| YouTube Channel

भूताविष्टः (bhUtAviSTaH)

 
शब्दकल्पद्रुमः
Sanskrit
भूताविष्टः, त्रि, (भूतेन आविष्टः) पिशाचग्रस्तः ।तन्नाशकचक्रम् यथा, --“पञ्चरेखाः समुल्लिख्य तिर्य्यगूर्द्धक्रमेण हि ।पदानि षड्दशापाद्य त्वेकमाद्ये मुनौ त्रयम्
नवमे सप्त दद्यात्तु बाणं पञ्चदशे तथा ।द्वितीयेऽष्टावष्ठमे षट् दिशि द्बौ षौडशे श्रुतिः
एकादिना समं ज्ञेयमिच्छाङ्कार्द्धं त्रिकोणके ।तदा द्वात्रिंशदादिः स्याच्चतुष्कोष्ठेषु सर्व्वतः
दर्शनाद्धारणात्तासां शुभं स्यादेषु कर्म्मसु ।द्वात्रिंशत् प्रसवे नार्य्याश्चतुस्त्रिंशद्गमे नृणाम्
भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् ।द्वासप्ततिस्तु बन्ध्यायां चतुःषष्टी रणाध्वनि
विषे विंशो धान्यकीटेष्वष्टाविंशतिरेव ।चतुरष्टौ बालानां रोदने परिकीर्त्तिताः
”इति ज्योतिस्तत्त्वम्
१८ २३२० २१ ६७ २४ १७२२ १९ ४५० ५० ५० ५०
भूताविष्टः, त्रि, (भूतेन आविष्टः ।) भूतक्रान्तः ।भूतादिना रोगग्रस्तः (यथा, --“भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् ।”इत्यादि ज्योतिस्तत्त्वम्
भूतविशेषाणामावेश-समयाः यथा, --“देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि ।गन्धर्व्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ
कृष्णपक्षे पितरः पञ्चम्यामपि चोरगाः ।रक्षांसि निशि पैशाचाश्चतुर्द्दश्यां विशन्ति
दर्पणादीन् यथाच्छाया शीतोष्णं प्राणिनोयथा ।स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहभृत्
विशन्ति दृश्यन्ते ग्रहस्तद्वच्छरीरिणम् ।”इति सुश्रुते उत्तरतन्त्रे षष्टितमेऽध्याये
)