| YouTube Channel

भुवनकोष (bhuvanakoSa)

 
शब्दकल्पद्रुमः
Sanskrit
भुवनको(श)ष,
पुं,
(भुवनस्य कोष इव ।) भूगोलः ।(अस्य विवरणं श्रीभागवते पञ्चमस्कन्धे १६ ।१७ १८ अध्याये द्रष्टव्यम्
तथाच ।“जम्बुप्लक्षशाल्मलकुशक्रौञ्च-शाकपुष्करसंज्ञाः सप्त द्बीपाः ।लक्षयोजनप्रमाणाज्जम्वु-द्वीपादुत्तरोत्तरद्विगुणाः
लवणसुरासर्पिर्दधिदुग्धस्वच्छोदकसंज्ञैः पर-स्परद्विगुणैः ।सप्तसमुद्रैर्बलयाकारैस्ते द्वीपाः परिधिष्ठिताः
योऽसौ मनुपुत्त्रः प्रियव्रतो नाम सप्तद्वीपा-धिपतिर्बभूव तस्य अग्नीध्रादयो दश पुत्त्राबभूवुः
त्रयः प्रव्रजिताः शिष्टानां सप्तानांसप्त द्वीपाः पित्रा दत्ताः तत्र जम्बुद्बीपाधि-पतेराग्नीध्रस्य नव पुत्त्रा जाताः
नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ।रम्यो हिरण्मयश्चैव कुरुभद्रश्च केतुमान्
नववर्षाणि विभज्य पुत्रेभ्यः पित्रा दत्तानि वनंप्रविशता अग्नीध्रोऽयं हिमाह्वयम् यस्याधि-पतिर्नाभेः ऋषभः पुत्त्रो बभूव
ऋषभाद्भरतोभरेतन चिरकालं धर्मेण पालितत्वादिदं भारतंवर्षमभूत् इलावृतस्य मध्ये मेरुः सुवर्णमय-श्चतुरशीतिसहस्राणि योजनानि तस्योच्छ्रायः ।षोडशसहस्रमप्यधस्तादवगाढः तद्द्विगुणो मूल-विस्तारः
तन्मध्ये ब्रह्मणः पुरी ऐन्द्र्यामि-न्द्रस्य चामरावती आग्नेय्यामग्नेस्तेजोवती ।याम्यां यमस्य संयमनी नैरृत्यां निरृतेर्भयं-करी वारुण्यां वरुणस्य विश्वावती वायव्यांवायोर्गन्धवती उदीच्यां सोमस्य विभावरीतिनववर्षान्वितं जम्बूद्वीपं पुण्यपर्वतैः पुण्यनदी-भिरन्वितम्
किंपुरुषादीन्यष्टवर्षाणि पुण्य-वतां भोगस्थानानि साक्षाद्भारतवर्षमेकं कर्म-भूमिश्चातुर्वण्ययुतम्
तत्रैव कर्म्मभिः स्वर्गं कृतैः प्राप्स्यन्ति मानवाः ।मुक्तिश्चात्रैव निष्कामैः प्राप्यते ज्ञानकर्मभिः
अधोगतिमितो विप्र ! यान्ति वै पापकारिणः ।ये पापकारिणस्तान् विद्धि पातालतले नरकेकोटिसमन्वितान्
१०
अथ सप्तकुलपर्वताःकथ्यन्ते माहेन्द्रः मलयः शुक्तिमान् ऋष्यमृकःसह्यपर्वतः बिन्ध्यः पारियात्रः इत्येते भारतेकुलपर्वताः
११
नर्मदासुरसाऋषिकुल्याभी-मरथीकृष्णावेणीचन्द्रभागाताम्रपर्णी इत्येताःसप्त नद्यः गङ्गायमुनागोदावरीतुङ्गभद्राकावेरी-सरयूरित्येता महानद्यः पापध्य्नः
१२
जम्बुनाम्ना विख्यातं जम्बुद्वीपमिदं शुभम् ।लक्षयोजनविस्तीर्णमिदं श्रेष्ठं तु भारतम्
१३
अक्षद्वीपादिपुण्या जनपदाः निष्कामा ये स्वध-र्मेण नरसिंहं यजन्ति ते तत्र निवसन्ति अधि-कारक्षयात् मुक्तिं प्राप्नुवन्ति
१४
जम्बाद्याःस्वादूदकान्ताः सप्त पयोधयःः ततः पराहिरण्मयी भूमिः ततो लोकालोकपर्वतःएष भूर्लोकः
१५
अस्योपरि अन्तरिक्ष-लोकः खेचराणां रम्यस्तदूर्ध्वं स्वर्गलोकः
१६
स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोध मे ।भारते कृतपुण्यानां देवानामपि चालयम्
१७
मध्ये पृथिव्यामद्रीन्द्रो भास्वान् मेरुर्हिरण्मयः ।योजनानां सहस्राणि चतुरशीतिमुच्छ्रितः
१८
प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः ।तावत्प्रमाणा पृथिवी पूर्व्वतश्च समन्ततः
१९
तस्य शृङ्गत्रयं मूर्ध्रि स्वर्गो यत्र प्रतिष्ठितः ।नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्
