजमण्डनम् यथा, मेघदूते १९ ।“रेवां द्रक्ष्यस्यपलविषमे बिन्ध्यपादे विशीर्णाम् ।भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य
”)जातिः इति विश्वः
(पितृगणभेदः यथा, मार्कण्डेयपुराणे ९६ ४३ ।“विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः ।भूतिदो भूतिकृद् भूतिः पितॄणां ये गणा नव
”लक्ष्मीः यथा, भागवते ।“यस्तयोः पुरुषः साक्षाद् विष्णुर्यज्ञस्वरूपधृक् ।या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी
”भूतेर्लक्ष्म्याः इति तट्टीकायां श्रीधरस्वामी
)वृद्धिनामौषधम् रोहिषतृणम् भूतृणम् ।इति राजनिर्घण्टः
(भवनमिति भू + क्तिन्)उत्पत्तिः सत्ता इति भूघातोर्भावे क्तिप्रत्य-वेन निष्पन्नम्
कृदन्तरूपमाला
Sanskrit
1 {@“अस भुवि”@} 2 ‘असतेऽसति गत्यादौ’ भुव्यस्ति, क्षेपणेऽस्यति’ 3 इति देवः।
4 भावकः-विका, भावकः-विका, 5 बुभूषकः-षिका, 6 बिभावयिषकः-षिका, 7 बोभूयकः-यिका
भविता, भावयिता, बुभूषिता, बिभावयिषिता-बोभूयिता-त्री
8 सन्-सती, भावयन्, बुभूषन्, बिभावयिषन्-न्ती
भविष्यन्, भावयिष्यन्, बुभूषिष्यन्, बिभावयिषिष्यन्-न्ती-ती
9 व्यतिषाणः, भावयमानः, भावयिष्यमाणः, बोभूयमानः, बोभूयिष्यमाणः
भूः-भुवौ-भुवः
-- -- -- 10 भूतः-तम्-तवान्, भावितः, बुभूषितः, बिभावयिषितः-बोभूयितः-तवान्
भवः, भावः, बुभूषुः, बिभावयिषुः, बोभूयः
भवितव्यम्, भावयितव्यम्, बुभूषितव्यम्, बिभावयिषितव्यम्, बोभूयितव्यम्
भवनीयम्, 11 प्रभबनीयम्, प्र 12 भावनीयम्, बुभूषणीयम्, बिभावयिषणीयम्, बोभूयनीयम्
13 भव्यम्, अवश्य 14 भाव्यम्, भाव्यम्, बुभूष्यम्, बिभावयिष्यम्, बोभूय्यम्
ईषद्भवम्, दुर्भवम्, सुभवम्
-- -- भूयमानः, भाव्यमानः, बुभूष्यमाणः, बिभावयिष्यमाणः, बोभूय्यमानः
15 16 भवः भावः 17 भावः, बुभूषः
बिभावयिषः, बोभूयः
भवितुम्, भावयितुम्, बुभूषितुम्, बिभावयिषितुम्, बोभूयितुम्
भूतिः, भावना, बुभूषा, बिभावयिषा, बोभूया
भवनम्, भावनम्, बुभूषणम्, बिभावयिषणम्, बोभूयनम्
भूत्वा, भावयित्वा, बुभूषित्वा, बिभावयिषित्वा, बोभूयित्वा
अनुभूय, अनुभाव्य, अनुबुभूष्य, अनुभावयिष्य, अनुबोभूय्य
भावम् २, भूत्वा २, भावम् २, भावयित्वा २, बुभूषम् २, बुभूषित्वा २, बिभावयिषम्
बिभावयिषित्वा
बोभूयम्
बोभूयित्वा २।
प्रासङ्गिक्यः
01
=>
(५२)
02
=>
(२-अदादिः-१०६५-अक। सेट्। पर।)
03
=>
(१८४)
04
=>
[[१। ‘अस्तेर्भूः’ (२-४-५२) इति आर्ध- धातुकविषये ‘भू’ आदेशः।]]
05
=>
[[१। आ। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इति इण्णिषेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्।]]
06
=>
[[२। ‘ओः पुयण्ज्यपरे’ (७-४-८०) इति अभ्यासोकारस्येत्त्वम्।]]
07
=>
