| YouTube Channel

भूगोल (bhUgola)

 
शब्दसागरः
English
भूगोल
m.
(-लः) The terrestrial globe, the earth.
E.
भू the earth, गोल
a ball or globe.
Capeller Eng
English
भूगोल
m.
the terrestrial globe.
Yates
English
भू-गोल (लः) 1.
m.
A terrestrial globe.
Spoken Sanskrit
English
भूगोल bhUgola
m.
earth
भूगोल bhUgola
m.
earth-ball
भूगोल bhUgola
m.
terrestrial globe
भूगोल bhUgola
m.
planet earth [ Geography ]
Wilson
English
भूगोल
m.
(-लः) The terrestrial globe, the earth.
E.
भू the earth, and गोल a ball or globe.
Monier Williams Cologne
English
भू—गोल
m.
‘earth-ball’, the terrestrial globe, earth,
Kāv.
Pañcar.
BhP.
N.
of wk.
Apte Hindi
Hindi
भूगोलः
पुं*
भू+गोलः -
"भूमिगोल, भूमंडल"
L R Vaidya
English
BU-gola {% m. %} terrestrial globe, वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते Git.G.i.
Aufrecht Catalogus Catalogorum
English
भूगोल geogr. by Basava Rājendra. Rice 326.
--by Vādirājasvāmin. Rice 326.
शब्दकल्पद्रुमः
Sanskrit
भूगोलः,
पुं,
(भूर्गोलो मण्डलमिव ।) भुवनकोषः ।(यदुक्तं सूर्य्यसिद्धान्ते ।“मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।बिभ्राणः परमां शक्तिं ब्रह्मणो धारणा-त्मिकाम्
”)तस्य विवरणम् यथा, --“प्रकृतेस्तु महान् जातोऽहङ्कारो महतः पुनः ।तन्मात्राणि ह्यहङ्कारात् शब्दः स्पर्शोऽथरूपकम्
रसो गन्धश्च पञ्चैव गुणा नाम प्रकीर्त्तिताः ।पञ्चेमानि महाभाग ! महाभूतानि संग्रहात् ।तेभ्य एव प्रजातानि सर्व्वाणि गुणवन्ति
भूमिरापस्तथा वायुरग्निराकाशमेव ।गुणोत्तराणि सर्व्वाणि तेषां भूमिः प्रधानतः
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः ।भूमावेते गुणाः प्रोक्ता ह्रसन्ति परतः क्रमात्
चत्वारोऽप्सु गुणा बह्मन् ! गन्धस्तत्र वर्त्तते ।शब्दः स्पर्शश्च रूपञ्च त्रय एव हि तेजसि
शब्दः स्पर्शोऽथ वायोस्तु आकाशे शब्दएव हि ।एते पञ्च गुणाः प्रोक्ता महाभूतेषु पञ्चमु
वर्त्तन्ते सर्व्वभूतेषु येषु लोकाः प्रतिष्ठिताः ।अन्योन्यं नातिवर्त्तन्ते सम्यग्भवति वै तदा
यदा तु विषमं भावमाविशन्ति परस्परम् ।तदा देहवियोगः स्याद्देहिनां नान्यथा द्बिज !
अनुपूर्व्वा विनश्यन्ति जायन्ते चापि सर्व्वशः ।सर्व्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम्
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते
अचिन्त्याः स्वलु ये भावा तांस्तर्केण योजयेत् ।प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्
*
जम्बुद्वीपं प्रवक्ष्यामि वात्स्यायन महामुने !
परिमण्डलो महाभाग ! द्बीपोऽसौ चक्रवत्स्थितः ।नदीगिरिप्रतिच्छन्नो विविधैः पत्तनैरपि
षनैर्जनपदैर्वृक्षैस्तथा पुष्पफलोपगैः ।लवणेन समुद्रेण समन्तात् परिवारितः
प्रागायता महाभाग ! षडेते रत्नपर्व्वताः ।अवगाढा ह्युभयतः सागरौ पूर्व्वपश्चिमौ
हिमवान् हेमकूटश्च निषधश्च नगोत्तमः ।नीलः श्वेतः शृङ्गवांश्च रत्नधातुविचित्रिताः
अयुतानि योजनानि उच्छ्रायास्तेषु कीर्त्तिताः ।पृथुत्वे द्विसाहस्रयोजनास्ते पर्व्वताः
तेषामन्तरविष्कम्भे नवसाहस्रयोजनः ।वर्षे वर्षे प्रमाणन्तु वर्षाणि त्रीणि दक्षिणे
तत्र पुण्या जनपदास्तेषु वर्षेषु तापस ! ।वसन्ति तेषु सर्व्वाणि सत्त्वानि विविधानि
दक्षिणे भारतं वर्षमुत्तरे लवणोदधेः ।कूलादेव महाभाग ! तस्य सीमा हिमालयः
ततः किंपुरुषं वर्षं हेमकूटादधस्ततः ।हरिवर्षं ततो ज्ञेयं निषधोऽवधिरुच्यते
एवमेवोत्तरे त्रीणि वर्षाणि तपोधन ! ।कुरुवर्षं सिन्धुकूलात् शृङ्गवानवधिः स्मृतः
हिरण्मयं ततो वर्षं श्वेतावधि निगद्यते ।रम्यकञ्च ततो वर्षं नीलस्तस्यावधिः स्मृतः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।प्रागायतो महाभाग ! माल्यवान्नाम पर्व्वतः
पश्चिमे तु तथैवास्ते पर्व्वतो गन्धमादनः
पूर्व्वे समुद्रकूलात्तु भद्राश्वं नाम वर्षकम्
माल्यवानवधिस्तस्य केतुमालञ्च पश्चिमे ।गन्धमादनसीमान्तं नवसाहस्रयोजनम्
*
परिमण्डलस्तयोर्म्मध्ये मेरुः कनकपर्व्वतः ।आदित्यतरुणाभासो विधूम इव पावकः
लक्षयोजन उच्छ्रायो मूर्द्ध्नि द्वाविंश एव ।योजनानां सहस्राणि मूले चापि तु षोडश
विस्तृतः महाभाग ! भूमिष्ठं मूलमस्य तु ।प्रविष्टमन्तर्भूम्यां वै षोडशैव सहस्रकम्
ऊर्द्ध्वमन्तश्च तिर्य्यक् लोकानावृत्य तिष्ठति ।तस्य चेलावृतं वर्षं सर्व्वतः परिकीर्त्तितम्
विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल ।स वै विचिन्तया मास सौवर्णान् प्रेक्ष्य वायसान्
मेरुरुत्तममध्यानामवराणाञ्च पक्षिणाम् ।अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम्
तमादित्योऽनुपर्य्येति सततं ज्योतिषां वरः ।चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम्
पर्व्वतो महाभाग ! दिव्यपुष्पसमन्वितः ।भवनैरावृतः सर्व्वैर्जाम्बूनदमयैः शुभैः
तत्र देवगणा ब्रह्मन् ! गन्धर्व्वासुरराक्षसाः ।अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्व्वदा
अवष्टम्भकरास्तस्य मन्दरो मेरुमन्दरः ।मुपार्श्वः कुमुदश्चेति चतुर्दिक्षु स्थिता द्बिज !
अयुतयोजनोन्नाहास्तावद्विस्तारसंयुताः ।चतुर्ष्वेतेषु धर्म्मज्ञ ! चूतजम्बूकदम्बकाः
न्यग्रोधश्चापि चत्वारः पादपा व्राह्मणर्षभ ! ।सहस्रयोजनोन्नाहास्तावद्बिटपविस्तृताः
केतुभूताः पर्व्वतानां विशालाः शतयोजनम् ।हदाश्च तत्र चत्वारः पयोमध्विक्षुवारिदाः
देवोद्यानानि चत्वारि द्वे चैत्ररथनन्दने ।सर्व्वतोभद्रमित्येवं तथा वैभ्राजकं वनम्
तेषु देवस्त्रियो नित्यं विहरन्ति सुरैः सह ।गन्धर्व्वाः किन्नराश्चेव तथान्ये सिद्धचारणाः
गायन्तो मधुरं दिव्यं स्त्रीभिः क्रीडन्ति तापस ! ।चूतो यो मन्दरोत्सङ्गेऽयुतयोजनमुच्छ्रितः
फलान्यमृतकल्पानि पतन्त्यस्य सुदूरतः ।तेषां विशीर्य्यमाणानां रसेनाजनि या नदी
अरुणोदा नाम सैव वहते मन्दराचलात् ।यज्जलस्पर्शमात्रेण भवानीशिवयोर्गणाः
स्वदेहसौरभेणापि समन्ताद्दशयोजनम् ।सुगन्धयन्ति वातेन वात्स्यायन ! तदद्भुतम्
एवं जम्बूफलानाञ्च पततां मेरुमन्दरे ।हस्तिकायप्रमाणानां रसैर्जाता महानदी
सैव जम्बूनदी नाम दक्षिणेन इलावृतम् ।तीरयोरुभयोरेव जम्बूरसपरिप्लुता
मृत्तिकैव सुवर्णं स्यात् वार्य्यर्ककिरणान्वयात् ।तत्र जाम्बूनदं हेम नानाभरणसंज्ञितम्
देवोपदेवगन्धर्व्वा धारयन्ति सह स्त्रिया ।यो वै महाकदम्बश्च सुपार्श्वोपरि तापस !
तत्कोटरेभ्यः पञ्चैव मधुधाराः सवन्ति वै ।पञ्चायामपरीणाहाः पश्चिमेन इलावृतम्
यासां रसांश्च भुञ्जानाः सुमुखोद्गारवायुना ।सुगन्धयन्ति धर्म्मज्ञ ! समन्तात् शतयोजनम्
कुमुदाग्रनिरूढो यः शतवल्यो वटो महान् ।स्कन्धेभ्यस्तस्य नद्यस्तु उत्तरेण इलावृतम्
पयस्विनीदधिह्रदाघृतकुल्यामधुस्रवाः ।गुडस्रवेति पञ्चैव यासां रसनिषेवणात्
बलीपलितदौर्गन्ध्यजरादोषो विद्यते ।कुरङ्गकुरवः शङ्खः कुसुम्भः शिखरस्तथा
वैकङ्कश्च त्रिकूटश्च पर्व्वतौ रुचकर्षभौ
पतङ्गनिषधौ नागसितिवासत्रिकूटकाः ।हंसवैदूर्य्यकपिला द्बौ कालञ्जरजारुधी
गिरयो मूलदेशे तु सुमेरोः परिकल्पिताः
जठरो देवकूटश्च द्बौ नगौ मेरुपूर्व्वतः ।अष्टादशसहस्राणि योजनान्युदगायतौ
पृथुतुङ्गौ द्बिसाहस्रयोजनं तापसर्षभ ! ।पवनः पारिपात्रश्च मेरोः पश्चिमतः स्थितौ
तथा प्रमाणौ कैलासकरवीरौ तु दक्षिणे ।प्रागायतावुत्तरेण त्रिशृङ्गमकरौ तथा
अष्टाभिरेतैर्गिरिभिर्भाति काञ्चनपर्व्वतः ।मेरोर्मूर्द्धनि विप्राग्र्य ! मध्ये विश्वसृजः पुरी ।चतुरस्रा शातकौम्भी योजनायतविस्तृता
दिक्पालानां तथा पूर्य्यः पूर्व्वादिषु यथाक्रमम् ।ब्रह्मपुर्य्याश्चतुर्थेन भागेन परिकल्पिता
तत्र ब्रह्मा रुद्रश्च शक्रश्चापि मुरेश्वरः ।समेत्य विविधैर्यज्ञैर्यजन्ते भूरिदक्षिणैः
तुम्बुरुर्नारदश्चैव विश्वावसुर्हाहाहूहूः ।अभिगम्यामरश्रेष्ठं स्तुवन्ति विविधैः स्तवैः
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।तत्र गच्छन्ति भद्रं ते सदा पर्व्वणि पर्व्वणि
तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते ।तस्य हैमानि रत्नानि तस्येमे रत्नपर्व्वताः
तस्मात् कुवेरो भगवांश्चतुर्थं भागमश्नुते ।ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति
पार्श्वे तस्योत्तरे दिव्यं सर्व्वर्त्तुकुसुमान्वितम् ।कर्णिकारवनं रम्यं शिलाजालसमुद्गतम्
तत्र साक्षान्महादेवो भीमैर्भूतैः समावृतः ।पार्व्वत्या सह देवेशो रमते भूतभावनः
कर्णिकारमयीं मालां दधदापादलम्बिनीम्
तस्य शैलस्य शिखरात् क्षीरधारा महामते ! ।विश्वरूपा परिमिता भीमनिर्घातनिस्वना
पुण्या पुण्यतमैर्ज्जुष्टा गङ्गा भागीरथी शुभा ।तां धारयामास तदा दुर्द्धरां पर्व्वतैरपि
शतं वर्षसहस्राणां शिरसैव पिनाकधृक् ।मेरोस्तु शिखराद्देवी भिद्यमाना चतुर्विधा
सीता चालकनन्देति वङ्क्षुर्भद्रेति कीर्त्तिता ।सीता तु ब्रह्मसदनात् केशरादिमहाचलान्
अतिक्रम्य प्रस्रवन्ती गन्धमादनमूर्द्धसु ।पतित्वा द्विज ! वर्षञ्च भद्राश्वं पुनती क्रमात् ।प्राच्यां दिशि महाभाग ! प्रविष्टा लवणोदधिम्
माल्यवच्छिखराद्वङ्क्षुः पतित्वा केतुमालके ।प्रतीच्यां दिशि विप्रेन्द्र ! प्रविवेश सरित्पतिम्
भद्रा चोत्तरतो मेरुशिखरात् पतिता गिरीन् ।अतिक्रम्य शृङ्गवतः शृङ्गाद्बेगेन पातुका ।उत्तरांश्च कुरून् प्राप्य प्रविष्टा लवणार्णवम्
तथैवालकनन्दा पतन्ती गिरिमूर्द्धसु ।हिमालयं विनिर्भिद्य भारतं वर्षमेत्य ।लवणाम्बुधिमभ्येति दक्षिणस्यां दिशिद्बिज !