२०
मध्यमं पश्चिमं पूर्व्वं मेरोः शृङ्गाणि त्रीणि वै ।मध्यमं स्फाटिकं शृङ्गं वैदूर्यमणिकामयम्
२१
इन्द्रनीलमयं पूर्व्वं माणिक्यं पश्चिमं स्मृतम् ।योजनानां सहस्राणि नियुतानि चतुर्दश
२२
उच्छ्रितं मध्यमं शृङ्गं स्वर्गो यत्र त्रिविष्टपः ।अप्रभान्तरितं शृङ्गं मूर्ध्नि छत्राकृतिस्थितम् ।पूर्व्वमुत्तरशृङ्गाणां अन्तरं मध्यमस्य ।त्रिविष्टपो नाकपृष्ठे ह्यप्सराः सन्ति निर्वृताः
२४
आनन्दोऽथ प्रमोदश्च स्वर्गशृङ्गे तु मध्यमे ।श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ
२५
आह्लादः स्वर्गराजा वै स्वर्गशृङ्गे तु पश्चिमे ।निर्ममो निरहङ्कारः सौभाग्यश्चातिनिर्म्मलः
२६
स्वर्गाश्चैव द्बिजश्रेष्ठ ! पूर्व्वशृङ्गे समास्थिताः ।एकविंशानि स्वर्गा वै निविष्टा मेरुमूर्द्धनि
२७
अहिंसादानकर्तारो यज्ञानां तपसां तथा ।तत्तेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः
२८
जलप्रवेशे चानन्दं प्रमोदं वह्निसाहसे ।भृगुप्रपाते सौख्यं रणं चैवास्य निर्मलम्
२९
अनाशके तु संन्यासे मृतो गच्छेत्त्रिविष्टपम् ।क्रतुयाजी नाकपृष्ठं अग्निहोत्री निर्वृ-तिम्
३०
तडागकूपकर्त्ता लभते पौष्टिकं द्विजः ।सुवर्णदायी सौभाग्यं लभन् स्वर्गतपःफलम्
३१
शीतकाले महावह्निं प्रज्वालयति यो नरः ।सर्व्वसत्त्वहितार्थाय स्वर्गं सोप्सरसं लभेत्
३२
हिरण्यगोप्रदाने हि निरहङ्कारमाप्नुयात् ।भूमिदानेन शुद्धेन लभते शान्तिकं पदम्
३३
रौप्यदानेन स्वर्गं तु निर्मलं लभते नरः ।अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम्
३४
द्विजेभ्यस्तर्पणं कृत्वा दत्वा वस्त्राणि भक्तितः ।श्वेतं तु लभते स्वर्गं यत्र गत्वा शोचते
३५
कपिलागोप्रदानेन परमार्थे महीयते ।गोवृषस्य प्रदानेन स्वर्गं मन्मथमाप्नुयात्
३६
माधमासे सरित्स्नायी तिलधेनुप्रदस्तथा
छत्रोपानहदाता स्वर्गं यात्युपशोभनम्
३७
देवतायतनं कृत्वा द्विजशुश्रूषकस्तथा ।तीर्थयात्रापरश्चैव स्वर्गराज्ये महीयते
३८
एकान्नभोजी यो मर्त्यो नक्तभोजी नित्यशः ।उपवासी त्रिरात्राद्यैः शान्तः स्वर्गं शुभंलभेत्
२९
सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः ।निर्मलं स्वर्गमाप्नोति यथाभूतहिते रताः
४०
विद्यादानेन मेधावी निरहङ्कारमाप्नुयात् ।येन येन हि भावेन यद्यद्दानं प्रयच्छति
४१
तत्तत्स्वर्गमवाप्नोति यद्यदिच्छति मानवः ।चत्वारि अतिदानानि कन्या गौर्भूः सरखती
४२
नरकादुद्धरन्त्येते जपवाहनदोहनात् ।यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रय-च्छति
४३
संप्राप्य निवर्त्तेत स्वर्गं शान्तमनामयम् ।शृङ्गे तु पश्चिमे यत्र ब्रह्मा तत्र स्थितः स्वयम्
४४
पूर्व्वशृङ्गे स्वयं विष्णुः मध्ये चैव शिवः स्थितः ।अतः परं तु विप्रेन्द्र ! स्वर्गाध्वानमिमं शृणु
४५
विमलं विपुलं शुद्धमुपर्य्युपरिसंस्थितम् ।प्रथमे तु कुमारस्तु द्बितीये मातरः स्थिताः
४६
तृतीये सिद्धगन्धर्वा तुर्य्ये विद्याधरा द्बिज !पञ्चमे नागराजा षष्ठे तु विनतासुतः
४७
सप्तमे दिव्यपितरो धर्म्मराजस्तथाष्टमे ।नवमे तु तथा दक्ष आदित्यो दशमे पथि
४८