[[२। आर्घधातुकविवक्षायां भूभावः। अतश्च हलादित्वात् यङ्प्रत्यय उत्प- द्यते--यथा अजधातौ। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः।]]
08
=>
[[३। ‘श्नसोरल्लोपः’ (६-४-१११) इति धात्वकारस्य लोपः। शतुः सार्वधा- तुकत्वात् भूभावो न।]]
09
=>
[[३। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्’। ‘श्नसोरल्लोपः’ (६-४-१११) इति धात्वकारलोपः। ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः’ (८-३-८७) इति षत्वम्।]]
10
=>
[[४। ‘श्र्युकः किति’ (७-२-११) इतीण्- णिषेधः।]]
11
=>
[[५। ‘न भाभू--’ (८-४-३४) इति णत्वं न।]]
12
=>
[[६। ‘ण्यन्तभादीनां--’ (वा ८-४-३४) इति णत्वं न।]]
13
=>
[[६। ‘अचो यत्’ (३-१-९७) इति यत्।]]
14
=>
[[७। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
15
=>
[पृष्ठम्००५१+ ३०]
16
=>
[[१। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे।]]
17
=>
[[२। ‘एरच्’ (३-३-५६) इत्यच्।]]
1 {@“भू सत्तायाम्”@} 2 ‘सत्तायां भवति, प्राप्तौ णिचि भावयते तङि।
भवते शपि तत्रैव, भावयत्यवकल्कने।।’ 3 इति देवः।
भावकः-भाविका, भावकः-विका, 4 बुभूषकः-षिका, बोभूयकः-यिका
भविता-त्री, भावयिता-त्री, बुभूषिता-त्री, बोभूयिता-त्री
परिभवन्-न्ती, 5 सुखमनुभवन् वर्धस्व, शुश्रूषुर्भवन् विद्यामधिकरोति, 6 शयनमनुभवन् भुङ्क्ते, मा 7 भवन्, भावयन्-न्ती, बुभूषन्-न्ती
-- 8 व्यतिभवमानः, भावयमानः, 9 व्यतिबुभूषमाणः, बोभूयमानः
व्यतिभविष्यमाणः, भावयिष्यमाणः, व्यतिबुभूषिष्यमाणः, बोभूयिष्यमाणः
10 गान्दिनीभूः- 11 गान्दिनीभुवौ-गान्दिनीभुवः
-- -- 12 भूतम्, भूतवान्, भावितः, बुभूषितः, बोभूयितः-तवान्
13 भवः, भावः, 14 भव्यः 15, 16 अभिभावी, 17 परिभावी 18 परिभवी, 19 अभावी, 20 21 भावी, 22 अभिभावकः-अभिभविता, 23 भविता, 24 आढ्यम्भविष्णुः 25 - सुभगम्भविष्णुः-स्थूलम्भविष्णुः-पलितम्भविष्णुः-नग्नम्भविष्णुः-अन्धम्भविष्णुः- प्रियम्भविष्णुः, आढ्यम्भावुकः- 26 सुभगम्भावुकः-स्थूलम्भावुकः-पलितम्भावुकः- नग्नम्भावुकः-अन्धम्भावुकः-प्रियम्भावुकः, 27 मषीभावुकः, 28 भविष्णुः, 29 भूष्णुः, 30 भावुकः, 31 परिभवी, 32 33 विभूः, 34 स्वयम्भूः-अग्निभूः-कच्छभूः-मित्रभूः- पवनभूः, 35 विभुः-प्रभुः-संभुः, 36तद्रु--आदिभ्य उपसंख्यानम्--’ 37 इति डुप्रत्ययः।
शं भावयतीति शम्भुः।
अन्तर्भावितण्यर्थोऽत्र भवतिरिति ज्ञेयम्।]] शम्भुः, 38 भवकः, 39 धेनुम्भव्या, 40 बभूवान्, 41 भवभूतिः-भूतः, भावः, 42 भावनः, 43 बुभूषुः- 44 बिभावयिषुः, बोभुवः
भवितव्यम्, भावयितव्यम्, बुभूषितव्यम्, बोभूयितव्यम्
45 प्रभवनीयम्, 46 प्रभावनीयम्, बुभूषणीयम्, बोभूयनीयम्