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महामते ! ।आयुर्दशसहस्राणि वर्षाणां तत्र मानवे
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।वीतरोगशोकभया नित्यमानन्दवर्त्तिनः ।जायन्ते मानवास्तत्र प्रतप्तकनकप्रभाः
*
गन्धमादनशृङ्गेषु कुवेरः सह राक्षसैः ।अप्सरोगणगन्धर्व्वैर्मोदते गुह्यकाधिपः
गन्धमादनपार्श्वे तु गण्डशैलाः सहस्रशः ।एकादशसहस्राणि वर्षाणां परमायुषः
तत्र हृष्टा नराः सर्व्वे बलवीर्य्यपराक्रमाः ।स्त्रियश्चोत्पलपत्राभाः सर्व्वाः सुप्रियदर्शनाः
उत्तराः कुरवश्चैव भारतञ्च महामते ! ।धनुसंस्थे महाभाग ! द्विवर्षे दक्षिणोत्तरे
इलावृतं मध्यमन्तु पञ्चवर्षाणि चैव हि ।उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः
अपरेषु वर्षेषु सर्व्वेषु भारतं विना ।आयुःप्रमाणं लोकानां दशवर्षसहस्रकम्
एवमेषा महाभाग ! पृथिवी पर्व्वतैश्चिता
”इति पद्मपुराणे भूमिखण्डे भूगोलवर्णने १२८अध्यायः
शेष उवाच ।“नवस्वतेषु वर्षेषु भगवान् भूतभावनः ।अनुग्रहाय लोकानामास्ते मायावपुर्द्धरः
इलावृते तु भगवान् भव एकः सहोमया ।आस्ते विहारनिरतो नान्यस्तत्र पुमान् द्बिज !
भवानीशापतो ब्रह्मन् ! प्रविशेन्न कदाचन ।यत्र प्रविष्टो मोहेन सुतो वैवस्वतस्य वै
इलः स्त्रीभावमापन्नो यस्यां जातः पुरूरवाः ।तत्र सङ्कषणं देवं कलां विष्णोर्महात्मनः ।भवो भवान्या सहितः स्तौति भक्तिसमन्वितः
भद्राश्वे द्बिज ! वर्षे तु हयशीर्षाकृतिर्हरिः ।वसते वर्षपुरुषास्तं स्तुवन्ति जगद्गुरुम्
*
हरिवर्षे तु भगवान्नरसिंहवपुर्धरः ।स्तूयते दैत्यपतिना प्रह्लादेन महात्मना
केतुसाले भगवान् कामदेवस्वरूपवान् ।प्रजापतेदुहितृभिः सहैव रमया मुदा
स्तूयते परया भक्त्या जगन्मोहनरूपधृक्
*
रम्यके भगवानास्ते मत्स्यरूपी दयापरः ।मनुर्वैवस्वतस्तञ्च स्तौति भक्त्या कृतैः स्तवैः
*
हिरण्मये तु भगवानास्ते कूर्म्मतनुं दधत् ।प्रेताधिराजस्तं स्तौति भक्त्या परमया युतः
कुरुवर्षे भगवान् वराहः सेव्यते जनैः ।तं देवी यं क्षितिः स्तौति तद्बर्षपतिभिः सह
वर्षे किंपुरुषे ब्रह्मन् ! भगवानादिपूरुषः ।सीतया विहरन्नास्त सततं लक्ष्मणाग्रजः
तञ्च किंपुरुषैः सार्द्धं भक्त्या मारुतनन्दनः ।पार्ष्णिसेनेन सह स्तौति भक्त्या विभावितः
भारते तथा वर्षे नरनारायणावृषी ।नारदः स्तौति भगवान् भगवन्तौ कृतानतिः
द्वीपेऽस्मिन् बहवः सन्ति गिरयः सरितस्तथा ।देशाश्च बहवो ब्रह्मंस्तांस्ते वक्ष्याम्यनुक्रमात्
मेरोरुत्तरतः सर्व्वान् पर्य्यायेण ब्रवीम्यहम् ।दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे
उत्तराः कुरवो नाम पुण्याः सिद्धनिषेविताः ।तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः
सुगन्धीनि पुष्पाणि फलानि रसवन्ति ।सर्व्वे कामदुघा वृक्षा लताः कामप्रपूरिकाः
अपरे क्षीरिणो नाम तरवो मुनिपुङ्गव ! ।ये स्रवन्ति सदा क्षीरं रसैरमृतसन्निभम्
वस्त्राणि प्रसूयन्ते फलेष्वाभरणानि ।सर्व्वा मणिमयी भूमिः सूक्ष्महाटकबालुका
सर्व्वर्त्तुसुखदा नित्यं पङ्कशर्करवर्ज्जिता ।स्वर्गभोगावशेषेण जायन्ते तत्र मानवाः
शुक्लाभिजनसम्पन्नाः सर्व्वे चारुमुखाम्बुजाः ।मिथुनानि जायन्ते स्त्रियः सुरसुतोपमाः
तेषान्ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ।मिथुनं जायते काले समन्ताच्च प्रवर्द्धते
तुल्यरूपगुणोपेतं तुल्यवेशवयस्तथा ।निरामया निराबाधाः सदानन्दविवर्त्तिनः
एकादशसहस्राणि तत्र वर्षाणि वै जनाः ।जीवन्ति ते महाभाग ! चान्योन्यं हनन्ति
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति
उत्तराः कुरवो ब्रह्मन् ! व्याख्यातास्ते समा-सतः * ।हिरण्मये रम्यके एष धर्म्मः प्रकीर्त्तितः
मेरोः पार्श्वमहं पूर्व्वं वक्ष्ये ब्रह्मन् ! यथातथम् ।भद्राश्वे भद्रश्रवा नाम तत्र ब्रह्मन् ! महीपतिः
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ।कालाम्रो नाम वृक्षोऽसौ सिद्धचारणसेवितः
योजनैकसमुत्सेधो नित्यपुष्पफलः शुभः ।तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः
कुमुदाभाः स्त्रियस्तत्र चारुनासाः सुलोचनाः ।चन्द्राभचारुरूपाश्च पूर्णेन्दुसदृशाननाः
नृत्यगीतकलाभिज्ञाश्चन्द्रशीतलकान्तयः ।दशवर्षसहस्राणि तत्रायुर्ब्राह्मणर्षभ !
कालाम्ररसपानेन नित्यं सुस्थिरयौवनाः ।दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः ।सर्व्वकामफलः पुण्यः सिद्धचारणसेवितः
द्बीपख्यातिकरः श्रीमान् सहस्रयोजनोच्छ्रितः ।अरत्नीनां सहस्रञ्च शतानि दश पञ्च
परिणाहस्तु वृक्षस्य रसानां रसभेदिनाम् ।तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः
*
तथा माल्यवतः शृङ्गे दृश्यते हव्यवाहनः ।नाम्ना सम्बर्त्तकी नाम कालाग्निः प्रलयेऽन्तकृत्
तथा माल्यवतः शृङ्गे पूर्व्वे पूर्व्वानुगण्डिकाः ।योजनानां सहस्राणि पञ्चषण्माल्यवान् द्विज !
महारजतसङ्काशा जायन्ते तत्र मानवाः ।ब्रह्मलोकच्युताः सर्व्वे जायन्ते तत्र वै नराः
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्द्ध्वरेतसः ।रक्षणार्थन्तु भूतानां विशन्ति दिवाकरम्
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि ।अरुणस्याग्रतो यान्ति परिवार्य्य दिवाकरम्
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि ।आदित्यतप्तास्ते सर्व्वे विशन्ति शशिमण्डलम्
”इति पाद्मे भूमिखण्डे भूगोले १२९ अध्यायः
*
शेष उवाच ।दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु ।वर्षं रमणकं नाम जायन्ते तत्र मानवाः
शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः ।दशवर्षसहस्राणि शतानि दश पञ्च
जीवन्ति ते महाभाग ! नित्यं मुदितमानसाः ।दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं हिरण्मयं नाम तत्र हैमन्वती नदी ।तत्र चायं महाभाग ! पक्षिराट् पतगोत्तमः
यक्षानुगाश्च बहवो धनिनश्च महाबलाः ।एकादशसहस्राणि वर्षाणां ते महामते !
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च ।शृङ्गाणि विचित्राणि त्रीण्येव ब्राह्मणर्षभ !
एकं मणिमयं तत्र द्वितीयं रौक्ममद्भुतम् ।सर्व्वरत्नमयञ्चैव तृतीयं तत्र शोभते
यत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ।हेमकूटस्तु सुमहान् कैलासो नाम पर्व्वतः
यत्र वै पवनो राजा गुह्यकैः सह मोदते ।अस्त्युत्तरेण कैलासं मैनाकं पर्व्वतं प्रति
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ।तस्य पार्श्वे महद्दिव्यं शुभ्रकाञ्चनबालुकम्
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।दृष्ट्वा पुण्यापगां गङ्गामुवास बहुलाः समाः
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ।तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः
स्रष्टा भूतपतिर्यत्र सर्व्वलोकैः सनातनः ।उपास्यते तीग्मतेजा यत्र भूतैः समन्ततः
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ।तत्र दिव्या त्रिपथगा प्रथमन्तु प्रतिष्ठिता
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ।वस्वोकसा वा नलिनी पावनी सरस्वती
जम्बूनदी सीता गङ्गा सिन्धुश्च सप्तमी ।अचिन्त्या दिव्यसङ्काशा प्रभावैश्च समन्विता
उपासते यत्र सत्रं सहस्रयुगपर्य्यये ।दृश्यादृश्या भवति तत्र तत्र सरस्वती
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ।रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
सपा नागाश्च निषधे गोकर्णञ्च तपोवनम् ।देवासुराणां सर्व्वेषां श्वेतपर्व्वत उच्यते
गन्धर्व्वा निषये नित्यं नीले ब्रह्मर्षयस्तथा ।शृङ्गवांश्च महाभाग ! देवानां प्रतिसञ्चरः ।इत्येतानि महाभाग ! सप्त वर्षाण्यनुक्रमात्
भूतान्यपि निविष्टानि गतिमन्ति ध्रुवाणि
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।अशक्या परिसंख्यातुं श्रद्धेया तु बुभुत्सुना
इलावृते तु भगवान् भवान्या सह मोदते ।इत्येवमष्टौ वर्षाणि कथितानि तवानघ !
*
कर्म्मक्षेत्रं महापुण्यं भारतं शृणु सांप्रतम् ।प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य
पृथोस्तु ब्रह्मन् ! वैण्यस्य तथेक्ष्वाकोर्महात्मनः ।ययातेरम्बरीशस्य मान्धातुर्नहुषस्य
तथैव मुचुकुन्दस्य शिवेरौशीनरस्य ।सोमकस्य राजर्षेर्गाधेश्चैव महात्मनः
ऋषभस्य तथैलस्य दिलीपस्य महात्मनः ।कुशिकस्य धर्म्मज्ञ ! नृगस्य नृपतेस्तथा
अन्येषाञ्च महाभाग ! क्षत्त्रियाणां बलीयसाम्
शृणु मे गदतो ब्रह्मन् ! सर्व्वपापप्रणाशनम्
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।बिन्ध्यश्च पारिपात्रश्च सप्तैते कुलपर्व्वताः
तेषां सहस्रशो ब्रह्मन् ! गिरयस्तु समीपतः ।धातुचित्राः सत्त्ववन्तो महान्तश्चित्रसानवः
आर्य्या म्लेच्छाश्च धर्म्मज्ञ ! तैर्मिश्राः पुरुषाद्विज ! ।नदीं पिबन्ति विपुलां गङ्गां सिन्धु सरस्वतीम्
शतद्रुं चन्द्रभागाञ्च विपापां स्थूलबालुकाम् ।गोदावरीं नर्म्मदाञ्च यमुनाञ्च महानदीम्
दृशद्वतीं विपाशाञ्च बाहुदां सरिताम्बराम् ।नदीं वेत्रवतीञ्चैव पयोष्णीं देविकामपि
वेदस्मृतिं वेदशिनीं चित्रसेनाञ्च निम्नगाम् ।करीषिणीं चित्रवहां कृष्णवेण्वां सुपुण्यदाम्
इराबतीं वितस्ताञ्च त्रिदिवामिक्षुलां कृमिम् ।गोमतीं धूतपापाञ्च निचितां लोहितावनीम्
कौशिकीं त्रिदिवां कृत्यां सरयूञ्च महामते ! ।चर्म्मण्वतीं वेत्रवतीं चन्दनाञ्च महानदीम्
रहस्यां शतकुम्भाञ्च हन्तिसोमां दिशन्तथा ।शरावतीं पयोष्णीञ्च वाजिनीं पुरमालिनीम्
पूर्व्वाभिरामां धीराञ्च वापीं शीतवलीमपि ।पलाशिनीं पापहरां सुप्रयोगां महामते !
कावेरीञ्चुलुकाञ्चापि वेण्वां भीमरथीमपि ।रहस्यां शतकुम्भाञ्च कुशचीरां महानदीम्
पलाशिनीं पापहरां हेमां घृतवतीं तथा ।मरुतीं प्रवरां मेलां महेन्द्रां पाटलावतीम्
पुरावतीमनुष्णाञ्च कुशधारां महानदीम् ।सदानीरामधृष्याञ्च तथा चीरवतीमपि
करीषिणीमशिक्नीञ्च विपुलां सहिरण्मयीम् ।सदाकान्तां शिवाञ्चैव पञ्चमीञ्च महानदीम्
विण्वां वीरकराञ्चापि विश्वामित्रां कपिञ्जलाम् ।वसुं सुवस्त्रां गौरीञ्च कुवेरामम्बुवाहिनीम्
रथचित्रां ज्योतिरथां तुङ्गवेण्वां महानदीम् ।वैलन्दीं पिञ्जलाञ्चैव तुङ्गवेण्वां महानदीम्
विदिशां कृष्णवेण्वाञ्च हविःस्रावां महापगाम् ।सन्ध्यां समासां वेदास्वां भारद्वाजीञ्च निम्नगाम्
शीघ्राञ्च पिच्छिलाञ्चैव कौशिकीं निम्नगामपि ।दुर्गां मन्त्रशिलाञ्चैव ब्रह्ममेध्यां दृशद्वतीम्
परोक्षामथ रोहीञ्च सामान्यां वरणामसिम् ।सुरसां तपसां दासीं पर्णासाञ्च महानदीम्
मालवीं वृषभां भासां ब्रह्ममेध्यां बृहद्वतीम् ।एताश्चान्याश्च बह्व्यो वै महानद्यो द्विजर्षभ !
