| YouTube Channel

भूतवर्ण (bhUtavarNa)

 
वाचस्पत्यम्
Sanskrit
भूतवर्ण
पु०
त० ध्येये भूतानां श्वेतादिवर्णे यथोक्तंशा० ति० “स्वच्छं वियन्मरुत् कृष्णो रक्तोऽग्निर्विशदंप्रयः पीता भूसिः पञ्चभूतान्येकैकाधारतो विदुः” ।“स्वच्छं श्वेतं तत्र केषाञ्चिदरूपिद्रव्याणां वर्णकथनमुपा-दानार्थं स्वशास्त्रानुरोधेन” राघवः भूतदैवते ह्रस्वदीर्घ-सहिते वर्गादिवर्णे भूतलिपिशब्दे कुलाकुलचक्र-शब्दे दृश्यम्