47 भव्यम्, 48 अवश्यभाव्यम्, 49 ब्रह्मभूयं 50 मित्रभूयं वा गतः, भाव्यः, भाव्यम्, बुभूष्यम्, बोभूय्यम्
ईषद्भवः-दुर्भवः-सुभवः, 51 ईषदाढ्यम्भवं-दुराढ्यंभवं-स्वाढ्यम्भवम्, 52 सुरा- जम्भवः, वा भवता
-- -- -- भूयमानः-अनुभूयमानम्, भाव्यमानः, बुभूष्यमाणः, बोभूय्यमानः
53 भवः, 54 भावः, प्रभवः, 55 परिभावः 56 -परीभावः-परिभवः, भावः, बुभूषः-बोभूयः
57 भवितुम्, भावयितुम्, बुभूषितुम्, बोभूयितुम्
58 भूतिः, 59 भूः, वर्षाभूः, दृन्भूः-करभूः-कारभूः-पुनर्भूः, भावना, बभूषा-बिभावयिषा, बोभूया
भवनम्, 60 भुवनम्, आशितभवनम्, आशितभवनः, 61 आशितम्भवः 62 63, भावनम्, बुभूषणम्, बोभूयनम्
भूत्वा, 64 अग्रे भूत्वा-प्रथमं भूत्वा-पूर्वं भूत्वा, 65 मुखतो भूत्वा-मुखतोभूय वा तिष्ठति।
66 नाना भूत्वा-नानाभूय वा गतः।
विना भूत्वा-विनाभूय वा गतः।
द्विधा भूत्वा-द्वैधंभूय-वा गतः।
67 तूष्णींभूत्वा, तूष्णींभूय 68 वा गतः।
69 70 अन्वग् भूत्वा-अन्वग्भूय वा गतः।
अनुभूय, अनुभाव्य, अनुबुभूष्य, अनुबोभूय्य
अग्रेभावम्-प्रथमंभावम्-पूर्वम्भावम्, मुखतोभावम् वा गतः।
नानाभावं-विना- भावम् वा गतः।
द्वैधंभावं-द्विधाभावं वा गतः।
तूष्णीं भावम् अन्वग्भावं वा गतः।
भावम् भूत्वा भावम् भावयित्वा बुभूषम् बुभूषित्वा बोभूयम्
बोभूयित्वा
71 भूमिः, 72 भूरिः, 73 अद्भुतम्, 74 भावित्रम्।
प्रासङ्गिक्यः
01
=>
(११६५)
02
=>
(१-भ्वादिः-१। अक। सेट्। पर।)
03
=>
(श्लो। ३)
04
=>
[[३। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्निषेधः। अभ्यासे ह्रस्वः। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[४। सुखमनुभवन्, शुश्रूषुर्भवन् इत्यत्र क्रमेण लक्षणार्थे हेत्वर्थे च, ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति शता।]]
06
=>
[पृष्ठम्०९६२+ २८]
07
=>
[[१। ‘माङ्याक्रोशे’ (वा ३-२-१२४) इति शता। यद्यपि लुङोऽपि माङ्येव विधानम्
\n\n तथापि वार्तिककारवचनप्रामाण्यात् लटः शत्राऽत्र लुङः समावेश इति ज्ञेयम्।]]
08
=>
[[२। ‘कर्तरि कर्मव्यतीहारे, (१-३-१४) इति कर्मव्यतिहारे शानच्।]]
09
=>
[[३। ‘पूर्ववत्सनः’ (१-३-६२) इति सन्नन्तात् कर्मव्यतीहारे गम्ये शानच्।]]
10
=>
[[४। गान्दिन्याः भवति = उत्पद्यते इति गान्दिनीभूः। ‘क्विप् च’ (३-२-७६) इति कर्तरि क्विप्।]]
11
=>
[[आ। ‘स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम्।’ धा। का। १-२।]]
12
=>
[[५। ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधोऽत्र। एवमेव क्त्वा-क्तिनोरपि इण्निषेधो ज्ञेयः।]]
13
=>