सदा निरामया कृष्णा मन्दगा मन्दवाहिनी ।चित्रोपला चित्ररथा दुर्गापि पापहारिणी
ब्रह्माणी महागौरी कोषा चापि महानदी ।शुक्तिमती मनङ्गा मञ्जला वाहिनी तथा
कुमारी ऋषिकुल्या नदी मन्दाकिनी तथा ।सुवर्णा तथा गङ्गा मारिषा सरस्वती
लौहित्यं करतोया तथैव वृषकाह्वया ।विश्वस्य मातरश्चैताः सर्व्वाश्चैव महाफलाः
तथा नद्यस्त्वप्रकाशाः शतशश्च सहस्रशः ।इत्येताः सरितो ब्रह्मन् ! समाख्यातास्तवानघ !
वक्ष्यामि पर्व्वतांश्चापि भारते सन्ति ये द्विज ! ।मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः
ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा ।श्रीशैलो ऋष्यमूकश्च शुक्तिमानृक्ष एव
द्रोणश्च पारिपात्रश्च रैवतः ककुभस्तथा ।गोवर्द्धनश्चित्रकूटो नीलो गोकर्ण एव
कोकामुख इन्द्रकीलस्तथा कामगिरिर्द्विज ! ।अतःपरं जनपदान् वक्ष्यामि द्बिजसत्तम !
विख्याताः कुरुपाञ्चालाः शाल्ला माद्रेय-जाङ्गलाः ।मत्स्याः कुशट्टा मौद्गल्या भोजाः सिन्धुकुलि-न्दकाः
सूरसेनाः पुलिन्दाश्च कुन्तयः केशिकोशलाः ।पाञ्चालाः कौशलाश्चैव बोधा मालास्तथैव
चेदिमत्स्यकरूषाश्च नैकपृष्ठा युगन्धराः ।उत्तमाश्च दशार्णाश्च काशयोऽपरकाशयः
कुन्तयोऽवन्तयश्चैव मलजा विजयास्तथा ।आधिराज्याः सकुट्टाश्च चक्रवक्रातयः शकाः
मानवास्योपवाहाश्च यकृल्लोमान एव ।वाह्वीका वाटधानाश्च शङ्कलाशर्म्मचण्डकाः
मल्लाः मुदेष्णाः प्रह्रादा महिषाः शशिका-स्तथा ।अपरान्ताः परान्ताश्च आभीराः काल-तोयकाः
अटवीशिखराश्चैव मेरुभूताश्च मारिष ! ।उपविष्णानुविष्णाश्च जङ्गलाः कुरुवर्णकाः
कुट्टाः परान्ता माहेया मागधा मालवज्जटाः ।अन्ध्राश्च बहवो ब्रह्मन् ! कक्षाः सामुद्र-निष्कुटाः
बहिर्गिर्य्योऽङ्गमलदा अन्तर्गिर्य्यस्तथैव ।सह्युत्तराः प्रावृषेयाः सुदेष्टा यामुनास्तथा
शका निषादा निषधा भार्गवाश्च द्विजर्षभ ! ।पुण्ड्रा भोगाः किराताश्च तथैवानर्त्तनैरृताः
तीरग्रहाः शूरसेनाः कुन्तलाः कुशलास्तथा ।तिलभावा मसावाश्च गान्धारा दर्शकास्तथा
काश्मीराः सिन्धुसौवीरा इजिका कन्यका-गणाः ।अभीसाहा कुलूताश्च मधुमत्ताः कुकुन्दकाः
रत्नवट्टाश्च धर्म्मज्ञ ! सौचला वाह्लिकास्तथा ।दर्व्वीवरा लता दर्व्वाः मुदामानः सुमल्लिकाः
वनायवो दशाः पार्श्वरोमाणः कुशिकास्तथा ।रत्नवट्टाश्च धर्म्मज्ञ ! वाडयामरथोरगाः
रन्ध्राः करीषकाश्चापि कुलिन्दोपेत्यकास्तथा ।कच्छा गोपालकच्छाश्च मूषिका वानवासिकाः
किराता वर्व्वराः सिद्धाः पार्व्वतीयाश्च मारिष ! ।ओड्रम्लेच्छाः ससैरिन्ध्रा वैदेहास्ताम्रलिप्तकाः
तथापरे जनपदा दक्षिणा ब्राह्मणर्षभ ! ।द्रविडाः केरलाः प्राच्या विकल्पमृषकास्तथा
कोवेट्टकास्तथा चोलाः सौहृदा मलका मलाः ।ध्वजिन्युत्सवसंकेता कोङ्कवेङ्कटमालवाः
दण्डकाः कोरकाः प्राच्याः कुकुराङ्गार-मारिकाः ।तथैव बिन्ध्यचूलिकास्त्रिगर्त्ताः साल्लसेनयः
समङ्गाः कवकाश्चैव तथैवापरवर्त्तकाः ।मूषकास्तनबालाश्च पुलिन्दा वर्व्वरैः सह
मुनिवाटाः शिवाटाश्च सरा वेगवशास्तथा ।विदर्भा ऋषिकाः काकजनाश्च ब्राह्मणर्षभ !
यवनाश्च शकाम्भोजास्तङ्गनाः परतङ्गनाः ।सकृद्वहाः कुलत्थाश्च दारुणा म्लेच्छजातयः
उत्तराश्चापरे म्लेच्छा हूनाः पारसिकैः सह ।तथैव मलाश्चीना दशार्णा दशमालिकाः
अङ्गवङ्गकलिङ्गाश्च पह्नवा गिरिगह्वराः ।खासीकाश्चान्तचाराश्च वैश्यशूद्रकुलानि
शूद्राभीराश्च दरदा ये चान्ये म्लेच्छभूमयः ।आत्रेयाश्च भरद्वाजास्तथैव स्तनपोषकाः
ह्रेषकाश्च कलिङ्गाश्च किरातानाञ्च जातयः ।तोमरा हन्यमानाश्च तथैव करभञ्जकाः
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव ।उद्देशेन मया देशास्तव संकीर्त्तिता द्बिज !
वर्षे तु भारते ब्रह्मन् ! त्रिवर्गस्य फलं भवेत् ।दुह्यते कामधुग्धेनुर्भूमिः सम्यगनुष्ठिता
तस्मिन् शुभाशुभं कर्म्म यथोक्तफलदं नृणाम् ।अन्यानि यानि वर्षाणि भूमिस्वर्गाणि तानि वै
भारते विहितं कर्म्म यागध्यानादिलक्षणम् ।फलं जनयते सम्यक् विकर्म्म नरकाण्यपि
तत्र सिद्धा नरा ब्रह्मन् ! तपसाराधनेन ।प्रयान्त्रि परमं लोकमपवर्गञ्च मारिष !
कृतं त्रेता द्वापरञ्च कलिश्च ब्राह्मणर्षभ ! ।भारते तु क्रमेणैवं भवन्ति हि युगानि वै
चत्वारि सहस्राणि वर्षाणां ब्राह्मणर्षभ ! ।आयुःसंख्या कृतयुगे संख्याता भारते द्बिज !
त्रीण्येव तु सहस्राणि त्रेतायां भारते नृणाम् ।द्वे सहस्रे द्बापरे तु शतमेकं कलौ स्मृतम्
तत्रापि स्थितिर्नास्ति कलौ ब्राह्मणसत्तम ! ।गर्भस्थाश्च म्रियन्ते तथा जाता म्रियन्ति
महाबला महासत्त्वा ज्ञानिनो धर्म्मतत्पराः ।तपस्विनो ध्याननिष्ठाः कृते जायन्ति मानवाः
त्रेतायां सर्व्ववर्णाश्च स्वधर्म्मनिरताः सदा ।द्वापरे महाभाग ! क्रूराश्च परहिंसकाः
लुब्धाश्चानृतिकाश्चैव क्रोधना दुष्कृते रताः ।कलौ खलु भविष्यन्ति भारते तापस ! प्रजाः
सर्व्वेषामपि वर्षाणां भारतं प्रवरं द्विज ! ।सिध्यन्ति मानवा ह्यत्र हरिभक्तिपरायणाः
प्रायो भागवताः सर्व्वे भारते द्बिजसत्तम ! ।नानारूपाणि तीर्थानि फलदानि नृणामपि
*
जम्बूद्वीपो मया प्रोक्तो लक्षयोजनविस्तृतः ।समानेन प्रमाणेन वेष्टितो लवणाम्भसा
अष्टावत्र उपद्वीपा मुनिभिः परिकीर्त्तिताः ।सिन्धुमध्ये महाभाग ! नानाविधजनाश्रिताः
नामानि तेषां वक्ष्यामि शृणु वात्स्यायनद्विज ! ।सगरस्य सुतैरश्वान्वेषणे परितो महीम्
खनद्भिः कल्पिता विप्र ! द्वीपा अष्टौ महार्णवे ।स्वर्णप्रस्थश्चन्द्रशल्कः सिंहलावर्त्तनौ यथा
पञ्चजन्यस्तथा मन्दहरिणो रमणकाह्वयः ।लङ्केति कथिता विप्र ! जम्बुद्बीपस्य तेऽन्तरा
”इति पाद्मे भूमिखण्डे भूगोलवर्णने १३०अध्यायः
*
शेष उवाच ।“प्लक्षद्वीपं प्रवक्ष्यामि शृणु वात्स्यायन द्बिज ! ।यन्मानं जम्बुद्वीपस्य तथैव लवणोदधेः
ततो द्विगुणमानोऽसौ प्लक्षद्बीपो महामते ! ।जम्बुद्वीपस्य यथा वेष्टनं लवणाम्भसा
समानेन प्रमाणेन पुरः परिखया यथा ।परिखाया उपवनं यथा भवति वेष्टनम्
प्लक्षद्वीपस्तथैवासौ संवेष्ट्य लवणोदधिम् ।द्विलक्षयोजनायामो वर्त्तते द्विजसत्तम !
तत्र जम्बूप्रमाणोऽस्त्रि द्बीपख्यातिकरस्तरुः ।प्लक्षो नाम महाभाग ! स्वर्णवर्णोऽग्निधाम
तत्र वर्षाणि सप्तैव सुभद्रं यवसं शिवम् ।अमृताक्षमशान्तानि क्रमादभयमित्यपि
सप्तैव सीमागिरयो नद्यः सप्त कीर्त्तिताः ।मणिकूटो वज्रकूटो ज्योतिष्मानिन्द्रसेनकः
हिरण्यष्ठीवो मेघमालः सुपर्णः सेतुशैलका ।अरुणनृमणा चैव सावित्र्यसिवमी तथा
सत्यम्भवा सुप्रभा वात्स्यायन ! धृतम्भवा ।एताः सप्त महानद्यो दर्शनादेव पावनाः
वर्णानां ब्राह्मणादीनां तत्र नामान्यनुक्रमात् ।हंसश्चैव पतङ्गश्चोर्द्ध्वायनश्च तृतीयकः
सत्याङ्गश्च चतुर्थो वै सर्व्वे धर्म्मार्थकोविदाः ।अन्ये पर्व्वतास्तत्र नद्यश्चैव महाफलाः
प्रागायतो महाभाग ! मलयो नाम पर्व्वतः ।ततो मेघाः प्रवर्त्तन्ते प्रभवन्ति सर्व्वतः
ततः परेण विप्रेन्द्र ! जलधारस्तु पर्व्वतः ।तस्माद्गृह्णाति वै तोयं वासवः पृथिवीकृते
वर्षासु हि ततो वृष्टिस्ततः शस्यसमुद्भवः ।रैवतो नाम तत्राथ गिरिर्यत्र प्रतिष्ठितः
रैवती नाम नक्षत्रं दृश्यते दिवि मोदिता ।उत्तरेण तु तस्याथ श्यामो नाम गिरिर्महान्
प्रांशुः श्रीमान्महामेघप्रभयोज्ज्वलविग्रहः ।यस्य श्रिया श्यामवर्णाः प्रजास्तत्र महामते !
अतःपरं महाभाग ! दुर्गो नाम महागिरिः ।केशरी केशरयुतो यस्माद्वातः प्रवर्त्तते
प्लक्षो नाम महाद्वोपो यत्र पूज्यस्तु शङ्करः ।तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि
धार्म्मिकाश्च प्रजा ब्रह्मन् ! जरामृत्युविवर्ज्जिताः ।दीर्घायुषः सत्यपरा वर्द्धन्ते भोगवर्द्धिताः
नद्यश्चान्या महापुण्या गङ्गा बहुधा मता ।महानदी मणिजला सीतासी वेणिका तथा ।सहस्राणां शतान्येवं नद्यः संख्या शक्यते
तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा
मगा ब्राह्मणभूयिष्ठाः स्वकर्म्मनिरता द्बिज ! ।मशकेषु तु राजन्या धार्म्मिकाः सर्व्वकामदाः ।मानसे महाभाग ! वैश्यधर्म्मनिषेविणः ।मन्दगेषु तथा शूद्राः शूरा धर्म्मार्थनिश्चिताः
तत्र राजा विप्रेन्द्र ! दण्डो दण्ड्यता ।सधर्म्मेणैव ते सर्व्वे रक्षन्ति परस्परम्
*
प्लक्षद्वीपसमानेन समुद्रेण वृतो बहिः ।इक्षुरसजलेनैव नानारत्नवता द्विज !
शाल्मलोऽपि तथा द्वीपः प्लक्षाद्द्विगुणमानतः ।चतुर्लक्षयोजनेन सुरोदेनावृतो महान्
यत्र वै शाल्मली नाम द्बिलक्षयोजनोच्छ्रिता ।द्वीपख्यातिकरो वृक्षः सुपर्णेन कृतालयः
तत्र वर्षाणि सप्तैव कथ्यन्तेऽत्र सुरोचनम् ।सौमनस्यं रमणकं देववर्षमिति क्रमात्
पारिभाद्रमाप्यायनमभिज्ञातमिति द्विज ! ।सेतुशैलाश्च सप्तैव सुरसः शतशृङ्गकः
वामदेवश्च कुन्दश्च कुमुदः पुष्पवर्षकः ।सहश्रुतिरिति ब्रह्मन् ! नद्यः सप्तैव कीर्त्तिताः
अनुमतिः सिनीवाली नन्दा राका सरस्वती ।रजनी कुहूश्चैव महानद्यः सुपुण्यदाः
तत्र विप्रादयो वर्णाः क्रमान्नामानि बिभ्रति ।आद्यः श्रुतधरो वर्णस्ततो वीर्य्यधरः स्मृतः ।वसुन्धरस्तृतीयस्तु चतुर्थस्तु इषुन्धरः ।सर्व्वे ते सोममात्मानं भगवन्तं यजन्ति हि
सुरोदं परिवेष्ट्योऽथ ततो द्बिगुणमानकः * ।कुशद्वीपो घृतोदेन समानेनावृतो द्विज !
