| YouTube Channel

भूतात्मा (bhUtAtmA)

 
शब्दकल्पद्रुमः
Sanskrit
भूतात्मा, [न्]
पुं,
(भूतानामात्मा ।) देहः ।(यथा, मनुसंहितायाम् १२ १२ ।“यः करोति तु कर्म्माणि भूतात्मोच्यते बुधैः
”“यः पुनरेष व्यापारान् करोति शरीराख्यः सपृथिव्यादिभूतारब्धत्वात् भूतात्मेति पण्डितै-रुच्यते
इति तट्टीकायां कुल्लूकभट्टः
)परमेष्ठी इति मेदिनी ने, २००
शिवः ।युद्धम् इति शब्दरत्नावली
विष्णुः यथा, “भूतकृत् भूतभृत् भावो भूतात्मा भूतभावनः
”इति महाभारते दानधर्म्मः
(जीवात्मा यथा, मनुसंहितायाम् १०९ ।“अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति
”यथा चरके शारीरस्थाने प्रथमेऽध्याये ।तस्मिंश्चरमसंन्यासे समूलाः सर्व्ववेदनाः ।समज्ञा ज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः
अतःपरं ब्रह्मभूतो भूतात्मा नोपलभ्यते ।निःसृतः सर्प्पभावेभ्यश्चिह्नं यस्य विद्यते
गतिब्रह्मविदां ब्रह्म तच्चाक्षरमलक्षणम् ।ज्ञानं ब्रह्मविदाञ्चात्र नाज्ञस्तज्ज्ञातुमर्ह-तीति
”)