[[६। ‘अज्विधिः सर्वधातुभ्यः--’ (का। ३-१-१३४) इति वचनादस्माद्धातोः पचाद्यचि, गुणावादेशयो रूपमेवम्। स्त्रियाम् ‘इन्द्रवरुणभव-’ (४-१-४९) इत्यादिना ङीषानुगौ। ‘भवतेश्चेति वक्तव्यम्’ (का। ३-१-१४३) इति वाक्यं काशिकायां कर्तरि विकल्पेन णप्रत्ययविधानप्रकरणे दृश्यते। तेन पक्षे कर्तरि भावः इत्यपि ज्ञेयम्। परं तु वाक्यमिदं भाष्ये दृश्यते।]]
14
=>
[[७। ‘भव्यगेयप्रवचनीय--’ (३-४-६८) इत्यादिना कर्तरि यत्प्रत्ययान्तो निपातितः। भवत्यसौ, भव्यमनेनेति वा भव्यः।]]
15
=>
(देवदत्तः)
16
=>
[[८। ‘अभिभावी भूते’ (ग। सू। ३-१-१३४) इति वचनात् भूतार्थे ग्रह्यादित्वाण्णिनि- प्रत्ययः।]]
17
=>
[[९। ग्रह्यादिष्वेव (३-१-१३४) ‘परिभवी-परिभावी’ इति निपातनात् णिनिप्रत्यये, तस्य पाक्षिके वृद्ध्यभावे रूपे एते सिद्ध्यतः।]]
18
=>
[[B। ‘परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्।’ भ। का। ६-७५। अत्र नपुंसकलिङ्गे नुमि, ‘प्रातिपदिकान्तनुम्--’ (८-४-११) इति णत्वम्।]]
19
=>
[[१०। ‘अचामचित्तकर्तृकाणाम्’ (ग। सू। ३-१-१३४) इत्यत्र पूर्वस्मात् गणसूत्रात् ‘-- प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इत्यनुवर्तते। तेनात्र णिनिप्रत्यये रूपमेवम्। प्रकृतगणसूत्रस्यायमर्थः--अचेतनकर्तृकाणाम् अजन्तानां धातूनां नञ्युक्तानां (नञुपपदकानाम्) णिनिर्भवति--इति। तेनात्र ग्रह्यादित्वात् णिनिः।]]
20
=>
[पृष्ठम्०९६३+ २८]
21
=>
[[१। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र गणे भावी इति पाठात् भविष्यत्यर्थे णिनिप्रत्ययः।]]
22
=>
[[२। वाऽसरूपन्यायेन ‘ण्वुल्तृचौ’ (३-१-१३३) इति यथाक्रमं ण्वुलि, तृचि रूप- मेवमिति ज्ञेयम्।]]
23
=>
[[३। तच्छीलादिषु कर्तृषु ‘तृन्’ (३-२-१३५) इति तृन्प्रत्यये रूपमेवम्।]]
24
=>
[[४। आढ्यसुभगस्थूलपलितनग्नान्धप्रियपदेषूपपदेषु सत्सु च्वर्थेषु गम्येषु अच्व्यन्तेषु ‘कर्तरि भुवः खिष्णुच्खुकञौ’ (३-२-५७) इत्यनेन खिष्णुच् खुकञ् प्रत्ययः क्रमेणात्रेति ज्ञेयम्। प्रत्यययोः खित्त्वात्, ‘अरुर्द्विषदजन्तस्य मुम्’ (६-३-६७) इति मुमागमः।]]
25
=>
[[आ। ‘आढ्यम्भविष्णुर्यशसा कुमारः प्रियम्भविष्णुर्न यस्य नासीत्।।’ भ। का। ३। १।]]
26
=>
[[B। ‘हृदयङ्गममूर्तिस्त्वं सुभगम्भावुकं वनम्।’ भ। का। ५। ६७।]]
27
=>
[[C। ‘दलोदरे काञ्चनकैतकस्य क्षणन्मषीभावुकवर्णरेखम्।’ नैषधे। ६। ६३।]]
28
=>
[[५। ‘भुवश्च’ (३-२-१३८) इतीष्णुच्प्रत्ययस्तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु भवति। अत्र पूर्वंसूत्रात् ‘--छन्दसि’ (३-२-१३७) इत्यनुवृत्तेः छन्दस्येवायं प्रत्यय इति ज्ञेयम्। चान्द्रास्तु भाषायामप्यस्य प्रयोगमिच्छन्ति।]]
29
=>