कुशस्तम्बो महांस्तत्र द्वीपख्यातिं करोति ।जाज्वल्यमानो दीप्त्यैव महाज्वलनराशिवत्
तत्र वर्षाणि सप्तैव समानानि प्रमाणतः ।वसुदानं दृढरुचिर्नाभिगुप्तं महामते !
सत्यव्रतं विप्रनाम देवनामेति सप्तमम् ।सप्तैव सीमागिरयः कीर्त्तिता द्विजसत्तम !
वभ्रुश्चैव चतुःशृङ्गः कपिलश्चित्रकूटकः ।देवानीक ऊर्द्ध्वरोमा द्रविणश्चेति सप्तमः
महानद्यश्च सप्तैव सर्व्वपापप्रणाशनाः ।रसकुल्या मधुकुल्या मित्रविन्दा मानद !
श्रुतविन्दा देवगर्भा मन्त्रमाला घृतच्युता ।तत्र विप्रादयो वर्णा नामान्तरभृतो द्बिज !
कुशलः प्रथमो वर्णः कोविदम्भूर्द्वितीयकः ।अतिमुक्तस्तृतीयस्तु चतुर्थः कुलकः स्मृतः
ते सर्व्वे ज्ञानसम्पन्ना जातवेदस्वरूपिणः ।भजन्ते भगवन्तं वै कर्म्मकौशलयाजिनः
*
घृतोदाच्च तथा द्वीपो द्बिगुणः क्रोञ्चसंज्ञकः ।क्षीरोदेन समानेन वेष्टितो ब्राह्मणर्षभ !
क्रोञ्चो नाम गिरिर्यत्र द्वीपख्यातिकरो महान् ।महासेनशराघातकृतच्छिद्रो महामते !
क्षीरोदेनाभिषिक्तश्च सततं वीचिसञ्चयैः ।वर्षाणि तत्र सप्तैव तेषां नामानि मे शृणु
आम्रो मधुरुहो मेघपृष्ठश्चापि वनस्पतिः ।लोहितार्णः सुधामा भ्राजिष्ठश्चापि सप्तमः ।गिरयश्चापि सप्तैव वर्षसीमाकरा द्विज ! ।शुक्लोऽथ वर्द्धमानश्च भोजन उपबर्हणः
नन्दमो नन्दनश्चैव सर्व्वतोभद्र इत्यपि ।सप्त तत्र महानद्यः पावना ब्राह्मणर्षभ !
अभया चामृतौघा तृप्तिरूपवती तथा ।तीर्थवत्यार्य्यका शुक्ला पवित्रवत्यपि स्मृता
विप्रादयस्तथा वर्णाः ख्याता नामान्तरेण तु ।पुरुषः प्रथमो वर्णो द्बितीयो ऋषभः स्मृतः
तृतीयो द्रविणो नाम देवसंज्ञश्चतुर्थकः ।मूर्त्तिं जलमयीं विष्णोर्ध्यायन्ति यजन्ति
*
एवं परस्तात् क्षीरोदात् शाकद्वीपो द्विजर्षभ ! ।आयामेन विज्ञेयो द्वात्रिंशल्लक्षयोजनः
दधिमण्डोदकेनैव समानेन सिन्धुना ।परीतो भाति तत्रास्ति शाको नाम महीरुहः
द्वीपख्यातिकरः श्रीमान् वासयन् द्वीपमेव तम् ।वर्षाणि तत्र सप्तैव पुरोजवमनोजवौ
धूम्रानीको वेपमानो विश्वाधारश्च मारिष ! ।बहुरूपश्चित्ररेफो गिरयोऽपि सप्त वै
ईशान उरुशृङ्गश्च बलभद्रो महानसः ।शतकेशवनामा सहस्रस्रोत एव
देवपालोऽपि सप्तैते वर्षसीमप्रवर्त्तकाः ।नद्यः सप्तैव विख्याता आयुर्द्धाप्यनघा द्विज !
सहश्रुतिः पञ्चनदी निरृतिरपराजिता ।विख्यातोभयसृष्टिश्च महापुण्या महाफलाः
विप्रादयस्तथा वर्णा ख्याता नामान्तरेण तु ।आद्यो ऋतव्रतो नाम ततः सत्यव्रतः स्मृतः
दानव्रतानुव्रतौ तृतीयश्च चतुर्थकः ।भगवन्तं वायुरूपं भजन्ते यजन्ति
*
तथैव दधिमण्डोदात् परस्तात् पुष्करो महान् ।द्विगुणेन प्रमाणेन द्वीपः स्वादूदकेन तु
परिवीतः समानेन सिन्धुना ब्राह्मणर्षभ ! ।यत्र पुष्करमत्युच्चं ज्वलज्ज्वलनसन्निभम्
द्वीपख्यातिकरं पत्रसहस्रायुतशोभितम् ।यदाहुरासनं विश्वसृजस्तस्य प्रजापतेः
द्वीपमध्येऽवधिगिरिरेक एव महामते ! ।स मानसोत्तरो नाम प्राकार इव वेष्टकः
तस्य पूर्व्वापरौ पार्श्वौ देवर्षे ! तत्र मारिष ! ।सिन्धोर्वेष्टनमत्रैकं गिरेर्वेष्टनकं परम्
रमणकं धातकञ्च द्वे वर्षे नामतः स्मृते ।मानं तस्य गिरेर्विप्रायुतयोजनमुच्छ्रितम्
तावदेव तथायामस्तस्योपरि पुराणि ।चत्वारि लोकपालानामिन्द्रादीनां द्विजर्षभ !
यः परिक्रममाणस्य मेरुं विप्र ! विवस्वतः ।मूर्द्ध्ना बिभर्त्ति शैलेन्द्रश्चक्रं सम्बत्सरात्मकम्
अध्यासते द्बौ पार्श्वौ प्रजास्तस्य महाबलाः ।तत्र संज्ञान्तरं नास्ति वर्णानां ब्राह्मणर्षभ !
स्वादूदकस्य परतो लोकालोकाचलो महान् ।लोकस्य चाप्यलोकस्य मध्ये गिरिवरः स्थितः
प्राकार इव संवेष्ट्य लोकान् सर्व्वान्महामते ! ।लोकालोकाचलो नाम तेनासौ परिकीर्त्तितः
मानसोत्तरमेर्व्वोस्तु अन्तरे यावती मही ।तावती काञ्चनी भूमिर्लोकालोकात्परे द्विज !
यत्र प्रणिहितं वस्तु कथञ्चिन्नोपलभ्यते ।सौवर्णी कान्तिरुद्दीप्ता सर्व्ववर्णप्रमाथिनी
अतः सर्व्वाणि सत्त्वानि तां भूमिं वर्जयन्ति हि ।लोकालोको गिरिर्यस्तु लोकान्ते वर्त्तते महान्
आवृणोति तेजांसि सूर्य्यादीनामपि द्विज ! ।तमतिक्रम्य ज्योतींषि क्षमन्ते प्रवर्त्तितुम्
तावदुन्नाहवान् ब्रह्मन्नायामेन तादृशः ।आयामविस्तरे पृथ्वी पञ्चाशत्कोटियोजना
तस्याश्चतुर्थभागोऽयं लोकालोकाचलो गिरिः ।तस्योपरिष्टाच्चत्वारो गजेन्द्राः सुमहाबलाः
नियुक्ता ब्रह्मणा भूमिं करैराकृष्य संस्थिताः ।भगवानपि तत्रैव विष्वक्सेनादिभिर्वृतः
पार्श्वदप्रवरैर्ब्रह्मन् ! भुजैर्बहुभिरुच्छ्रितैः ।धारयन् जगतीमास्ते आकल्पमपि मारिष !
योऽन्तर्विस्तार एतस्या भूभ्यास्ते परिवर्णितः ।तावती भूरलोकाख्या सान्द्रसन्तमसावृता
ततो योगेश्वरगतिर्योगिनां प्राप्यमुत्तमम् ।स्थानं भगवतः साक्षात् श्वेतद्वीप इतीर्य्यते
इति ते कथितं ब्रह्मन् ! भूगोलस्योपवर्ण-नम्
व्यास उवाच ।य इदं शृणुयात् सूत ! भूगोलस्यानुवर्णनम् ।प्रदक्षिणीकृता तेन सशैलवनकानना ।ससागरा सद्वीपा सवर्षा वसुन्धरा
इति श्रीपद्मपुराणे भूमिखण्डे भूगोलवर्णनं नाम१३१ अध्यायः
*
ज्योतिषशास्त्रोक्तभूगोलम्
यथा, --“सिद्धिं साध्यमुपैति यत्स्मरणतः क्षिप्रंप्रसादात्तथायस्याश्चित्रपदास्वलंकृतिरलं लालित्यलीला-वती ।नृत्यन्ती मुखरङ्गगेव कृतिनां स्याद्भारतीभारतीतं ताञ्च प्रणिपत्य गोलममलं बालावबोधंब्रुवे
”गोलग्रन्थकथने कारणमाह ।‘मध्याद्यं द्युसदां यदत्र गणितं तस्योपपत्तिंविनाप्रौढिं प्रौढसभासु नैति गणको निःसंशयो नस्वयम् ।गोले सा विमला करामलकवत् प्रत्यक्षतोदृश्यतेतस्मादस्म्युपपत्तिबोधविषये गोलप्रबन्धोद्यतः
’अथ गोलप्रशंसया गोलानभिज्ञगणकोपहास-माह ।‘भोज्यं यथा सर्व्वरसं विनाज्यंराज्यं यथा राजविवर्ज्जितञ्च ।सभा भातीव सुवक्तृहीनागोलानभिज्ञो गणकस्तथैव
वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टःसभांजल्पन्नल्पमतिः स्मयात् पटुवटुभ्रूभङ्गवक्रो-क्तिभिः ।ह्रीतः सन्नुपहासमेति गणको गोलानभिज्ञ-स्तथाज्योतिर्व्वित् सदसि प्रगल्भगणकप्रश्नप्रपञ्चो-क्तिभिः
’अथ गोलस्वरूपमाह ।‘दृष्टान्त एवावनिभग्रहाणांसंस्थानमानप्रतिपादनार्थम् ।गोलः स्मृतः क्षेत्रविशेष एवप्राज्ञैरतः स्याद्गणितेन गम्यः
’अथ गणितप्रशंसामाह ।‘ज्योतिःशास्त्रफलं पुराणगणकैरादेश इत्युच्यतेनूनं लग्नबलाश्रितः पुनरयं तत्स्पष्टखेटाश्रयम् ।ते गोलाश्रयिणोऽन्तरेण गणितं गोलोऽपि नज्ञायतेतस्मात् यो गणितं वेत्ति कथं गोलादिकंज्ञास्यति
’अथ ज्योतिषशास्त्रश्रवणाधिकारिलक्षणमाह ।‘द्बिविधगणितमुक्तं व्यक्तमव्यक्तसंज्ञंतदवगमननिष्ठः शब्दशास्त्रे पटिष्ठः ।यदि भवति तदेदं ज्योतिषं भूरिभेदंप्रपठितुमधिकारी सोऽन्यथा नाधिकारी
’व्याकरणवर्णनमाह ।‘यो वेद वेदवदनं सदनं हि सम्यग्-ब्राह्म्यं सवेदमपि वेद किमन्यशास्त्रम् ।यस्मादतः प्रथममेतदधीत्य धीमान्शास्त्रान्तरस्य भवति श्रवणेऽधिकारी
’अथ गोलग्रन्थस्य प्रवृत्त्यर्थमन्योक्तप्रकारेणाह ।‘गोलं श्रोतुं तव यदि मतिर्भास्करीयं शृणु त्वंनो संक्षिप्तो बहु वृथा विस्तरः शास्त्र-तत्त्वम् ।लीलागम्यः सुललितपदः प्रश्नरम्यः यस्मा-द्विद्वन् ! विद्वत्सदसि पठतां पण्डितोक्तिं व्यनक्ति
’अथ भूसंस्थानं प्रश्नश्लोकद्वयेन आह ।‘भ्रमद्भचक्रचक्रान्तर्गगने गगनेचरैः ।वृता धृता धरा केन येन नेयमियादधः
किमाकारा कियम्माना नानाशास्त्रविचार-णात् ।कीदृग्द्वीपकुलाद्रीन्द्रसमुद्रैर्मुद्रितोच्यताम्
’अथ ग्रहस्फुटीकरणोपपत्तिप्रश्नं श्लोकद्वयेनाह ।‘संसिद्धो द्युगणाद्युगादिभगणैः खेटोऽनु-पातेन यःस्यात्तस्यास्फुटता कथं कथमभूत् स्पष्टीकृति-र्नैकधा ।किं देशान्तरमुद्गमान्तरमहो बाह्वन्तरं किञ्चरंकिञ्चोच्चंमृदु चञ्चलञ्च तदिदं कस्तात ! पातःस्मृतः
किं केन्द्रं किमु केन्द्रजं किमु चलं किम्बाचलंतत्फलंकस्मात्तत्सहितः कुतश्च रहितः खेटस्फुटोजायते ।किं दृक् कर्म्म तथोदयास्तसमये द्वेधा विदध्यु-र्बुधाःसर्व्वं मे विमलं वदामलमलं गोलं विजानासिचेत्
’अथ त्रिप्रश्नोदितदिनमानभेदप्रश्नं श्लोकद्वयेनाह ।‘महदहः किमहो रजनी तनु-र्दिनमणौ गणकोत्तरगोलगे ।ननु तनुर्दिवसो महती निशावद विचक्षण ! दक्षिणदिग्गते
भवति किं द्युनिशं द्युनिवासिनांद्युमणिवर्षमितञ्च सुरद्विषाम् ।पितृषु किं शशिमासमितं तथायुगसहस्रयुगं द्रुहिणस्य किम्
’अथ राश्युदयमानकालभेदप्रश्नञ्चाह ।‘भवलयस्य किलार्कलवाः समाःकिमसमैः समयैः खलु राशयः ।समुपयान्त्युदयं किमु गोलवि-न्नविषयेष्वखिलेष्वपि ते समाः
’अथ द्युज्याकुज्यादिसंस्थानप्रश्नं वृत्तार्द्धेनाह ।‘द्युज्याकुज्यापमसमनराग्राक्षलम्बादिकानांविद्वन् ! गोले वियति हि यथा दर्शय क्षेत्र-संस्थाम्
’अथ चन्द्रार्कग्रहणयोः दिक्कालभेदाद्युपपत्ति-प्रश्नान् श्लोकोत्तरार्द्बेनाह ।‘तिथ्यन्ते चेत् ग्रह उडुपतेः किन्न भानोस्तदानींइन्दोः प्राच्यां भवति हि रवेः प्रग्रहः किं प्रती-च्याम्
’लम्बनं वद किं का नतिमतिमतां वर ! ।तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः
’अथ शृङ्गोन्नतौ चन्द्रस्य शुक्लस्य क्षयवृद्धिप्रश्न-माह ।‘शुक्लस्य द्विजराज एष महसो हान्याः कुवृत्तःकुतःसद्वृत्तत्वगतोऽप्यहो भ्रमवशाद्दोषातिसङ्गा-दिव ।संप्राप्याथ पुनस्त्रयीतनुमतस्तस्याश्रये नैव किंशुक्लस्य क्रमशस्तथैव महसो वृद्ध्यैति सद्वृत्त-ताम्
’अथ प्रथमप्रश्नस्य पृथिवीसंस्थानोपपत्तेरुत्तरंविवक्षुरादिसर्गे पृथिव्यादीनां तत्त्वानामादितत्त्वंनिखिलजगज्जननैकबीजं परं ब्रह्म मनसाप्रणिपत्यादौ तावत् तज्जयमाह ।‘यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भे-ऽहं कारोऽभूत् खकशिखिजलोर्व्यस्ततः संह-तेश्च ।ब्रह्माण्डं यज्जठरगमहीपृष्ठनिष्ठो विरिञ्चि-र्विश्वं शश्वत् सृजति परमं ब्रह्म तत्तत्त्वमाद्यम्
’अथ भूमेः स्वरूपमाह ।भूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्कि-नक्षत्रकक्षावृत्तैर्वृत्तो वृतःसन्मृदनिलसलिलव्योमतेजो-मयोऽयम् ।नान्याधारः स्वशक्त्या वियति नियतं तिष्ठती-हास्य पृष्ठेनिष्ठं विश्वञ्च शश्वत् सदनुजमनुजादित्यदैत्यंसमन्तात्
सर्व्वतः पर्व्वतारामग्रामचैत्यद्रुमैश्चितः ।कदम्बकुमुमग्रन्थिः केशरप्रकरैरिव
’अथ पुराणेषु भूमेराधारपरम्परा या पठितातां निराकुर्वन्नाह ।मूर्त्तो धर्त्ता चेद्धरित्र्यास्तदन्य-स्तस्याप्यन्योऽप्येवमत्रानवस्था ।अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्येकिं नो भूमिः साष्टमुर्त्तेश्च मूर्त्तिः
