| YouTube Channel

भूतचतुर्दशी (bhUtacaturdazI)

 
शब्दसागरः
English
भूतचतुर्दशी
f.
(-शी) The fourteenth day of the second half of Kārtic.
Spoken Sanskrit
English
भूतचतुर्दशी bhUtacaturdazI
f.
14th day in the dark half of the month kArttika
Monier Williams Cologne
English
भूत—चतुर्दशी
f.
the 14th day in the dark half of the month Kārttika (consecrated to Yama),
L.
Apte Hindi
Hindi
भूतचतुर्दशी
स्त्री*
भूत+चतुर्दशी -
कार्तिक मास के कृष्णपक्ष की चतुर्दशी
L R Vaidya
English
BUta-caturdaSI {% f. %} the fourteenth day of the second half of Kārtīka.
शब्दकल्पद्रुमः
Sanskrit
भूतचतुर्द्दशी,
स्त्री,
(भूतप्रिया भूतोद्देशे क्रियांकर्त्तव्या वा चतुर्द्दशी मध्यपदलोपी समासः ।)गौणकार्त्तिककृष्णचतुर्द्दशी सा एव यमचतु-र्द्दशी तत्कृत्यं यथा, पाद्मे ।“चतुर्द्दश्यां धर्म्मराजपूजा कार्य्या प्रयत्नतः ।स्नानमावश्यकं कार्य्यं नरैर्नरकभीरुभिः
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ।तस्याब्दिकभवो धर्म्मो नश्यत्येव संशयः
”स्कान्दे तत्रैव ।“कार्त्तिके कृष्णपक्षे तु चतुर्द्दश्यां विधूदये ।अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः
किञ्च पाद्मे तत्रैव ।“ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः ।जीवत्पिता कुर्वीत तर्पणं यमभीष्मयोः
यज्ञोपवीतिना कार्य्यं प्राचीनावीतिना तथा
देवत्वञ्च पितृत्वञ्च यमस्यास्ते द्बिरूपता
नक्तं यमचतुर्द्दश्यां यः कुर्य्याच्छिवसन्निधौ ।न तत् क्रतुशतेनापि प्राप्यते पुण्यमीदृशम्
कुमारीवटुकान् पूज्य तथा शैवतपोधनान् ।राजसूयफलं तेन प्राप्यते नात्र संशयः
कार्त्तिके भौमवारेण चित्रा कृष्णा चतुर्द्दशी ।तस्यां भूतेशमभ्यर्च्य गच्छेच्छिवपुरं नरः
किञ्च ।अमावास्याश्चतुद्दश्याः प्रदोषे दीपदानतः ।वममार्गान्धकारेभ्यो मुच्यते कार्त्तिके नरः
”इति श्रीहरिभक्तिविलासः
अपि लैङ्गे ।“कार्त्तिके कृष्णपक्षे चतुर्द्दश्यां दिनोदये ।अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः
अपामार्गपल्लवञ्च भ्रामयेच्छिरसोपरि ।ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः
नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।नरकाय नरकनिवृत्तये ।अर्थोऽभिधेयो वै वस्तु प्रयोजननिवृत्तिषु
इति निवृत्तावपि तादर्थ्य इत्यनेन चतुर्थीविधा-नात् अपामार्गभ्रामणमन्त्रः ।शीतलोष्णसमायुक्तसकण्टकदलान्वित ।हर पापमपामार्ग ! भ्राम्यमाणः पुनः पुनः
ततः प्रदोषसमये दीपान् दद्यात् प्रयत्नतः ।ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु
भविष्ये ।कार्त्तिके भौमवारे चित्रा कृष्णचतुर्द्दशी ।तस्यामाराधितः स्थाणुर्नयेच्छिवपुरं ध्रुवम्
यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् ।यमुनायां विशेषेण नियतस्तर्पयेद्यमान्
यमाय धर्म्मराजाय मृत्यवे चान्तकाय ।वैवस्वताय कालाय सर्व्वभूतक्षयाय
ओडुम्बराय दध्नाय नीलाय परमेष्ठिने ।वृकोदराय चित्राय चित्रगुप्ताय वै नमः
एकैकस्य तिलैर्मिश्रांस्त्रीस्तु दद्याज्जलाञ्ज-लीन् ।सम्बत्सरकृतं पापं तत्क्षणादेव नश्यति
”आचारादत्रचतुर्द्दशशाकभक्षणं कर्त्तव्यम् तत्रनिर्णयामृतम् ।“ओलं केमुकवास्तुकं सरषपं कालञ्च निम्बं जयांशालिञ्चीं हिलमोचिकाञ्च पटुकं शौल्फंगुडूचीन्तथा ।भण्टाकीं शुनिषण्णकं शिवदिने खादन्ति येमानवाःप्रेतत्वं यान्ति कार्त्तिकदिने कृष्णे भूतेतिथौ
”जयां जयन्तीं पटुकं पटोलं शौल्फं शुल्फाइति ख्यातम् शुनिषण्णकं शुषणिया इतिख्यातम् इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
भूतचतुर्दशी स्त्री० भूतप्रिया चतुर्दशी तदुद्देशेन तस्यांदीपदानात् आश्विनकृष्णपक्षचतुर्दश्यां दीपान्विता-मावास्यापूर्वतिथौ यमचतुर्दश्याम्