[[६। ‘ग्लाजिस्थश्च ग्स्नुः’ (३-२-१३९) इति सूत्रे चकारेण तत्पूर्वसूत्रगतभूधातोरप्यनु- षङ्गात् अत्र ग्स्नुप्रत्ययः। प्रत्ययस्य गित्त्वात् ‘क्ङिति च’ (१-१-५) इत्यत्र गकारस्यापि प्रश्लेषात् गुणो नेति ज्ञेयम्। एवं ‘श्र्युकः क्किति’ (७-२-११) इत्यत्रापि गकारप्रश्लेषणात् इण्निषेधोऽत्रेत्यपि ज्ञेयम्।]]
30
=>
[[७। ‘लषपतपदस्थाभू-’ (३-२-१५४) इत्यनेन ताच्छीलिके उकञ्प्रत्यये रूपमेवम्। ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीति भाष्यादिषु स्पष्टम्। तेन उत्सर्गेण समावेश एवेतरेषां प्रत्ययानामिति ज्ञेयम्।]]
31
=>
[[८। ‘जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च’ (३-२-१५७) इत्यनेन ताच्छीलिके इनिप्रत्यये रूपमेवम्। अत्र सूत्रे परिभू इत्युक्तेः अन्योपसर्गे उपपदे प्रत्ययोऽयं भवतीति ज्ञेयम्।]]
32
=>
[पृष्ठम्०९६४+ २८]
33
=>
[[१। ‘भुवः संज्ञाऽन्तरयोः’ (३-२-१७९) इति क्विप्प्रत्ययः। विभूः इति कस्यचित् संज्ञा। अत्र सूत्रे अन्तरशब्देन धनिकाधमर्णयोरन्तरालवर्ती उच्यते। प्रतिभूः = क्रयविक्रयादिषु ऋणादानप्रत्यर्पणादिषु मध्यवर्ती साक्षी।]]
34
=>
[[२। उपसर्गे, पदान्तरे उपपदे धातुसामान्यविहितः क्विप्प्रत्ययोऽत्रेति यथासम्भवमूह्यम्।]]
35
=>
[[३। ‘बिप्रसंभ्यो ड्वसंज्ञायाम्’ (३-२-१८०) इति भूधातोरस्य वि-प्र-सं-पूर्वकस्य डुप्रत्ययः। प्रत्ययस्य डित्त्वात् टेर्लोपः।]]
36
=>
[[४। ‘डुप्रकरणे--मि[त्र]
37
=>
(वा। ३-२-१८०)
38
=>
[[५। भवतात् इति भवकः। आशिषि गम्यमानायाम्, ‘आशिषि च’ (३-१-१५०) इति वुन्।]]
39
=>
[[६। ‘धेनोर्भव्यायां मुम्--’ (वा। ६-३-७०) इति मुमागमः। धेनुर्भविष्यतीत्यर्थः। बाहुलकादत्र भविष्यत्यर्थे भुवो यत्प्रत्ययः इति ज्ञेयम्।]]
40
=>
[[७। लिटः क्वसौ रूपमेवम्। ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इति सूत्रोपात्तनिदानस्यात्र लक्ष्येऽभावादिडागमो न। माधवधातुवृत्तौ तु क्वसोर्भाषायां प्रयोगाभावः साग्रहं साधितः। ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये, ‘पपुष आगतं पपिवद्रूप्यम्--’ इति प्रयुक्तत्वात् भाषायामपि क्वसुप्रयोगो नाप्रामाणिक इति ज्ञेयम्।]]
41
=>
[[८। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। पुंल्लिङ्गोऽयं शब्दः। एवं भूतः इत्यत्रापि संज्ञायां क्तप्रत्ययो ज्ञेयः।]]
42
=>
[[९। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् ण्यन्तात् कर्तरि ल्युप्रत्ययोऽत्रेति ज्ञेयम्।]]
43
=>
[[आ। ‘प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोधिरागाद्दशमं चिकर्तिषुः।’ शि। व। १। ४९।]]
44
=>
[[१०। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासे इकारः।]]
45
=>
[[११। ‘न भाभूपू--’ (८-४-३४) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य कृत्स्थस्य नकारस्य णत्वनिषेधः।]]