’अथ कथमियं भूमेः स्वशक्तिरित्याशङ्कां परि-हरन्नाह ।‘यथोष्णतार्कानलयोश्च शीतताविधौ द्रुतिः के कठिनत्वमश्मनि ।मरुच्चलो भूरचला स्वभावतोयतो विचित्राः खलु वस्तुशक्तयः
आकृष्टशक्तिश्च मही तया यत्खस्थं गुरु स्वाभिमुखं स्वशक्त्या ।आकृष्यते तत् पततीव भातिसमे समन्तात् कुरियं यतः खे
’अथ बौद्धानां युक्तिमाह ।‘भपञ्जरस्य भ्रमणावलोका-दाधारशून्या कुरितिप्रतीतिः ।खस्थं दृष्टं गुरु क्षमातःखेऽधः प्रयातीति वदन्ति बौद्धाः
द्बौ द्बौ रवीन्दू भगणौ तद्व-देकान्तरौ तावुदयं व्रजेताम् ।यदब्रुवन्नेवमनर्थवादान्ब्रवीम्यतस्तान् प्रतियुक्तियुक्तम्
’अथ तेषां युक्तिभङ्गमाह ।‘भूः खेऽधः खलु यातीति बुद्धिर्बौद्ध ! मुधाकथम् ।यातायातञ्च दृष्ट्वापि खेयत् क्षिप्तं गुरु क्षितिम्
’अथ जिनानां युक्तिभङ्गमाह ।‘किं गण्यं तव वैगुण्यं द्वैगुण्यं यो वृथाकृथाः ।भार्केन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिभ्रमम्
’भूगोलस्य समतां निराकर्त्तुमाह ।‘यदि समा मुकुरोदरसन्निभाभगवती धरणी तरणिः क्षितेः ।उपरि दूरगतोऽपि परिभ्रमन्किमु नरैरमरैरिव नेक्षते
यदि निशाजनकः कनकाचलःकिमु तदन्तरगः दृश्यते ।उदगयं ननु मेरुरथांशुमान्कथमुदेति दक्षिणभागतः
’अथ प्रत्यक्षविरोधशङ्कां निरस्यन्नाह ।‘समो यतः स्यात् परिधेः शतांशःपृथ्वी पृथ्वी नितरां तनीयान् ।नरश्च तत्पृष्ठगतस्य कृस्नासमेव तस्य प्रतिभात्यतः सा
’स्वोक्तस्य भूपरिधिप्रमाणस्य उपपत्तिमाह ।‘पुरान्तरं चेदिदमुत्तरं स्यात्तदक्षविश्लेषलवैस्तदा किम् ।चक्रांशकैरित्यनुपातयुक्त्यायुक्तं निरुक्तं परिधेः प्रमाणम्
’तदेव दृढीकुर्व्वन्नाह ।‘निरक्षदेशात् क्षितिषोडशांशेभवेदवन्ती गणितेन यस्मात् ।तदन्तरं षोडशसंगुणं स्याद्भमानमस्माद्बहु किं तदुक्तम्
शृङ्गोन्नतिग्रहयुतिग्रहणोदयास्त-च्छायादिकं परिधिना घटतेऽमुना हि ।नान्येन तेन जगुरुक्तमहीप्रमाण-प्रामाण्यमन्वययुजा व्यतिरेककेण
’अथ भूगोलपुरनिवेशमाह ।‘लङ्का कुमध्ये यमकोटिरस्याःप्राक्पश्चिमे रोमकपत्तनञ्च ।अधस्ततः सिद्धपुरं सुमेरुःसौम्येऽथ याम्ये बडवानलश्च
कुवृत्तपादान्तरितानि तानिस्थानानि षड्गोलविदो वदन्ति ।वसन्ति मेरौ सुरसिद्धसंघाऔर्व्वे सर्व्वे नरकाः सदैत्याः
यो यत्र तिष्ठत्यवनीतलस्य-मात्मानमस्या उपरिस्थितञ्च ।स मन्यतेऽतः कुचतुर्थसंस्थामिथश्च ते तिर्य्यगिवामनन्ति
अधःशिरस्का कुदलान्तरस्थाच्छाया मनुष्या इव नीरतीरे ।अनाकुलास्तीर्य्यगधःस्थिताश्चतिष्ठन्ति ते तत्र वयं यथात्र
’अथ द्वीपानां समुद्राणाञ्च संस्थानमाह ।‘भूमेरर्द्धं क्षारसिन्धोरुदक्स्थंजम्बुद्वीपं प्राहुराचार्य्यवर्य्याः ।अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्येक्षारक्षीराद्यम्बुधीनां निवेशः
लवणजलधिरादौ दुग्धसिन्धुश्च तस्मा-दमृतममृतरश्मिः श्रीश्च यस्माद्बभूव ।महितचरणपद्मः पद्मजन्मादिदेवै-र्वसति सकलवासो वासुदेवश्च यत्र
दध्नो घृतस्येक्षुरसस्य तस्मान्-मद्यस्य स्वादुजलस्य चान्त्यः ।स्वादूदकान्तर्घडवानलोऽसौपाताललोकाः पृथिवीपुटानि
चञ्चत्फणा मणिगणांशुकृतप्रकाशाएतेषु सासुरगणाः फणिनो वसन्ति ।दीव्यन्ति दिव्यरमणीरमणीयदेहैःसिद्धाश्च तत्र हि लसत्कनकावभासैः
शाकं ततः शाल्मलमत्र कौशंक्रौञ्चञ्च गोमेदकपुष्करे ।द्वयोर्द्वयोरन्तरमेकमेकंसमुद्रयोर्द्वीपमुदाहरन्ति
’अथ जम्बुद्वीपमध्ये गिरिनिवेशवशेन नवखण्डा-न्याह ।‘लङ्कादेशाद्धिमगिरिरुदक् हेमकूटश्च तस्मा-त्तस्माञ्चान्यो निषध इति ते सिन्धुपर्य्यन्त-दैर्घ्याः ।एवं सिद्धादुदगपि पुरात् शृङ्गवच्छुक्लनीला-वर्षाण्येषां जगुरिह बुधा अन्तरे द्रौणिदेशान्
‘भारतवर्षमिदं ह्युदगस्मात्किन्नरवर्षमतो हरिवर्षम् ।सिद्धपुराच्च तथा कुरु तस्माद्-विद्धि हिरण्मयरम्यकवर्षे
माल्यवांश्च यमकोटिपत्तनाद्-रोमकाच्च किल गन्धमादनः ।नीलशैलनिषाधवधी तौअन्तरालमनयोरिलावृतम्
माल्यवज्जलधिमध्यवर्त्तियत्तत्तु भद्रतुरगं जगुर्बुधाः ।गन्धशैलजलराशिमध्यगंकेतुमालकमिला कलाविदः
निषधनीलसुगन्धसुमाल्य-कैरलमिलावृतमावृतमाबभौ ।अमरकेलिकुलाय समाकुलंरुचिरकाञ्चनचित्रमहीतलम्
’अथ मेरुसंस्थानमाह ।इह हि मेरुगिरिः किल मध्यगःकनकरत्नमयस्त्रिदशालयः ।द्रुहिणजन्मकुपद्मजकर्णि-केति पुराणविदः समवर्णयन्
विष्कम्भशैलाः खलु मन्दरोऽस्यसुगन्धशैलो विपुलः सुपार्श्वः ।तेषु क्रमात् सन्ति केतुवृक्षाःकदम्बजम्बूवटपिप्पलाख्याः
जम्बूफलामलगलद्रसतः प्रवृत्ताजाम्बूनदीरसयुता मृदभूत् सुवर्णम् ।जाम्बूनदं हि तदतः सुरसिद्धसंघाःशश्वत् पिबन्त्यमृतपानपराङ्मुखास्ते
वनं तथा चित्ररथं विचित्रंतेष्वप्सरोनन्दननन्दनञ्च ।धृत्याह्वयं यत् धृतिकृत् सुराणांभ्राजिष्णु वैभ्राजमिति प्रसिद्धम्
सरांस्यथैतेष्वरुणञ्च मानसंमहाह्रदं श्वेतजलं यथाक्रमम् ।सरःसु रामारमणश्रमालसाःमुरा रमन्ते जलकेलिलालसाः
सद्रत्नकाञ्चनमयं शिखरत्रयञ्चमेरौ मुरारिकपुरारिपुराणि तेषु ।तेषामधः शतमखज्वलनान्तकानांरक्षोऽम्बु पानिलशशीशपुराणि चाष्टौ
’तत्र अन्यविशेषमाह ।‘विष्णुपदीविष्णुयदात् पतिता मेरौ चतुर्द्धासीत्विष्कम्भाचलमस्तकशस्तसरः संगता गतावियति ।सीताख्या भद्राश्वं सालकनन्दा भारतं वर्षम्चक्षुश्च केतुमालं भद्राख्या चोत्तरान् कुरून्याता
या कर्णिताभिलसिता दृष्टा स्पृष्टावगाहितापीता ।उक्ता स्मृता स्तुता वा पुनाति बहुधापि पापिनःपुरुषान्
यां चलिते दलिताखिलबन्धोगच्छति बल्गति तत्पितृसंघः ।प्राप्ततटो विजितान्तकदूतोयाति नरो निरयात् सुरलोकम्
’अथ भारतवर्षमध्ये नव खण्डानि सप्त कुका-चलांश्चाह ।‘ऐन्द्रं कसेरुसकलं किल ताम्रपर्ण-मन्यद्गभस्तिमदतश्च कुमारिकाख्यम् ।नागञ्च सौम्यमिह वारुणमन्त्यण्डंगान्धर्व्वसंज्ञमिति भारतवर्षमध्ये
वर्णव्यवस्थितिरिहैव कुमारिकाख्येशेषेषु चान्त्यजजना निवसन्ति सर्व्वे ।माहेन्द्रशुक्तिमलयर्क्षकपारिपात्राःसह्यः सबिन्ध्य इह सप्त कुलाचलाख्याः
’अथ लोकव्यवस्थामाह ।‘भूर्लोकाख्यो दक्षिणे व्यक्षदेशा-दस्मात् सौम्योऽयं भुवः स्वश्च मेरुः ।लभ्यः पुण्यैः खे महः स्याज्जनोऽतो-ऽनल्पानल्पैः स्वैस्तपः सत्यमन्त्यः
’दिग्व्यवस्थामाह ।‘लङ्कापुरेऽर्कस्य यदोदयः स्या-त्तदा दिनार्द्ध्वं यमकोटिपुर्य्यां ।अधस्ततः सिद्धपुरेऽस्तकालःस्याद्रोमके रात्रिदलं तदैव
यत्रोदितोऽर्कः किल तत्र पूर्व्वातत्रापरा यत्र गतः चास्तम् ।तन्मत्स्यतोऽन्ये ततोऽखिलाना-मुदक्स्थितो मेरुरिति प्रसिद्धम्
’अथ विशेषमाह ।‘अथोज्जयिन्याः कुचतुर्थभागेप्राच्यां दिशि स्याद्यमकोटिरेव ।ततश्च पश्चान्न भवेदवन्तीलङ्कैव तस्याः ककुभि प्रतीच्याम्
तथैव सर्व्वत्र यतो हि यत् स्यात्प्राच्यां ततस्तन्न भवेत् प्रतीच्याम् ।निरक्षदेशादितरत्र तस्मात्प्राचीप्रतीच्यौ विचित्रसंस्थे
’अथ भचक्रभ्रमणव्यवस्थामाह ।‘निरक्षदेशे क्षितिमण्डलोपगौध्रुवौ नरः पश्यति दक्षिणोत्तरौ ।तदाश्रितं खे जलयन्त्रवत्तथाभ्रमद्भचक्रं निजमस्तकोपरि
उदग्दिशं याति यथा यथा नर-स्तथा तथा खान्नतमृक्षमण्डलम् ।उदग्ध्रुवं पश्यति चोन्नतं क्षिते-स्तदन्तरे योजनजाः पलांशकाः
योजनसंख्या भांशै ३६० र्गुणिताकुपरिधिहृता ४९६७ भवन्त्यंशाः ।भूमौ कक्षायां वाभागेभ्यो योजनानि व्यस्तम्
’अथ देवदैत्यानां ध्रुवर्क्षसंस्थानमाह ।‘सौम्यं ध्रुवं मेरुगताः खमध्येयाम्यञ्च दैत्या निजमस्तकोर्द्ध्वे ।सव्यापसव्यं भ्रमदृक्षचक्रंविलोकयन्ति क्षितिजप्रसक्तम्
उत्तरगोले क्षितिजादूर्द्ध्वं परितो भ्रमन्तमादि-त्यम् ।सव्यं त्रिदशाः सततं पश्यन्त्यसुरा अपसव्यंयाम्ये
द्वन्द्वान्तमारोहति यैः क्रमेणतैरेव वृत्तैरवरोहती नः ।यत्रैव दृष्टः प्रथमं देवै-स्तत्रैव तिष्ठन्न विलोक्यते किम्
दिनं सुराणामयनं यदुत्तरंनिशेतरत् सांहितिकैः प्रकीर्त्तितम् ।दिनोन्मुखेऽर्के दिनमेव तन्मतंनिशा तथा तत्फलकीर्त्तनाय वै
विधूर्द्ध्वभागे पितरो वसन्तःस्वाधःसुधादीधितिमामनन्ति ।पश्यन्ति तेऽर्कं निजमस्तकोर्द्ध्वेदर्शे यतोऽस्माद्युगलं तदैषाम्
कृष्णे दले पक्षदलेऽभ्युदेतिशुक्रेऽस्तमेत्य तत एव सिद्धम् ।भार्द्धान्तरत्वान्न विधोरधःस्थंतस्मान्निशीथः खलु पौर्णमास्थाम्
यदतिदूरगतो द्रुहिणः क्षितेःसततमाप्रलयं रविमीक्षिते ।भवति तावदयं शयितस्य तद्-युगसहस्रयुगं द्युनिशं विधेः
’अथ भूपरिधिमानं प्राक्कथितमपि विशेषार्थ-माह ।‘प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दा-ब्धय ४९६७स्तद्व्यासः कुभुजङ्गशायकभवः सिद्धांशके१नाधिकः १५८१ २४पृष्ठक्षेत्रफलं यथा युगगुणत्रिंशच्छराष्टाद्रयो७८५३०३४भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेःप्रस्फुटम्
’भूपृष्ठफलस्य लल्लोक्तस्य दूषणमाह ।‘दुष्टं कन्दुकपृष्ठजालवदिलागोले फलं जल्पितंलल्लेनास्य शतांशकोऽपि भवेद्यस्मात्फलंवास्तवम् ।तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा चास्तु वाहे प्रौढा गणका विचारयत तन्मध्यस्थबुद्ध्याभृशम्
’अथ सद्युक्तिमाह ।‘यत् परिध्यर्द्धविष्कम्भं वृत्तं कृत्वा किलांशुकम् ।तेनार्द्धं छाद्यते गोलः किञ्चिद्वस्त्रञ्च शिष्यते
गोलक्षेत्रफलाद्यस्माद्वस्त्रक्षेत्रफलं यतः ।सार्द्धद्बिगुणितासन्नं तावदेवापरे दले
एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु ।नाधिकं जायते तेन परिधिघ्नं कुतः कृतम्
वृत्तक्षेत्रफलं यस्मात् परिधिघ्नं युक्तिमत् ।दुष्टत्वाद्गणितस्यास्य दुष्टं भूपृष्ठजं फलम्
”अथान्यथा प्रतिपाद्यते ।‘गोलस्य परिधिः कल्प्यो वेदघ्नज्यामितेर्मितः ।मुखवुध्नगरेखाभिर्यद्वदामलके स्थितः
दृश्यन्ते वप्रकास्तद्बत् प्रागुक्तपरिधेर्मितात् ।ऊर्द्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत्
तत्रैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते ।सर्व्वज्यैक्यं त्रिभज्यार्द्धहीनं त्रिज्यार्द्ध्वभाजितम्
एवं वप्रफलं तत् स्याद्गोलव्याससमं यतः ।परिधिव्यासघातोऽतो गोलपृष्ठफलं स्फुटम्
’अथ भूमेः प्रलयभेदान् प्रलयञ्चाह ।‘वृद्धिर्विधेरह्नि भुवः समन्तात्स्याद्योजनं भूभवभूतिपूर्व्वैः ।ब्राह्य्य लये योजनमात्रवृद्धे-र्नाशो भुवः प्राकृतिकेऽखिलायाः
दिने दिने यन्म्रियते हि भूतै-र्दैनन्दिनं तं प्रलयं वदन्ति ।ब्राह्मं लयं ब्रह्मदिनान्तकालेभूतानि यद्ब्रह्मतनुं व्रजन्ति
