| YouTube Channel

भुरिक् (bhurik)

 
शब्दकल्पद्रुमः
Sanskrit
भुरिक्, [ज्]
स्त्री,
(भरति सर्व्वं धरतीति ।भृञ् + “भृञ उच्च ।” उणा० ७२ इतिइजिः धातोरुकारान्तादेशः ।) पृथिवी ।इत्युणादिकोषः
(द्विवचनान्तत्वे बाहू ।द्यावापृथिव्यौ यथा, ऋग्वेदे १४ ।“रथं क्रन्तो अपसा भुरिजोरृतं येमुः सुध्य आशुषाणाः
”“भुरिजोः बिभ्रतः कर्म्मकरणसामर्थ्यं पदार्थान्वेति भुरिजौ बाहू तयोः यद्वा, भुरिजोः देवान्मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ ।”इति तद्भाष्ये सायनः
)