46
=>
[[१२। ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति उपसर्गस्थान्निमित्तात् परस्य नकारस्य णत्वनिषेधः।]]
47
=>
[पृष्ठम्०९६५+ ३३]
48
=>
[[१। ‘ओरावश्यके’ (३-१-१२५) इत्यावश्यकार्थे ण्यत्। ‘लुम्पेदवश्यमः कृत्ये…’ (का। ६-१-१४४) इति अवश्यमो मकारस्य लोपः। आवश्यकार्थे ण्यदत्रेति प्रदर्श- नार्थमत्र ‘अवश्यम्’ इति पदमुपात्तम्
\n\n तु उपपदत्वेन
\n\n विनैवावश्यपदमपि प्रयोगः साधुरेव। तथा प्रयुक्तम्-- ‘विप्रेण शुचिना भाव्यम्--’ (प्र। कौमुद्यु- पात्तोऽयं श्लोकः) इति।]]
49
=>
[[२। ‘भुवो भावे’ (३-१-१०७) इति भावार्थे क्यप्। ब्रह्मभूयं गतः = ब्रह्मभावं गत इत्यर्थंः।]]
50
=>
[[आ। ‘मित्रभूयं गतस्तस्य रिपुहत्यां करिष्यसि।।’ भ। का। ६। ५५।]]
51
=>
[[३। ईषदाद्युपपदेषु कर्तंरि कर्मणि चोपपदयोः सत्योः च्व्यर्थे गम्ये ‘कर्तृकर्मणोश्च भूकृञोः’ (३-३-१२७) इति खल्प्रत्ययः। उपपदद्वयविधानात् भाष्यकारप्रयोगाच्च कर्तृवाचकस्य चोपपदस्य धातोरव्यवहितपूर्वप्रयोग इति ज्ञेयम्। ‘अकर्मत्वाद् भुवो भावे कृञः कर्मार्थ एव तत्। च्व्यर्थयोगश्च वाच्योऽत्र भवतेषत्पटुम्भवम्।। अपटोस्ते पटुत्वेन भवनं लध्वितीर्यते। एवं स्वाढ्यम्भवं तेन, तया दुस्सुन्दरिम्भवम्।।’ इति प्र। सर्वस्व- श्लोकोऽत्रानुसन्धेयः।]]
52
=>
[[B। ‘सैन्यान्न यातः समयापि विव्यथे कथं सुराजम्भवमन्यथाऽथवा।।’ शि। व। १२-५२।]]
53
=>
[[४। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः।]]
54
=>
[[५। ‘नपुंसके भावे क्तः’ (३-३-११४), ‘भावे’ (३-३-१८), ‘--भाववचनात्’ (२-३-१५) ‘भाववचनाश्च’ (३-३-११) इत्यादिनिर्देशप्रामाण्यात् उवर्णान्तत्वेन प्राप्तो- ऽप्प्रत्ययः पाक्षिकः
\n\n तेन, ‘अबाधकान्यपि निपातनानि’ (परि। १२१) इति न्यायेन घञ्प्रत्ययोऽपि भवतीति केचित्। भाष्ये ‘बाधकान्येव हि निपातनानि भवन्ति’ (भाष्यम् १-१-२७) इत्युक्तत्वात् घञ्प्रत्यय एव भावार्थे न्याय्यः, तु ओरप्प्रत्यय इति परे वदन्ति। सर्वंथा रूपमेतदपि साध्विति ज्ञेयम्।]]
55
=>
[[६। ‘परौ भुवोऽवज्ञाने’ (३-३-५५) इति विकल्पेन घञ्प्रत्ययोऽत्रावज्ञाने गम्ये। पक्षे औत्सर्गिकोऽप्प्रत्यय इति ज्ञेयम्। परीभावः इत्यत्र ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति दीर्घविकल्पः।]]
56
=>
[[C। ‘परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु।’ भ। का। ७-५४।]]
57
=>
[पृष्ठम्०९६६+ ३२]
58
=>
[[१। ‘स्त्रियां क्तिन्’ (३-३-९४) इति क्तिनि, इण्निषेधे रूपमेवम्। ‘मन्त्रे वृषेष- पचमनविदभूवीरा उदात्तः’ (३-३-९६) इत्यत्र भू इत्युपादानात् मन्त्र एव भूति- शब्दः प्रयोगार्ह इति मन्तव्यम्
