भूतशुद्धि (bhUtazuddhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Aufrecht Catalogus Catalogorum
Englishशब्दकल्पद्रुमः
Sanskritभूतशुद्धिः, (भूतानां देहारम्भ कपृथिव्यादिपञ्चभूतानां शुद्धिः शोधनम् ।) पूजादौ बीज-विशेषद्वारावामकुक्षिस्थितपापपुरुषदहनपूर्व्वक-शरीरशोधनम् । तत्प्रयोगो यथा । रमितिजलधारया वह्निप्राकारं विचिन्त्य स्वाङ्के डत्तानौकरौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थंदीपकलिकाकारं मूलाधारस्थकुलकुण्डलिन्यासह सुषुम्नावर्त्मना मूलाधारस्वाधिष्ठानमणिपुर-कानाहतविशुद्धाज्ञाख्यषट्चक्राणि भित्त्वा शिरोऽवस्थिताधोमुखसहस्रदलकमलकर्णिकान्तर्गत-परमात्मनि संयोज्य तत्रैव पृथिव्यप्तेजोवाय्वा-काशगन्धरसरूपस्पर्शशब्दनासिकाजिह्वाचक्षु-स्त्वक्श्रोत्र वाक्पाणिपादपायूपस्थप्रकृतिमनो-बुद्ध्यहङ्काररूपचतुर्व्विंशतितत्त्वानि लीनानिविभाव्य यमिति वायुबीजं धूम्रवर्णं वामनासा-पुटे विचिन्त्य तस्य षोडषवारजपेन वायुनादेहमापूर्य्य नासापुटौ धृत्वा तस्य चतुःषष्टि-वारजपेन कुम्भकं कृत्वा वामकुक्षिस्थकृष्णवर्ण-पापपुरुषेण सह देहं संशोष्य तस्य द्वात्रिंशद्-वारजपेन दक्षिणनासया वायुं रेचयेत् ।दक्षिणनासापुटे रमिति वह्निबीजं रक्तवर्णंध्यात्वा तस्य षोडशवारजपेन वायुना देहमा-पूर्य्य नासापुटौ धृत्वा तस्य चतुःषष्टिवारजपेनकुम्भकं कृत्वा पापपुरुषेण सह देहं मूलाधारो-त्थितवह्निना दग्ध्वा तस्य द्बात्रिंशद्वारजपेनवामनासया भस्मना सहवायुं रेचयेत् । ठमितिचन्द्रबीजं शुक्लवर्णं वामनासायां ध्यात्वा तस्यषोडशवारजपेन ललाटे चन्द्रं नीत्वा नासापुटौधृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेनतस्माल्ललाटस्थचन्द्राद्गलितसुधया मातृका-वर्णात्मिकया समस्तदेहं विरचय्य लमिति पृथ्वी-बीजस्य द्वात्रिंशद्वारजपेन देहं सुदृढं विचिन्त्यदक्षिणेन वायुं रेचयेत् । मात्रासंख्यया वा ॥
* ॥
तदुक्तं गौतमीये ।“सुषुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् ।सहस्रारे शिवस्थाने परमात्मनि देशिकः ॥
धूम्रवर्णं ततो वायुबीजं षड्बिन्दुलाञ्छितम् ।पूरयेदिडया वायुं सुधीः षोडशमात्रया ॥
मात्रया तु चतुःषष्ट्या कुम्भयेच्च सुषुम्नया ।द्वात्रिंशन्मात्रया मन्त्री रेचयेत् पिङ्गलाख्यया ॥
पूरयेदनया चैव सञ्चिन्त्य नीलमारुतम् ।रक्तवर्णं वह्निबीजं त्रिकोणं स्वस्तिकान्वितम् ॥
तेन पूरकयोगेन मात्रया षोडशाख्यया ।चतुःषष्ट्या मात्रया च निर्द्दहेत् कुम्भकेन च ।वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् ।ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ॥
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।तत्संसर्गि पदद्बन्द्बमङ्गप्रत्यङ्गपातकम् ॥
उपपातकरोमाणं रक्तश्मश्रु विलोचनम् ।खड्गचर्म्मधरं क्रुद्धमेवं कुक्षौ विचिन्तयेत् ॥
मूलाधारोत्थितेनैव वह्निना निर्द्दहेच्च तम् ।एवं संदह्य परितो द्वात्त्रिंशन्मात्रया ततः ॥
भस्मना सहितं मन्त्री रेचयेदिडया पुनः ।वामनाड्यां चन्द्रबीजं कुन्देन्दुयुतसप्रभम् ॥
भालेन्दुराजे संयोज्य ततः षोडशमात्रया ।सुषुम्नया चतुःषष्टिमात्रया तोयबीजकम् ॥
ध्यात्वामृतमयीं वृष्टिं पञ्चाशद्वर्गरूपिणीम् ।तया देहं विचिन्त्यैवं मनसा पिङ्गलाध्वना ॥
द्वात्रिंशन्मात्रया मन्त्री लं बीजेन दृढं नयेत् ।स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना ॥
जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः ।इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् ॥
