भुवनं (bhuvanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishभुवनं [भवत्यत्र, भू-आधारादौ-क्युन्] 1 A world
the number of worlds is either three, as in त्रिभुवन, or fourteen
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुंजते Bh. 3. 23 (see लोक also)
भुवनालोकनप्रीतिः Ku. 2. 45
भुवनविदितं Me. 6.
2 The earth.
3 Heaven.
4 A being, living creature.
5 Man, mankind.
6 Water.
7 The number ‘fourteen’.
8 Abode, residence (Ved.).
9 Becoming prosperous.
Comp.
ईशः a lord of the earth, king.
ईश्वरः {1} a king. {2} N. of Śiva.
ओकस् m. a god.
कोशः the receptacle of beings.
त्रयं the three worlds (the earth, atmosphere, and heaven
or heaven, earth, and lower regions).
पावनी an epithet of the Ganges.
भर्तृ m. the supporter of the earth.
शासिन् m. a king, ruler.
शब्दकल्पद्रुमः
Sanskritभुवनं, (भवन्त्यस्मिन् भूतानीति । भू + “भूसू-धूभ्रस्जिभ्यश्छन्दसि ।” उणा० २ । ८० । इत्यत्रबहुलवचनाद्भाषायामपि प्रयुज्यते ।” इत्युज्ज्वल-दत्तोक्त्या क्युन् ।) जगत् । (यथा, भट्टिः । १ । १ ।“गुणैर्व्वरं भुवनहितच्छलेन यंसनातनः पितरमुपागमत् स्वयम् ॥
”)सलिलम् । गगनम् । जनः । इति मेदिनी । ने, १०२ ॥
चतुर्द्दशभुवनानि यथा, --“चतुर्द्दशविधं ह्येतद् भूतसर्गं प्रकीर्त्तितम् ।भूर्भुवः स्वर्महश्चैव जनश्च तप एव च ॥
सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ।जम्बूः शाकः कुशः क्रौञ्चः शाल्मलो मेदपुष्करः ।सप्तद्वीपाः प्रधानानि ह्युपद्वीपैस्तु संयुताः ॥
लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः ।सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् ।चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताःस्मृताः ॥
उत्तराः कुरवो रम्यं वर्षं हैमवतं तथा ।भद्राश्वं केतुमालञ्च तथा वषमिलावृतम् ॥
भारतं हरिवर्षञ्च तथा किंपुरुषावृतम् ।एतान्यष्टौ तु वर्षाणि पुण्यानि कथितानि तु ॥
इन्द्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।नागवीथी तथा सौम्यो गन्धर्व्वो वारुणस्तथा ॥
सागराख्यस्तु नवमो भेदभारतवार्षिकः ।इदन्तु भारतं वर्षं कर्म्मभूमिरिति स्मृतम् ॥
शेषाणि द्वीपवर्षाणि भोगस्थानानि सन्त्यपि ।भागीरथी पावनी च ह्रदिनी ह्रादिनी तथा ॥
सीता वंक्षुश्च सिन्धुश्च सप्त गङ्गाः प्रकीर्त्तिताः ।सुप्रभा काञ्चनी चैव विशाला सुमनोह्रदाः ॥
सरस्वत्योघनादा च सुवेणुर्विमलोदका ।एता गङ्गास्तु विख्याताः सप्त पुण्यप्रदाः शुभाः ॥
हिमवान् हेमकूटश्च निषधो नीलपर्व्वतः ।श्वेतश्च शृङ्गवान्मेरुर्माल्यवान् गन्धमादनः ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ॥
लोकालोको महांस्तेषु तथैवोत्तरमानसः ।एते विंशतिर्विख्याताः पर्व्वतास्तस्थुषां वराः ॥
अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् ।महातलं रसातलं पातालं सप्तमं स्मृतम् ॥
रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् ।रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि ॥
पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् ।शुषिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥
”इति वह्निपुराणम् ॥
(भूतजातम् । यथा, ऋग्वेदे । १ । १५७ । ५ ।“युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवने-ष्वन्तः ।”तथा च वाजसनेयसंहितायाम् । ९ । ५ ।“यस्यामिदं विश्वं भुवनमाविवेश तस्यां नोदेवः सविता धर्म्म साविषत् ॥
” * ॥
भावनम् ।यथा, ऋग्वेदे । १० । ८८ । १ ।“तस्य भर्म्मणे भुवनाय देवा धर्म्मणे कं स्यधयापप्रथन्त ॥
” * ॥
मुनिविशेषः । यथा, महा-भारते । १३ । २६ । ८ ।“नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