भूर्लोकाच्छतसाहस्रादूर्द्ध्वं चरति भास्करः ।योजनानां सहस्रे द्बे विष्टम्भनसमं ततः
४९
त्रिगुणं परिणाहेन सूर्य्यबिम्बं प्रमाणतः ।सोमपुर्य्यां विभावर्य्यां मध्याह्ने चार्य्यमा यदा ।महेन्द्रस्यामरावत्यां तदा तिष्ठति भास्करः
५०
मध्याह्ने त्वमरावत्यां यदा भवति भास्करः ।तदा संयमने याम्ये तत्रोद्यंस्तु प्रदृश्यते
५१
मेरुं प्रदक्षिणं कुर्व्वन् भात्येव सविता सदा ।ध्रुवाधारस्तथोत्तिष्ठन् वालिखिल्यादिभिःस्तुतः
५२
इति श्रीनरसिंहपुराणे भूवनकोशे त्रिंशो-ध्यायः
३०
)
वाचस्पत्यम्
Sanskrit
भुवनकोष
पु०
भुवनस्य कोष इव भूगोले ज्योतिषग्रन्य-भेदे पुराणसर्वपो विष्णु
पु०
तद्वर्णन यथा“रविचन्द्रमसोर्यावन्मयूखैरवभास्यते मनमुद्सरि-च्छैला तावती पृथिवी स्मृता यावत्प्रामाखा पृथिवीविस्तारपरिमण्डला नभस्तावत्प्रमाणं वै विस्तार-प्ररिमण्डलम् भूमेर्योजनत्रक्षे तु सौरं मैत्रेय! मण्ड-लम् लग्ने दिवाकरफापि मण्डलं शशिनः स्मृतम् ।पूर्णे शतसहस्रे तु योजनानां निशाकरात् नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते द्विमक्षे चोत्तरेब्रह्मन्! बुधो नक्षत्रमण्डलात् तावत्प्रामाणभावे तुबुधस्याप्युशना स्थितः अङ्गारकोऽपि शुक्रस्य तत्-प्रमाणे व्यवस्थितः तक्षद्वयेन भौमस्य स्थितो देवपुरोहितः सौरिर्वृहस्पतेश्चोर्द्धं द्विलक्षे समवस्थितः।सप्तर्षिमण्डल तस्मल्लक्षमेकं द्विजोत्तम ऋषिभ्यस्तुसहस्राणां शताद्वर्द्धं व्यवस्थितः मधीभूतसमस्तस्यज्योतिश्चक्रस्य वै ध्रुवः त्रैलोक्यमेतत् कथितसत्स-धेन महामुने! इज्याफलस्य भूरेषा इज्या चात्र प्रति-ष्ठिता ध्रुवादूर्द्धं महर्लोको यत्र ते कल्पवासिनः ।एका योजनकोटी तु महर्लोको विधीवते द्वेफोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः सनन्द-नाद्याः कथिता मैत्रेनामलचेतसः चतुगुर्णोत्तरेचोर्द्धं जनलोकात्तपः स्मृतः वैराजा यत्र ते देवाःस्थिता दाहविवर्जिताः षडुगुणेन तपोलोकात् सत्य-लोको विराजते अपुनर्मारकायत्र ब्रह्मलोको हिस स्मृतः पादगम्यन्तु यत किञ्चिद्वस्त्वखि पृथिवीम-यम् भूर्लोकः समाख्यातो विस्तारोऽप्य मयोदित ।भूमिसूर्य्यान्तरं यत्तु सिद्धादिसुनिसेवितम् भुवर्लोकस्तुसीऽप्युक्तो द्वितीयोमुनिसत्तम! ध्रुवसूर्य्यान्तरंयत् तु नियुतानि चतुर्दश स्वर्लोकः सोऽपि कथितीलोकसंस्थानचिन्तकैः त्रैलोक्यमेतत् कृतकं मैत्रेय! परि-पठ्यते जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ।कृतकाकृतकोमध्ये महर्लोक इति श्रुतिः शून्योभवति कल्पान्ते योऽत्यन्तं विनश्यति एते सप्त-मया लोका मैत्रैय! कथितास्तव पातालानि सप्तैवब्रह्माण्डस्यैव विस्तरः एतदण्डकटाहेन तिर्य्यक्चोर्ध्वमधस्तथा कपित्थस्य यथा वीजं सर्वतो वै समा-वृतम् दशीत्तरेण पयसा मैत्रेयाण्डञ्च तद्वृतम् ।सर्वोऽम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः वह्निश्चवायुना, वार्युमैत्रेय! नभसावृतः भूतादिना नभः सो-ऽपि महता परिवारितः दशोत्तराण्यशेषाणि मैत्रे-यैतानि सप्त वै महान्तञ्च समावृत्य प्रधानं सभव-स्थितम् अनन्तस्य तस्यान्तः संख्यानं वापि विद्यते” ।भाग० १६ १८ अ० विस्तरो दृश्यः