| YouTube Channel

भूतः (bhUtaH)

 
Apte Hindi
Hindi
भूतः
पुं*
- भू+क्त
"पुत्र, बच्चा"
भूतः
पुं*
- भू+क्त
शिव का विशेषण
भूतः
पुं*
- भू+क्त
चन्द्रमास के कृष्णपक्ष की चतुर्दशी का दिन
Wordnet
Sanskrit
Synonyms:
प्रेतः, प्रेतनरः, प्रेतिकः, परेतः, नारकः, नरकवासी, नरकामयः, परेतः, निशाटः, ब्रह्मराक्षसः, भूतः, मलिनमुखः, रहाटः, श्मशाननिवासी, श्मशानवेश्मा, सत्त्व
noun
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।
"आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं स्वीकुर्वन्ति।"
Synonyms:
असुरः, दैत्यः, दैतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्रशिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट्, देवरिपुः, देवारिः, कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः, रात्रिचरः, कव्वूरः, निकषात्मजः, यातुधानः, पुण्यजनः, नैर्ऋतः, यातुः, रक्षः, सन्ध्याबलः, क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, नक्तञ्चरः, पलाशी, पलाशः, भूतः, नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीलालपः, नरधिष्मणः, खचरः
noun
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा देवानां ऋषीणां शत्रवः आसन्।
"पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।"
Synonyms:
भूतः
noun
पौरवीवसुदेवयोः पुत्रः
"भूतस्य उल्लेखः भागवतपुराणे वर्तते"
Synonyms:
भूतः
noun
दक्षस्य जामाता
"भूतः नैकेषां रुद्राणां पिता अस्ति"
वैजयन्तीकोषः
Sanskrit
Word: भूतः
Root: भूत
Gender: पुं
Number: all
अर्थः अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः
Meaning(s):
Name of a lower deity
Shloka(s):
1|3|2|2 भूतापुत्रास्तु भूतानि भूताश्च शिवपार्श्वगाः॥ (स्वर्गकाण्डः/यक्षाद्यध्यायः)
Synonym(s):
1|3|2|2 भूतापुत्रः (भूतापुत्र) (पुं) Epithet of a Bhūta अधोमुखोर्ध्वमुखादिः पिशाचभेदः- रुद्रानुचरः
1|3|2|2 भूतः (भूत) (पुं) Name of a lower deity अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः
1|3|2|2 भूतम् (भूत) (नपुं) Name of a lower deity अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः
1|3|2|2 शिवपार्श्वगः (शिवपार्श्वग) (पुं) Epithet of a Bhūta अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः
Related word(s):
परा_अपरासंबन्धः देवयोनिः
जातिः देवयोनिः
शब्दकल्पद्रुमः
Sanskrit
भूतः,
पुं,
(भू + कर्त्तरि क्तः ।) देवयोनिविशेषः ।स अधोमुस्वोर्द्ध्वमुखादिः पिशाचभेदो रुद्रा-नुचरो बालग्रहः इत्यमरभरतौ
(यथा, मार्कण्डेयपुराणे ५१ ५३ ।“विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्त्तयेत् ।भूतानां मातृभिः सार्द्धं बालकानान्तु शान्तये
”)कुमारः इति मेदिनी ते, ४१
योगीन्द्रः ।इति शब्दरत्नावली
कृष्णचतुर्द्दशी इतित्रिकाण्डशेषः
*
भूतनाशकौषधम् यथा, “श्वेतापराजितामूलं पिष्टं तण्डलवारिणा ।तेन नस्यप्रदानं स्याद्भूतबृन्दस्य विद्रवम्
अगस्त्यपुष्पनस्यो वै समरीचश्च भूतहृत् ।भुजङ्गवर्म्म वै हिङ्गु निम्बपत्राणि वै यवाः ।गौरसर्षप एभिः स्याल्लेपो भूतहरः कृतः
गोरोचना मरीचानि पिप्पली सैन्धवं मधु ।अञ्जनं कृतमेभिः स्याद् ग्रहभूतहरं शिव !
अपि ।“वचा त्रिकटुकञ्चैव करञ्जं देवदारु ।मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम्
प्रियङ्गुनिम्बत्रिकटुगोमूत्रेणावघर्षितम्
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।भूतेभ्यश्च भयं हन्ति राजद्बारे शासनम्
”इति गारुडे १९२ १९९ अध्यायः
शम्भुगणभूता यथा, --“हते वराहस्य गणे भर्गमासाद्य ते गणाः ।चतुर्भागाः स्वयं भूत्वा भूतं कर्म्मेति वै जगुः
भूतत्वमभवत्तेषां चतुर्भागवतां तदा ।वचनात् पद्मजातस्य भूतग्रामास्ततो मताः
यो लोकविदितः पूर्व्वं भूतग्रामश्चतुर्विधः ।यतस्तेभ्योऽधिका यत्नैस्तद्भूतग्राम उच्यते
इति वः सर्व्वमाख्यातं भूताः शम्भुगणा यथा ।”इति कालिकापुराणे २९ अध्यायः
(वसुदेवस्य पौरवीगर्भजातद्बादशपुत्त्राणां ज्येष्ठ-तमः यथा, भागवते २४ ४७ ।“पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन्
”)