\n\n प्रत्ययस्य नित्त्वेनाद्युदात्तत्वे प्राप्ते उदात्तत्वार्थं सूत्रमिति समाधिः। स्पष्टं चैतत् मा। धा। वृत्तौ।]]
59
=>
[[२। भवत्यस्यां सर्वंमिति भूः। बाहुलकेन सम्पदादित्वात् (३-३-९४) अधिकरणे स्त्रियां क्विप्।]]
60
=>
[[३। ल्युटि रूपमेवम्। बाहुलकाद् गुणाभावोऽत्रेति ज्ञेयम्। भट्टिकाव्यव्याख्याने (१-१) प्राचीनैर्व्याख्याकारैरेवमेव समर्थितम्।]]
61
=>
[[४। ‘आशिते भुवः करणभावयोः’ (३-२-४५) इति करणे भावे चार्थे आशित- शब्दे उपपदे खच्प्रत्ययः। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। आशितो भवत्यनेनेति आशितम्भवः = ओदनः। करणेऽत्र प्रत्ययः। आशितस्य भवनम्-आशितम्भवं वर्तते। भावेऽत्र प्रत्ययः।]]
62
=>
[[आ। ‘आशितम्भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्।’ भ। का। ६-१०७।]]
63
=>
[ओदनः]
64
=>
[[५। ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (३-४-२४) इत्यनेन क्त्वाप्रत्ययोऽत्र विकल्पेन भवतीति ज्ञेयम्। एवं णमुलप्युत्तरत्रानेनैव सूत्रेणेति ज्ञेयम्।]]
65
=>
[[६। तस्प्रत्यये स्वाङ्गवाचिन्युपपदे धातोरस्य, ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः’ (३-४-६१) इति क्त्वाप्रत्ययोऽत्रेति ज्ञेयम्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समास- विकल्पः। तेन समासेऽत्र ल्यबपीति ज्ञेयम्। णमुलप्यनेनैव भवतीत्यपि बोध्यम्।]]
66
=>
[[७। ‘नाधार्थप्रत्यये च्व्यर्थे’ (३-४-६२) इति क्त्वाणमुलौ भवतः। च्व्यर्थकत्वात् अनाना नाना भूत्वा = नानाभूत्वा गतः, इति वृत्तिरत्र ज्ञेया। तृतीया- प्रभृतित्वात् (२-२-२१) समासविकल्पः। धार्थप्रत्ययाः ‘संख्यायाः विधार्थे धा’ (५-३-४२), ‘द्विव्योश्च धमुञ्’ (५-३-४५) इति सूत्रविहिताः प्रत्ययाः।]]
67
=>
[[८। ‘तूष्णीमि भुवः’ (३-४-६३) इति क्त्वाणमुलौ भवतः। अत्रापि समास- विकल्पः। तेन ल्यबन्तप्रयोगोऽप्युपपन्नः।]]
68
=>
[[B। ‘तूष्णीम्भूय भयादासाञ्चक्रिरे मृगपक्षिणः।।’ भ। का। ५। ९५।]]
69
=>
[पृष्ठम्०९६७+ २९]
70
=>
[[१। ‘अन्वच्यानुलोम्ये’ (३-४-६४) इत्यनेनान्वक्छब्द उपपदे धातोरस्यानुलोम्ये द्योत्ये क्त्वाणमुलौ भवतः। तृतीयाप्रभृतित्वात् (२-२-२१) समासविकल्पः। आनु- लोम्यम् = अनुकूलता।]]
71
=>
[[२। ‘भुवः कित्’ (द। उ। १-१६) इति मिप्रत्ययः, कित्। तेन गुणो न। भवन्त्यस्यां भावा इति भूमिः।]]
72
=>
[[३। ‘अदिशदिभू--’ (द। उ। १। ३४) इति क्रिन्प्रत्ययः। भवतीति भूरिः = बहुः, सुवर्णं च।]]
73
=>
[[४। ‘अदि भुवो डुतच्’ (द। उ। ६-२२) इति डुतच्प्रत्ययः।]]
74
=>
[[५। ‘भूवादि--’ (द। उ। ८-९१) इत्यादिना णित्रन्प्रत्ययः। भावित्रम् = विधानम्।]]