| YouTube Channel

भूतं (bhUtaM)

 
Hindi
Hindi
बनाया जा रहा है
Wordnet
Sanskrit
Synonyms:
भूतकालः, भूतं, कृतम्
noun
व्याकरणे प्रयुक्तः कालः यः पूर्वक्रियाणां परावस्थानां प्रतिपादनं करोति।
"भूतकालस्य कानिचन उदाहरणानि दीयताम्।"
शब्दकल्पद्रुमः
Sanskrit
भूतं,
क्ली,
(भू + क्तः ।) युक्तम् न्यायः क्ष्मादिः ।पृथिव्यप्तेजोवाय्वाकाशपञ्चकम् (यथा, मनुः ।१२ १४ ।“तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः
”“स त्रिविधो वैकारिकस्तैजसो भूतादिरिति ।भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चत-न्मात्राण्युत्पद्यन्ते तद्यथा शब्दतन्मात्रं स्पर्श-तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्र-मिति तेषां विशेषाः शब्दस्पर्शरूपरसगन्धा-स्तेभ्यो भूतानि व्योमानिलानलजलोर्व्व्यः ।” इतिसुश्रुते शारीरस्थाने प्रथमेऽध्याये ।)ऋतम् सत्यम् इत्यमरभरतौ
पिशाचादि ।(यथा, श्रीभागवते १४ २१ ।“एषा घोरतमा वेला घोराणां घोरदर्शना ।चरन्ति यस्यां भूतानि भूतेशानुचराणि
”)जन्तुः इति मेदिनीशब्दरत्नावल्यौ
(यथा, मनुः ।“स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समा-हितः ।दाता नित्यमनादाता सर्व्वभूतानुकम्पकः
”स्थावरजङ्गमात्मकं द्रव्यम् यथा, मनुः ३०६ ।“रक्षन् धर्म्मेण भूतानि राजा वध्यांश्च घात-यन् !यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः
”)वस्तुतत्त्वम् यथा, --“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।भूतमप्यनुपन्यस्तं हीयते व्यवहारतः
छलं प्रमादाभिहितम् निरस्य परित्यज्य ।भूतेन वस्तुतत्त्वानुसरणेन व्यवहारान्नयेदन्तंनृपः यस्माद्भूतमपि वस्तुतत्त्वमपि अनुपन्यस्त-मनभिहितं हीयते हानिमुपगच्छति व्यवहारतोव्यवहारेण साक्ष्यादिभिः तस्माद्भूतानुसरणंकर्त्तव्यम् यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथाससभ्येन सभापतिना यतितव्यं सामादिभिरुपायै-स्तथा सति साक्ष्यादिनैरपेक्षेणैव निर्णयो भव-तीति
अथ सर्व्वथापि भूतानुसरणं शक्यतेकर्त्तुं तथा सति साक्ष्यादिभिर्निर्णयः कार्य्य-इत्यनुकल्पः यथोक्तम् भूतच्छलानुसारि-त्वाद्विगतिः समुदाहृता भूतन्तत्त्वार्थयुक्तं यत्प्रमादाभिहितं छलमिति
तत्र भूतानुसारीव्यवहारो मुख्यः छलानुसारी त्वनुकल्पः ।इति मिताक्षरायां व्यवहाराध्यायः
भूतं, त्रि, (भाव्यते स्मेति “आधृषाद्बेति णिज-भावः भू + क्तः भूतिरस्त्यस्येति वा अर्श-आदित्वात् अच् अभवदिति वा भुवो गत्यर्थेइति भूतार्थे कर्त्तरि क्तः ।) प्राणी जन्तुः ।(यथा, ऋग्वेदे २७ ।“धिया चक्रे वरेण्यो भूतानां गर्भमादधे
”यथा चरके शारीरस्थाने तृतीयेऽध्याये
“भूतानाञ्चतुर्व्विधा योनिर्जराय्वण्डस्वेदोद्भिदः ।”)अतीतम् (यथा, कथासरित्सागरे २४ ।“भूतं भवद् भविष्यद् वा किं तत् स्यात् जगतिप्रिये ।भवती यन्न जानीयादिति शर्व्वोऽप्युवाच ताम्
”)वृत्तम् (यथा, सुश्रुते चिकित्सितस्थाने १०अध्याये ।“गोशकृद्भूतानां वा यवानां शक्तून् कार-यित्वा
”)समम् सदृशम् इत्यमरभरतौ
प्राप्तम् ।(यथा, महाभारते १३ ३४ १५ ।“यद् ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वैवचः ।भूतात्मानो महात्मानस्ते यान्ति परा-भवम्
”“भूतः प्राप्तो वशीकृत आत्मा चित्तं यैस्ते
”इति तट्टीकायां नीलकण्ठः ।) सत्यम् ।इति मेदिनीशब्दरत्नावल्यौ
(यथा शाकु-न्तले प्रथमाङ्के “सूत्रधारः सस्मितम् ।आर्य्ये ! कथयामि ते भूतार्थम् ।”) भूतकालस्यपर्य्यायो यथा वृत्तम् अतीतम् ह्यस्तनम् ४निभृतम् गतम् इति राजनिर्घण्टः
उत्तरपदस्थ एव भूतशब्दः समार्थ इतिशाब्दिकाः यथा देवभूतोऽयम् इति भरतः
(उत्तरपदस्थ भूतशब्दः स्वरूपार्थोऽपि यथा, मनुः ।“आसीदिदं तमोभूतमप्रज्ञातमलज्ञणम् ।अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्व्वतः
”)