ब्रह्मात्यये यत् प्रकृतिं प्रायान्तिसर्व्वाण्यतः प्राकृतिकं कृतीन्द्राः ।लीनान्यतः कर्म्मपुटान्तरत्वात्पृथक् क्रियन्ते प्रकृतेर्विकारैः
ज्ञानाग्निदग्धाखिलपुण्यपापामनः समाधाय हरौ परेशे ।यद्योगिनो यान्ति निवृत्तिमस्मा-दात्यन्तिकं चेति लयश्चतुर्द्धा
’अथ ब्रह्माण्डगोलमाह ।‘भूभूधरत्रिदशदानवमानवाद्याये याश्च धिष्ट्यगगनेचरचक्रकक्षाः ।लोकव्यवस्थितिरुपर्य्युपरिप्रदिष्टाब्रह्माण्डभाण्डजठरे तदिदं समस्तम्
”अथान्योदितं ब्रह्माण्डमानं पूर्व्वोक्तमपि प्रस-ङ्गादनुवदति स्म ।कोटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गेन्दुभि-र्ज्ज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमांयोजनैः १८७१२०६९२०००००००० ।तद्ब्रह्माण्डकटाहसम्पुटतटे केचिज्जगुर्वेष्टनंकेचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाःसूरयः
करतलकलितामलक-वदमलं सकलं विदन्ति ये गोलम् ।दिनकरकरनिकरनिहत-तमसो नभसः परिधिरुदितस्तैः
ब्रह्माण्डमेतन्मितमस्तु नो वाकल्पे ग्रहः क्रामति योजनानि ।यावन्ति पूर्व्वैरिह तत्प्रमाणंप्रोक्तं खकक्षाख्यमिदं मतं नः
”इति सिद्धान्तशिरोमणौ गोलाध्याये भुवनकोषःसमाप्तः
वाचस्पत्यम्
Sanskrit
भूगोल
पु०
भूगोल इव गोलाकारे मण्डले “मध्येसमन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति विभ्राणःपरमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू० सि० ।तत्स्थानभेदस्तन्मानादिकं सि० शि० उक्तं यथा“मूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षा-वृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजेमयोऽयम् ।नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्यपृष्ठे निष्ठं विश्वं शश्वत् सदनुजमनुजादित्यदैत्यंसमन्तात् सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः कद-म्बकुसुमग्रन्थिः केसरप्रसरैरिव मूर्तो धर्त्ता चेद्धरि-त्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था अन्त्येकल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्चमूर्त्तिः? यथोष्णताऽर्कानलयोश्च, शीतता विधौ, द्रुतिःके, काठिनत्वमश्मनि मरुच्चलो भूरचला स्वभावतोयतो विचित्रा वत वस्तुशक्तयः आकृष्टिशक्तिश्च मही-तया यत् स्वस्थं गुरु स्वाभिमुखं स्वशक्त्या आकृ-ष्यत तत् पततीव भाति समे समन्तात् क्व पतत्वियं खे ।भपञ्चरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः ।खस्थं दृष्टं गुरु क्षमातः खेऽधः प्रयातीतिवदन्ति बौद्धाः द्वौ द्वौ रवीन्दू भगणौ तद्वदेका-न्तरौ तावदयं व्रजेताम् यदब्रुवन्नेवमनम्बराद्या-ब्रुवीम्यतस्तान् प्रति युक्तयुक्तिम् भूः खेऽधः खलुयातीति बुद्धिवौद्धीमुधा कथम् यातायातं तु दृष्ट्वापिखे यत् क्षिप्तं गुरु क्षितिम् किं गण्यं तव वैगुण्यंद्वैगुण्यं या वृथा कथा भार्केन्दूनां विलोक्याह्नाध्रुवमत्स्यपरिभ्रमम् यदि समा मुकुरोदरसन्निभाभगवती धरणी तरणिः क्षितेः उपरिदूरगतोऽपिपरिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते यदिनिशाजनकः कनकाचलः किमु तदन्तरगः दृश्यते ।उदगयं ननु मेरुरथांशुमान् कथमुदेति दक्षिणभागके ममो यतः स्यात् परिधेः शतांशः पृथ्वी चपृथ्वी, नितरां तनीयान् नरश्च, तत्पृष्ठगतस्यकृत्स्वा समेव तस्य प्रतिभात्यतः सा पुरान्तरं चेदि-दमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम् चक्रां-शकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् ।निरक्षदेशात् क्षितिषोडशांशे भवदबन्ती गणितेन य-स्मात् तदन्तर षाडशसगुणं स्याद् भूमानमस्माद् बहुकिं तदुक्तम् शृङ्गीन्नतिग्रहयुतिग्रहणोदयास्तच्छा-यादिकं परिधिना घटतेऽमुना हि नान्येन तेन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण लङ्काकुमध्ये यमकोटिरस्याः प्राक्, पश्चिमे रोमकपत्तनं ।अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये बडवानलश्च ।कुवृत्तपादान्तरितानि तानि स्थानानि षड् गोलविदीवदन्ति वसन्ति मेरौ सुरसिद्धसङ्घा और्बे सर्वे नरकाःसदैत्याः यो यत्र तिष्ठत्यवनीं तलस्था मात्मानमस्याउपरिस्थित मन्यतेऽतः कुचतुर्थसंस्थामिथश्च तेतिर्थ्यगिवामनन्ति अधःशिरस्काः कुदलान्तरस्थाश्छाया-मनुष्या इव नीरतीरे अनाकुलास्तिर्यगधः स्थिताश्चतिष्ठन्ति ते तत्र वर्यं यथात्र भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्याः अर्धेऽन्य-स्मिन् द्वीपषट्कस्य याम्य क्षारक्षीराद्यम्बुधीनां नि-वेशः लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृत-रश्मिः श्रीश्च यस्माद्बभूव महितचरणपद्मः पद्म-जन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र दध्नोघृतस्येक्षुरसस्य तस्मान्मद्यस्य स्वादुजलस्य चान्त्यः ।स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपु-टानि चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषुसासुरगणाः फणिनो वसन्ति दिव्यानि व्यरमणीरमणीयदेहैः सिद्धाश्च तत्र लसत्कनकावभासैः ।शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं गोमेष्टकपु-ष्करे द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वींपसुदाह-रन्ति लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽत तस्मात्तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः एवंसिद्धादुदगपि पुराच्छृङ्गङ्गवच्छुक्लनीला वर्षाण्येषां जयरिहबुधा अन्तरे द्रोणिदेशान् भारतवर्षमिदं ह्यदग-स्मात् किन्नरवर्षमतो हरिवर्षम् सिद्धपुराच्च तथा कुरुतस्मात् विद्धि हिरणमयरम्यकवर्षे माल्यवांश्च यम-कोष्टिपत्तनाद्रोमकाच्च किल गन्धमादनः नीलशैलनि-षधावधी तावन्तारालमनयोरिलावृतम् माल्यव-ज्जलधिमध्यवर्त्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः ।गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः ।निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमाव्रतमाबभौ अ-मरकेद्भिकुषायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम् ।इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रि-दशालयः द्रुहिणजन्मकुपद्मजकर्णिकेति पुराण-विदोऽभुमवर्णयन् विष्कम्भशैलाः खलु मन्दरोऽस्यसुगन्धशैलो विपुलः सुपार्श्व तेषु क्रमात् सन्ति चकेतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः जम्बूफलाम-लगलद्रसतः प्रवृत्ता जम्बूनदीरसयुता मृदभूत् सुवर्णम् ।जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्य-मृतपानपराङ्मुखास्तम् वनं तथा चैत्ररथं विचित्रंतेष्वप्सरोनन्दननन्दनं धृत्याह्वयं यद्धृति-कृत् सुराणां भ्राजिष्णु बैभ्राजमिति प्रसिद्धम् ।सरांस्यथैतेष्वरुणं मानसं महाह्रदं श्वेतजलं यथा-क्रमम् सरःसु रामारमणश्रमालसाः सुरा रमन्ते ज-लकेलिलालसाः सद्रत्नकाञ्चनमयं शिखरत्नयं मेरौमुरारिकपुरारिपुराणि तेषु तेषामधः शतमखज्वल-नान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ ।विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्धाऽस्मात् ।विष्कम्भाचलमस्तकशस्तसरःसङ्गता गता वियता सी-ताख्या भद्राश्वं, सालकनन्दा भारतं वर्षम् ब-ङ्क्षुश्च केतुमालं, भद्राख्या चोत्तरान् कुरून् याता ।याऽऽकर्णिताभिलषिता दृष्टा स्पृष्टावगाहिता पीता ।उक्ता स्मृता स्तुता वा पुनाति बहुधा पापिनः पुरुषान् ।यां चलितो दलिताखिलबन्धो गच्छति बल्गति तत्पितृसङ्गः प्राप्ततटे विजितान्तकदूतो याति नरेनिरयात् सुरलोकम् ऐन्द्रं कशेरुशकलं किल ताम्र-पर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम् नागं सौ-म्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्ष-मध्ये वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यज-जना निवसन्ति सर्वे माहेन्द्रशुक्तिमलयर्क्षकपारियात्राःसह्यः मविन्ध्य इह सप्त कुलाचलाख्याः भूर्लोकाख्यो द-क्षिणे व्यक्षदेशात् तस्मात् सौम्योऽय भुवः, स्वश्च मेरुः ।लभ्यः पुण्येः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्वै-स्तपः सत्यमन्त्यः लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदादिनार्धं यमकोटिपुर्य्याम् अधस्तदा सिद्धपुरेऽस्त-कासः खाद्रोमके रात्रिदल तदैव यत्रोदितोऽर्कः किलतत्र पूर्वा, ततापरा यत्र गतः प्रतिष्ठाम् तन्मत्-तोऽन्ये ततोऽखिलानामुदक्स्थितो मेरुरितिप्रसिद्धम् यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशिस्याद्यमकोटिरेष ततश्च पश्चान्न भवेदवन्ती लङ्कैवतस्याः ककुभि प्रतीप्याम् तथैव सर्वत्र यतो हि यत्स्यात् प्राणां ततस्तन्न भवेत् प्रतीच्याम् निरक्षदे-शादितरत्न तस्मात् प्राचीप्रतीच्यौ विचित्रसंस्थे ।निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षि-णोत्तरौ तदाश्रितं खेजलयन्त्रवत् तथा भ्रमद्भचक्रनिजमस्तकोपरि उदग्दिशं याति यथा यथा नर-स्तथा तथा स्यान्नतमृक्षमण्डलम् उदग्ध्रुवं पश्यतिचोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः योजन-संख्याभांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः भूमौकक्षायां वार्वागेभ्यो योजनानि व्यस्तम् सौम्यंध्रुवं मेरुगताः खमध्ये याम्यं दैत्या निजमस्तकोर्द्धेःसव्यापसब्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम् ।प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय ४९६७स्तद्व्यासः कुभुजङ्गसायकभुवः १५९१ सिद्धांशकेनाधिकः १०२४पृष्ठे क्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५२०३४ भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेः प्रस्फु-टम् दुष्टं कन्दुकपृष्ठजालवदिलागाले फलं जल्पितंलल्लेनास्य शतांशकोऽपि मवेद्यस्मात् फलं वास्तवम् ।तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा ह्यस्तु वा हेप्रौढा! गणका विचारयत तन्मध्यस्थबुद्ध्या भृशम् यत्परिध्यर्धविष्कम्भं वृत्तं कृत्तं किलांशुकम् तेनार्धश्छाद्यतेगोलः किञ्चिद्वस्त्रेऽवशिष्यते गोलक्षेत्रफलात् त-स्माद्वस्त्रक्षेत्रफलं यतः सार्धद्विगुणितासन्नं तावदेवा-परे दले एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु ।