| YouTube Channel

भुवो (bhuvo)

 
धातुप्रदीपः
Sanskrit
भुवोँ भुवो अवकल्कने
- अवकल्कने पीडनम् भावयति ब्राह्मणान् तपः 201
क्षीरतरङ्गिणी
Sanskrit
भुवोँ भुवो अवकल्कने
- (अर्थविवरणम्) अवकल्कनम् मिश्रीकरणम्
भावयति दध्नौदनम् अनित्यण्यन्तत्त्वार्थम्पञ्चमी भू प्राप्तावात्मनेपदी (10231) विभाषा णित्-भावयते, भवते भू सत्तायाम् (11) भवति 205
धातुवृत्तिः
Sanskrit
भुवोँ भुवो (अर्थः) अवकल्कने
(अर्थविवरणम्) अवकल्कनं मिश्रीकरणमिति
( 1 ) ( 1 ) क्षीरेत्यधिकं पुस्तकान्तरे स्वामी पुरुषकारे अवकल्कनं चिन्तनमिति काश्यपः क्वचित्स्वामिग्रन्थे ऽनुकल्कनमिति पठित्त्वा ऽनुकल्कनं मिश्रीकरणमिति दृश्यते, नन्दी तु भुवो विकल्कन इति, विकल्कनं विपाचनम् तथा प्रत्युज्यते तपोभावितमात्मानमिति, अवकल्कन इत्यपरे तथा धनपालः, कृपेस्तादर्थ्यइति पठित्त्वाऽवकल्पयतीत्युदाजहार तादर्थ्यं इति भुव इति पूर्वधातोर्योऽर्थस्तदर्थत्त्वे सतीत्यर्थः ( भावयति ) भावयत इति प्राप्तौ युजादिः भवतीति शपि 122