*संक्षेपभूतशुद्धिर्यथा । पुरश्चरणचन्द्रिकायाम् ।“अथवान्यप्रकारेण भूतशुद्धिर्विधीयते ।धर्म्मकन्दसमुद्भूतं ज्ञाननालसुशोभनम् ॥
ऐश्वर्य्याष्टदलोपेतं परं वैराग्यकर्णिकम् ।स्वीयहृत्कमले ध्यायेत् प्रणवेन विकासितम् ॥
कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ।जीवात्मानं हृदि ध्यात्वा मूले सञ्चिन्त्य कुण्डलीम् ।सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ॥
”इति तन्त्रसारः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritभूतशुद्धि स्त्री० भूतानां देहारम्भकपृथिव्यादीनां शुद्धिर्भावनाविशेषात् शोधनम् । तन्त्रादौ प्रसिद्धे देहारम्भकचतु-र्विंशतितत्त्वानां भावनाविशेषेण संस्कारेण देवरूपता-सम्पादने । भूतशुद्धिप्रकारस्तन्त्रसारे उक्तो यथागौतमीये “सुषुम्णावर्त्मना सोऽहमिति मन्त्रेण यो-जयेत् । सहस्रारे शिवे स्थाने परमात्मनि देशिकः ।धूम्रवर्णं ततो वायुवीजं(यं) षड्विन्दुलाञ्छितम् । पूरयेदिडया वायुं सुधीः षोडशमात्रया । मात्रया तु चतुः-षष्ट्या कुम्भयेच्च सुषुम्णया । द्वात्रिंशन्मात्रया मन्त्रीरेचयेत् पिङ्गलाख्यया । पूरयेदनया चैव सञ्चिन्त्य नील-मारुतम् । रक्तवर्णं वह्निवीजं (रं) त्रिकोणं स्वस्तिका-न्वितम् । तेन पूरकयोगेन मात्रया षोडशाख्यया ।चतुःषष्ट्या मात्रया च निर्दहेत् कुम्भकेन च । वाम-पार्श्वस्थितं पापपुरुषं कज्जलप्रभम् । ब्रह्महत्याशिर-स्कञ्च स्वर्णस्तेयभुजद्वयम् । सुरापानहृदायुक्तं गुरु-तल्पकटिद्वयम् । तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ।उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड्गचर्मधर”क्रुद्धमेवं कुक्षौ विचिन्तयेत् । मूलाधारोत्थितेनैववह्निना निर्दहेच्च तम् । एवं सन्दह्य परितो द्वात्रिंश-न्मात्रया ततः । भस्मना सहितं मन्त्री रेचयेदिडयापुनः । वामनाड्यां चन्द्रबीजं (ठं) कुन्देन्वयुतसन्निभम् ।भालेन्दुवीजे संयोज्य ततः षोडशमात्रया । सुषुम्णयाचतुःषष्टिमात्रया तोयवीजकम् (वं) । ध्यात्वाऽमृतमयींवृष्टि पञ्चाशद्वर्णरूपिणीम् । तया देहं विचिन्त्यैवंमनसा पिङ्गकाध्वना । द्वात्रिंशन्मात्रया मन्त्री लं-वीजेन दृढं नयेत् । स्वस्थाने हंसमन्त्रेण पुनस्तेनैववर्त्मना । जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः । इति कृत्वा भूतशुद्धिं मातृकाम्यासमाचरेत्” ।ततो हंस इति वीजं हृदयमानीय कुलकुण्डलिनींपृतिव्यादीनि च यथास्थाने स्थापयेत् । विशेषतस्तुशक्तिविषये । हंस इति जीवादिकं परमशिवे संयोज्यसोऽहमिति मन्त्रेण स्थाने नयेत् । तन्त्रान्तरे “सोऽहमेदंसमाभाष्य जीवं हृदि समानयेत्” । शूद्रे तु विशेषोवाराहीतन्त्रे “हंसाख्यं न स्मरेत् शुद्रा भूतशुद्धौकदाचन । स्वरणान्नरकं याति दीक्षा च विफलाभवेत्” । शारदायाम् “जीवं तेजोमयं ध्यात्वा नमोमन्त्रेण योजयेत्” । भूतशुद्धिपदव्युत्पत्तिमाह विशुद्धे-श्वरे “शरीराकारभूतानां भूतानां यद्विशोधनम् ।अव्ययब्रह्मसंयोगात् भूतशुद्धिरियं मता” वराहीये“मूलाधारात्ततो वीजं ब्रह्ममार्गेण देशिकः । हंसेनपुष्करस्थाने परमात्मनि योजयेत्” । ब्रह्ममार्गः सुषुम्णा ।त्रिपुरासारसमुच्चये “संयोज्य वीजमथ दुर्गममध्यनाडी-मार्गेण पुष्करनिविष्टशिवे सुसूक्ष्मे” । ज्ञानार्णवे“प्राणप्रतिष्ठया पश्चात् जीवं देहे निधापयेत् । मुखवृत्तंसमुच्चार्य्य हंसस्तु विपरीतकः । उद्धरेत् परमेशानि!विद्येयं त्र्यक्षरी मता । प्राणप्रतिष्ठामन्त्रोऽयं सर्व-कर्माणि साधयेत् । तेनैव विधिना देवि! स्थिरीकुर्य्या-न्निजां तनुम्” । तारादौ विशेषस्तत्रैव दृश्यः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