नाधिकं जायते तेन परिधिघ्नं कुतः कृतम् वृत्तक्षेत्र-फलं यस्मात् परिधिध्नं युक्तिमत् दुष्टत्वाद् गणि-तस्यास्य दुष्टं भूपृष्ठजं फलम् गोलस्य परिधिःकल्प्यो वेदघ्नज्यामितेर्मितः मुखबुध्नगरेखाभिर्यद्वदाम-लके स्थिताः दृश्यन्ते वप्रकास्तद्वत् प्रागुक्तपरिधेर्मि-तान् ऊर्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत् ।तत्वैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते सर्वज्यैक्यंतिभज्यार्धहीनं त्रिज्यार्धभाजितम् एवं वप्रफलंतत् स्याद् गोलव्याससमं यतः परिधिव्यासघाती-ऽतो गोलपृष्ठफलं स्मृतम् वृत्तक्षेत्रे परिधिगुणितप्यासपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येवजालम् गोलस्यैवं तदपि फलं पृष्ठजं व्यासनि-म्नतम् षड्भिर्भक्तं भवति नियतं गोलगर्भे धनाख्यम्” ।पुराणसर्वस्ये विष्णुपु० अन्यथोक्तं यथा“जम्बुप्लक्ष ह्वयौ द्वीपौ शालमलिश्चापरी द्विज! कुशःक्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः एते द्वीपा स-मुद्रैस्तु सप्त सप्तभिरावृताः वणेक्षुसुरासर्पिर्दधि-दुग्धजलैः समः जम्बूद्वीपः समस्तानामेतेर्पा मध्यमेस्थितः तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः पतु-रशीतिसाहस्रो योजनैरस्य चोच्छ्रयः प्रविष्टः षोडशा-धस्तात् द्वात्रिंशन्मूर्ध्नि विस्तृतः मूले षोडशसाहस्रोविस्तारस्तस्य भूभृतः भूपद्मस्यास्य शैलोऽसौ कर्णिकासंस्थितिः स्थितः हिमवान् हेमकूटश्च निषधस्तस्यदक्षिणे नीलः श्वेतश्च शृङ्गी उत्तरे वर्षपर्वताः ।लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे सहस्रद्वि-तयोच्छ्रायास्तावद्विस्तारिणश्च ते भारतं प्रथमं वर्षततः किंपुरषं स्मृतम् हविवर्षं तथैवान्यं मेरो-र्दक्षिणतो द्विजः रम्यकञ्चोत्तरं वर्षं तथैवानु हिरण्-मयम् उत्तराः कुरवश्चैव यथा वै भारतं तथा ।नवसाहस्रमेकैकमेतेषां द्विजसत्तम! इलावृतञ्च तन्मध्येसौवर्णो मेरुच्छ्रितः मेरोश्चतुर्दिशं तत्र नवसाहस्र-विस्तृतम् इलावृतं महाभाग! चत्वार उपपर्वताः ।विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः पूर्वेण म-न्दरो नाम दक्षिणे गन्धमादनः विपुलः पश्चिमे भागेसुपार्श्वश्चोत्तरे स्मृतः कदम्बस्तेषु जम्बूश्च पिप्पलोवट एव एकादश शतायामाः पादपा गिरिकेतवः ।जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने! महा-गजप्रमाणानि जम्ब्वास्तस्याः फलानि वै पतन्तिभूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः रसेन तेषां प्र-ख्याता तत्र जम्बूनदीति वै सरित् प्रवर्त्तते सा पी-यते तन्निवासिभिः स्वेदो दौर्गन्ध्यं जरानेन्द्रियक्लमः तत्पानसुस्थमनसां जनानां तत्र जा-यते तीरमृत्तत्र संप्राप्य सुखवायुविशोषिता जाम्बू-नदाख्यं भवति सुवर्णं सिद्धभूषणम् भद्राश्वं पूर्वतोमेरोः केतुमालञ्च पश्चिमे वर्षे द्वे तु मुनिश्रेष्ठ!तयोर्मध्यमिलावृतम् वनं चैत्ररथं पूर्वं दक्षिणे गन्ध-मादने वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ।अरुणोदं महाभद्रं ससितोदं समानसम् सरांस्ये-तानि चत्वारि देवभोग्यानि सर्वदा सीतान्तश्चैवमुञ्जश्च कुवरो माल्यवांस्तथा वैकङ्कप्रमुखामेरोः पू-र्बतः केसराचलाः त्रिकूटः शिशिरश्चैव पतङ्गो रुच-कस्तथा निषधादयो दक्षिणतस्तस्य केसरपर्वताः ।शिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः जारु-धिप्रमुखास्तद्वत् पश्चिमे केसराचलाः मेरोरनन्तरा-ङ्गेषु जठरादिष्ववस्थिताः शङ्ककूटोऽथ ऋषभो हंसोमानस्तथा परः कालञ्जराद्याश्च तथा उत्तरे वेसरा-चलाः चतुर्दशसहस्राणि योजनानां महापुरी मे-रोरुपरि मैत्रेय ब्रह्मणः प्रथिता पुरी तस्यां सम-न्ततश्चाष्टौ दिशासु विदितासु इन्द्रादिलोकपालानांप्रख्याताः प्रवराः पुरः विष्णुपादविनिष्क्रान्ता पूर-यित्वेन्दुमण्डलम् समन्ताद् ब्रह्मणः पूर्य्या गङ्गा पततिवै दिवः सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत ।मीता चालकनन्दा वङ्क्षुर्भद्रा वै क्रमात् पूर्वेणशैलात् सीता तु शैलं यात्यन्तरीक्षगा ततश्च पूर्ववर्षेणभद्राश्वेनैति पार्णवम् भद्रा तथोत्तरगिरीनुत्तरांश्चतथा कुरून् अतीत्योत्तरमम्भोधिं समभ्येति महामुने! ।वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः पञ्चिमं केतु-मालाख्यं वर्षमभ्येति सार्णवम् तथा चालकानन्दापिदक्षिणेनेत्य भारतम् प्रयाति सागरं भूत्वा सप्तभेदामहामुने! आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः भारताःकेतुमालाश्च भद्राश्वाः कुरवस्तथा पद्मानि लोकपद्मस्यमर्य्यादाश्चैव बाह्यतः जठरो देवकूटश्च मर्य्यादाप-र्वताबुभौ तौ दक्षिणोत्तरायामावानीलनिषधा-यतौ मेरोः पश्चिमदिग्भागे यथा पूर्वा तथास्थितौ त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्षपर्वतौ ।पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ इत्येते मुनि-वर्य्योक्तामर्य्यादापर्वतास्तव जठराद्याः स्थितामेरो-र्येषां वौ द्वौ चतुर्दिशम् मेरोश्चतुर्दिशं ये तु प्रोक्ताःकेसरपर्वताः शीतान्ताद्या मुने! तेषामतीव सुमनो-रमाः शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः सुर-म्याणि तथा तेषु काननानि पुराणि लक्ष्मीवि-ष्ण्वग्निसूर्य्यादिदेवानां सुनिसत्तम! तान्यायतनव-र्य्याणि जुष्टानि वराकन्नरैः गन्धर्वयक्षरक्षांसि तथादैतेयदानवाः क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वह-र्निशम् भौमाह्येते स्मृताः स्वर्गा धर्मिणामालया-मुने! नैतेषु पापकर्माणी यान्ति जन्मशतैरपि भ-द्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज! वराहःकेतुमाले तु भारते कूर्मरूपधृक् मत्स्यरूपश्च गो-विन्दः कुरुष्वास्ते सनातनः विश्वरूपेण सर्वत्र सर्वःसर्वेश्वरो हरिः सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखि-लात्मकः यानि किपुरुषाद्यानि वर्षाण्यष्टौ महामुने! ।न तेषु शोको नायासी नोद्वेगः क्षुद्भयादिकम् सुस्थाप्रजा निरातङ्काः सर्वदुः स्वविवर्जिताः दशद्वादशवर्षाणांसहस्राणि स्थिरायुषः तेषु वर्षवर्य्येषु भौमान्यम्भांसितेषु वै कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ।सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः नद्यश्च शत-शस्तेभ्यः प्रसूता या द्विजोत्तम!” “पराशर उवाच ।उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् वर्षंतद्भारतं नाम भारती यत्र सन्ततिः नवयोजनसाहस्रोविस्तारोऽस्य महामुने! कर्ममूमिरियं स्वर्गमपवर्गञ्चगच्छताम् महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः ।विन्ध्यश्च पारि(या) पात्रश्च सप्तात्र कुलपर्वताः अतः सं-प्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति तिर्य्यक्त्वंनरकत्वञ्च यान्त्यतः पुरुषामुने! इतः स्वर्गश्च मोक्षश्चमध्यञ्चान्तश्च गम्यते खत्वन्यत्र मर्त्यानां कर्म भूमौविधीयते भारतस्यास्य वर्षस्य नवभेदान्निशामय ।इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् नामद्वीप-स्तथा सौम्यो गन्धर्वस्त्वथ वारुणः अयन्तु नवमस्तेषांद्वीपः सागरसंवृतः योजनानां सहस्रन्तु द्वीपोऽयंदक्षिणोत्तरात् पूर्वे किराता यस्यापि पश्चिमे जवनाःस्थिताः ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भा-गशः इज्यायुद्धबलिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः वेद-स्मृतिमुखाश्चान्याः पारि(या)पात्रोद्भवा मुने! नर्मदा सुर-साद्याश्च नद्यो विन्ध्यविनिर्गताः तापीपयोष्णीनिर्विन्ध्याकावेरीपमुखा नदी गोदावरीभीमरथीकृष्णवेण्वादिका-स्तथा सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।कृतामलाताम्रपर्णीप्रमुखामलयोद्भवाः त्रिसामा ऋषि-कुल्याद्या महेन्द्रप्रभवाः स्मृताः ऋषिकुल्याकुमाराद्याःशुक्तिमत्पादसम्भवाः शतद्रूचन्द्रभागाद्या हिमवत्-पादनिःसृताः आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः ।अत्रेमे कुरुपञ्चालमध्यदेशादयोजनाः पूर्वदेशादिका-श्चैव कामरूपनिवासिनः ओड्राः कलिङ्गामनधा दाक्षिणात्याश्च सर्वशः तथापरान्ताः सौराष्ट्राः शुद्धाभीरास्तथा-र्बुदाः मारुकामालकाश्चैव पारि(या)पात्रनिवासिनः ।तौवीराः सैन्धवाहूणा शाल्लाः शाकलवासिनः मद्रा-नामास्तथाम्बष्ठाः पारसीकादयस्तथा चासां पिबन्तःसलिलं वसन्ति सरितां सदा चत्वारि भारते वर्षे युगा-न्यत्र महामुने! कृत त्रेता द्वापर कलिश्चान्यत्रन क्वचित् तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः ।दानानि चात्र दीयन्ते परलोकाममादरात पुरुवैर्यज्ञ-पुरुषो जम्बूद्वीपे सदेज्यते तत्रापि भारतं श्लेष्ठंजम्बूद्वीपे महामुने! यतो हि कर्मभूरेषा ततोऽन्या-भोगभूमयः अत्र जन्मसहस्राणां सहस्रैरपि सत्तम! ।कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयम् गायन्तिदेवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे ।स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्यात् ।कर्माण्यसंकल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूप ।अवाप्य ता कममहीमनन्ते तस्मिँल्लयं ये त्वमलाःप्रयान्ति जानीम नैतवद्धवयं विलीने स्वर्गप्रदे कर्मणिदेहबन्धम् प्राप्स्याम धन्याः खलु ते मनुष्या ये भारतेनेन्द्रियविप्रहीनाः नववर्षन्तु मैत्रेय! जम्बूद्वीप-मिदं मया लक्षयोजनविस्तार संक्षेपात् कथितंतव जम्बूद्वीप समातुत्य लक्षयोजनविस्तृतः मैत्रेय!वलयाकारः स्थितः स्वीरोदधिर्बहिः “पराशर उवाच ।क्षीरोदेन यथाद्वीपो जस्बुसङ्गाऽभिवेष्टितः संवेष्ट्य क्षार-मुदधिं प्लक्षद्वीयस्तथा स्थितः जम्बूद्वीपस्य विस्तारः शत-साहस्रसम्मितः एव द्विगुणो ब्रह्मन्! प्लक्षद्वीपोऽप्युदाहृतः सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ज्येष्ठःशान्तभयो नाम शैशिरस्तदनन्तरः सुखोदयस्तथानन्दःशिवः क्षेमक एव ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वराइमे पूर्वं शान्तभयं वर्षं शिशिरं मुखटं तथा ।आनन्दञ्च शिवञ्चैव क्षेमकं घ्रुवमेव मर्य्याटाकार-कास्तेषां तथान्ये वर्षपर्वताः सप्तैव तेषां नामानिशृणुष्व मुनिसत्तम! गोमेदश्चैव चन्दश्च नारदोदुन्दुभि-स्तथा सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ।वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः वसन्ति देवगन्धर्व-सहिताः सततं प्रजाः तेषु पुण्या जनपदाश्चिराच्चम्रियते जनः नाधयोघ्याधयोवापि सर्वकालसुखं हितत् तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः ना-मतस्ताः प्रवक्ष्यामि श्रुताः पाप हरन्ति याः अमु-तप्ता शिखा चैव विपापा दिदिवा क्रमुः अमृतासुकृता चैव सप्तौतास्तत्र निमृगाः एते शैलास्तथा नद्यःप्रधानाः कथितास्तव क्षुद्रनद्यस्तथा शैलास्तत्र सन्तिसहस्रशः ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।अपसर्पिणी तेषां वै नचैचोतसर्पिणी प्रजा नात्र-चास्त युगावस्या तेषु स्थानेषु सप्तषु त्रेतायुगसमःकालः मर्वदैव महासने! प्लक्षद्वीपादिषु ब्रह्मन् शाक-द्वीपान्तियेषु ते पञ्चवर्षसहस्राणि जना तीवन्त्यना-मयाः धर्माः पञ्चस्यथैतेषु वर्णाश्रभविभागजाः ।यर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते आर्य्यकाःकुरराश्चैव विविंशाभाविनश्च ते विपक्षत्रियवैश्यास्तेशूद्राश्च द्विजसत्तम! जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहा-तरुः प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तम! ।इज्यते भगवांस्तत्र तैर्वर्णैरार्य्यकादिभिः सोमरूपीजगत्स्रष्टा सर्वः सर्वेश्वरो हरिः प्लक्षद्वीपप्रमाणेनप्लक्षद्वीपसमावृतः तथैवेक्षुरसोदेन परिवेशानुकारिणा ।इत्येतत्तव मैत्रेय! प्लक्षद्वीपमुदाहृतम् संक्षे-पेण मया भूयः शाल्मलं मे निशामय शाल्मल-स्येश्वरो वीरो वपुष्मांस्तत्सुतान् शृणु तेषान्तु नाम-संज्ञानि सप्त वर्षाणि तानि वै श्वेतोऽत्र हरितश्चैवजीमूतो हरितस्तथा वैद्युतो मानसश्चैव सुप्रभश्चमहामुने! शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः ।विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः तत्रापिपर्वताः सप्त विज्ञेयारत्नयोनयः रसाभिव्यञ्जकास्तेतु तथा सप्तैव निम्नगाः कुमुदश्चोन्नतश्चैव तृतीयश्चबलाहकः द्रोणो यत्र महौषध्यः चतुर्थो मही-धरः कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु योनितोयावितृष्णा चन्द्रा शुक्ला विमोचनी निवृत्तिः सप्तमीतासां स्मृतास्ताः पापशान्तिदाः श्वेतञ्च लोहितञ्चैवजीमूतं हरितं तथा वैद्युतं मानसञ्चैव सुप्रभं नामसप्तमम् सप्तैतानि तु वर्षाणि चातुर्वर्णयुतानि वै ।शाल्मलेऽपि ये वर्णा वसन्त्येते महामुने! कपिला-श्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् ब्राह्मणाःक्षत्रिया वैश्याः शूद्राश्चैव यजन्तितम् भगवन्तं सम-स्तस्य विष्णुमात्मानमव्ययम् वायुभूतं मुखश्रेष्ठै-र्यज्वितोऽसङ्गसंस्थितिम् देवानामत्र सान्निध्यमत्रैवसमनोरमे शाल्मलिश्च महावृक्षो नाम निर्वृतिकार कःएष द्वीपः समुद्रेण सुरीदेनं समावृतः विस्तारः शाल्-मलस्यैव समेन तु समन्वतः सुरोदकः परिवृतः कुश-द्वीपेन सर्वतः शाल्मलस्य तु विस्ताराद्द्विगुणेन सम-न्ततः ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्व तान् ।उद्भिदो रेणुमांश्चैव सुरथो लम्बनो धृतिः प्रभाकरोऽथकपिलस्तन्नाम्ना वर्ष उच्यते तस्मिन् वसन्ति मनुजाःसह दैतेयदानषैः तथैव देवगन्धर्वयक्षकिंपुरुषा-दिभिः वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ।दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने! ब्रा-ह्मणाः क्षत्रियाः वैश्याः शूद्राश्चानुक्रमोदिताः यथोक्त-कर्मकर्तृत्वात् स्वाधिकारक्षयाय ते तत्र यत्तत् कुशद्वीपेब्रह्मरूपं जनार्दनम् यजन्तः क्षपयन्नुग्रमधिकारफल-प्रदम् विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा १कुशेशयो हरिश्चैव सप्तमो मन्दराचलः वर्षाचलास्तुसप्तैव तत्र द्वीपे महामुने! नद्योऽपि सप्त तासाञ्चशृणु नामान्यनुक्रमात् धूतपापा शिवा चैव पवित्रासम्मतिस्तथा विद्युदस्ता मही चैव सर्वपापहरा-स्त्विमाः अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाऽचलाः ।कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् तत्प्रमा-णेन द्वीपो घृतोदेन समावृतः धृतोदश्च समुद्रो वैक्रौञ्चद्वीपेन संवृतः क्रौञ्चद्वीपो महाभाग! श्रूयताञ्चा-परो महान् कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य वि-स्तरः क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्र महात्मनः तन्ना-मानि वर्षाणि तेषाञ्चक्रे महीपतिः कुशलो मन्दग-श्चोष्णः पीवरीऽथान्धकारकः मुनिश्च दुन्दुभिश्चैव सप्रेतेतत्सुता मुने! तत्रापि देवगन्धर्वसेविताः सुमनोरमाः ।वर्षाचला महाबुद्धे! तेषां नामानि मे शृणु क्रौञ्चश्चवामनश्चैव तृतीयश्चान्धकारकः चतुर्थी हरशैलश्चस्वभाभिर्भासयन्नभः देवावृत् पञ्चमश्चैव तथा स्वःपुण्ड-रीकवान् दुन्दुभिश्च महाशैलो द्विगुणास्ते पर-स्परम् द्वीपद्वीपेषु ये शैला यथा द्वीपानि ते तथा ।वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु निवसन्ति निरा-तङ्काः सहदेवगणैः प्रजाः पुष्कराः पुष्कलाधन्यास्ति-ष्याख्याश्च महामुने! ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चा-नुक्रमोदिताः ते तत्र नद्यो मैत्रेय! या पिवन्ति शृ-णुष्वताः सप्त प्रधानाः परतस्तत्रान्याः क्षुद्रनिम्नगाः ।सौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्चपुण्डरीका सप्तैता वर्षनिम्नगाः तत्रापि वर्णैर्भग-वान् पुष्कराद्यैर्जनार्दनः योगिरुद्रस्वरूपस्तु इज्यतेयज्ञसन्निधौ क्रौञ्चद्वीपः समुद्रेण दधिमण्डीदकेनच आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः दधि-मण्डोदकश्चापि शाकद्वीपेन संवृतः क्रौञ्चद्वीपस्यविस्ताराद् द्विगुणेन महामते! शाकद्वीपेश्वरस्यापिभवस्य सुमहात्मनः सप्तैव तनयास्तेषां ददौ वर्षाणिसप्त जलदश्च कुमारश्च सुकुमारो मणीरकः कुमु-दोदः समौदाकिः सप्तमश्च महाद्रुमः तत्संज्ञान्यपि-तान्येव सप्त वर्षाण्यनुक्रमात् तत्रापि पर्वताः सप्त वर्ष-विच्छेदकारिणः पूर्वस्तत्रोदयनिरिर्जलाधारस्तथा परःतथा रेवतकः श्यामस्तथैवास्तगिरिर्द्विज! आम्बिकेय-स्तथा रम्यः केशरी पर्वतोत्तमः शाकस्तत्र महावृक्षःसिद्धगन्धर्वसेवितः तत्पत्रवातसंसर्गादाह्लादो जायतेपरः तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः नद्य-श्चात्र महापुण्याः सर्वपापभयापहाः सुकुमारीकुमारी नलिनी रेणुका तथा इक्षुश्च धेनुका चैवगभस्ती सप्तमी तथा अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो म-हामुने! महीधरास्तथा चात्र शतमोऽथ सहस्रशः ।ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः वर्षेष्वेतेजनपदाः स्वर्गादभ्येत्य मेदिनीम् धर्महानिर्न ते-ष्वस्ति संहर्षः परस्परम् मर्य्यादाव्युत्क्रमो नापितेषु देशेषु सप्तसु मागाश्च मानधाश्चैव मानसामन्दगास्तथा मागा व्राह्मणभूयिष्ठा मागधा क्षत्रिया-स्तथा वैश्यास्तु मानसास्तेषां शूद्रास्तेषां तु मन्दगाः ।शाकद्वीपे तु तैर्वर्णैः सूर्य्यरूपधरो मुने! यथोक्तैरिज्यतेसम्यक्कर्मभिर्नियतात्मभिः शाकद्वीपस्तु मैत्रेय! क्षीरो-देन समन्ततः शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः ।क्षीराब्धिः सर्वतो ब्रह्मन्! पुष्कराख्येन येष्टितः द्वीपेनशाकद्वीपात्तु द्विगुणेन समन्ततः पुष्कराख्य द्वीपपते-र्महावीतोऽभवत् सुतः धातकिश्च तयोस्तत्र द्वेवर्षेनाम चिह्निते महावीतं तथैवान्यत् धातकीषण्ड-भण्डितम् एकश्चात्र महाभाग! प्रख्यातो वर्ष-पर्वतः मानसोत्तरसंज्ञो वै मध्यतो बलयाकृतिः ।योजनानां सहस्राणि ऊर्द्ध्वं पञ्चाशदुच्छ्रितः ताव-दैव विस्तीर्णः सर्वतः परिमण्डलः पुष्करद्वीपबलयंमध्ये संविभजन्निव स्थितोऽसौ सुमहान् शैलोव्याप्य तद्वर्षकद्वयम् बलयाकारमेकैकं तयोर्वर्षंतथा गिरिः दशवर्षसहस्राणि यत्र जीवन्ति मानवाः ।निरामया विशोकाश्च रानद्वेषविवर्जिताः अधमोत्तमौन तेष्वास्तां नध्यबधकौ द्विज! नेर्ष्यासूयाभयंरोषो दोषो लोभादिको महावीतं महावर्षंधातकीसंङ्गमन्ततः मानसोत्तरशैलश्च देवदैत्यादिसेवितः सत्यानृतं तत्रास्ते द्वीपे पुष्करसंज्ञिते ।न तत्र शैलनद्यो वा द्वीपे वर्षद्वयान्विते तुल्यवेशास्तुमनुजादेवैस्तत्रैकरूपिणः वर्णाश्रमाचांरहीनं धर्मा-हरणवर्जितम् त्रयीवार्त्तादण्डनीतिशुश्र षारहितञ्चतत् वर्षद्वयञ्च मैत्रेय! भौमः स्वर्गोऽयमुत्तमः सर्वश्चसुखदः कालो जरारीगादिवर्जितः पुष्करे धातकी-षण्डं महावीते वै मुने! न्यग्रोधः पुष्करद्वीपेव्रह्मणः स्थानमुत्तमम् तस्मिन्निवसति ब्रह्म पूज्य-मानः सुरासुरैः स्वादूदकेनोदधिना पुष्करः परि-येष्टितः समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा ।एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः द्वीपश्चैवसमुद्रश्च समानौ द्विगुणौ परौ पयांसि सर्वदा सर्व-समुद्रेषु समानि वै ऊनातिरिक्तता तेषां कदाचिन्नैवजायते स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा ।तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तम! अनूमाश्चाति-रिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति उदयास्तमनेष्विन्दोःपक्षयोः शुक्लकृष्णयोः दशोत्तराणि पञ्चैव अङ्गुलानांशतानि वै अपां धृद्विक्षयौ दृष्टौ सामुद्रीणां महा-मुने! भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् यत्रसंभुञ्जते विप्र! प्रजाः सर्वाः सदैव हि स्वादूदकस्यपुरतो दृश्यते लोकसंस्थितिः द्विगुणा काञ्चनी भूमिःसर्वजन्तुविवर्जिता लोकालोकस्ततः शैलो योजनायुत-विस्तरः उच्छ्रायेणापि तावन्ति सहस्राण्यचलोहि सः ततस्तमः समावृत्य तं शैह्यं सर्वतः स्थितम् ।तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् पञ्चाशत्-कीटिविस्तीर्णा सेयमुवीं महामुने! सहैवाण्डकटाहेनसद्वीपाब्धिमहीधरा सेयं धात्री विधात्री सर्वभूत-गुणाधिका आधारभूता सर्वेषां मैत्रेय! जगतामिति” ।भूगोलस्य स्थिरत्वे युक्तिः खगोलशब्दे उक्ता अधिक-मत्र किञ्चिदुच्यते इलण्डीयज्योतिर्विदां मते भूगोलस्यैवदक्षिणोत्तरगतिभ्यां सूर्य्यस्य उत्तरदक्षिणगतित्वं कल्प्यतेस्थिरस्य सूर्य्यस्य उत्तरदक्षिणायनयोरसम्भवादिति ।तदेतन्मतमतीवासमञ्जसं भूगोलस्य दक्षिणोत्तरगतिस्वीकारेसूर्य्यस्येव कृत्तिकारोहिणोशकटमृगव्याधादीनामपिउत्तरदक्षिणयोर्गतिः प्रसज्येत तथा दृश्यतेतेषाञ्च यथा विक्षेपनामशरसंख्या सौरागमे पठितातादृशान्तर एव प्रत्यहं दर्शनं मनागपि उत्तरदक्षिणा-थनमिति विवेच्य भूगालस्य रिवात्वभनुसन्धातव्यम्