भुक्तिः (bhuktiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishभुक्तिः [bhuktiḥ], [भुज्-क्तिन्]
Eating, enjoyment
भुक्तिं मुक्तिं च विन्दति Rāmarakṣā Stotra. 12.
(In law) Possession, fruition
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् 2.22
3.94.
Food.
The daily motion of a planet.
A limit. -पात्रम् a food-dish. -प्रदः a kind of plant (मुद्ग). -वर्जित not allowed to be enjoyed.
Apte 1890
EnglishWordnet
Sanskrit भुक्तिः
अपक्वा भोजनसामग्री या कमपि भोजननिर्मातुं यच्छति।
"महात्मना भुक्तिं गृहीत्वा स्वस्य भोजनं पाचयति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritभुक्तिः, (भुज् + क्तिन् ।) भोजनम् । इतिशब्दरत्नावली ॥
भोगः । यथा, --“भुक्तिस्त्रिपुरुषी सिद्ध्येदपरेषां न संशयः ।अनिर्वृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति ॥
आहर्त्ता शोधयेद्भुक्तिमागमञ्चापि संसदि ।तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥
”इति दायतत्त्वम् ॥
(यथा, मनुः । ८ । २५२ ।“एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ।पूर्व्वभुक्त्या च सततमुदकस्यागमेन च ॥
”)रविर्भुक्तिर्यथा, --“सार्द्धसप्तझसे मेषे वसुः सार्द्धो घटे वृषे ।दशैव मकरे द्वन्दे पलानि प्रतिवासरम् ।कुलीरसिंहप्रमदातुलालिकार्मुकेषु च ।पलान्येकादश तथा रविभुक्तिं प्रचक्षते ॥
”इति ज्योतीरत्नमाला ॥
भोगः । दखल इति पारस्यभाषा । स चप्रमाणचतुष्टयान्तर्गतप्रमाणविशेषः । यथा ।लिखिताद्यभावे दिव्यमाह याज्ञवल्क्यः ।“प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति-तम् ।एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥
”इति व्यवहारतत्त्वम् ॥
तद्विवरणं यथा । अथ भुक्तिः । तत्र याज्ञ-वल्क्यः ।“पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी ।परेण भुज्यमानाया धनस्य दशवार्षिकी ॥
”विवादमकुर्व्वतः समक्षं भूस्वामिनः परेणा-सपिण्डादिना भुज्यमानाया भूमेर्व्विंशतिवर्ष-निर्वृत्ता स्वत्वहानिः । अत्र लोकव्यवहार-कर्म्मत्वाद्वर्षगणना सावनेन । यथा च विष्णु-धर्म्मोत्तरम् ।“सत्राण्युपास्यान्यथ सावनेनलौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥
”तत्रैव ।“सावने च तथा मासि त्रिंशत् सूर्य्योदयाःस्मृताः ॥
”इति ॥
विशेषयति व्यासः ।“वर्षाणि विंशतिं यस्य भूर्भक्ता तु परैरिह ।सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥
”समर्थस्य बालत्वादिदोषरहितस्य । धनस्यदशवर्षनिर्वृत्ता स्वत्वहानिः । तथा च मनु-नारदौ ।“यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी ।भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥
”यत्किञ्चिद्धनजातं समक्षमेव प्रीत्यादिव्यतिरेकेण परैर्दशवर्षाणि भुज्यमानं स्वामी तूष्णींप्रेक्षते मा भुज्यतामिति प्रतिषेधं न रचयतिनासौ तल्लब्धुं योग्यो भवति तत्र तस्य स्वाम्यंनश्यतीत्यर्थः । गोतमः । अजडापौगण्डधनंदशवर्षभुक्तं परैः सन्निधौ भोक्तुरिति । जडोविकलेन्द्रियः । पौगण्डः पूतोऽनुत्पन्नश्मश्रुर्गण्डःकपोलो यस्य सः । तदाह नारदः --“बाल आषोडशाद्वर्षात् पौगण्डश्चापिशब्द्यते ॥
”अत्रापौगण्डः प्रकीर्त्तित इति कुल्लूकभट्टेनलिखितम् । तत्पाठेऽपि अपौगण्डस्तु पौगण्डइति द्विरूपकोषादविरोधः । तस्माद्याज-नादिरिव वचनाद्दशवर्षविंशतिवर्षादिकालैर्भोगएव स्वत्वं जनयति । यथा कालप्राप्तिवशेनबीजमङ्कुरं जनयति तरवश्च कुसुममिति ।स्वामिना चापरित्यक्तेऽपि शास्त्रोक्तकालीन-भोगात् स्वाम्यमन्यस्य भवति । यथा जयेनराज्ञः परराष्ट्रधन इति । एवमेव श्रीकरवालो-कजोग्लोकभबदेवभट्टशूलपाणिकुल्लूकभट्टचण्डेश्व-रनव्यवर्द्धमानोपाध्यायप्रभृतयः ॥
व्यवहारो-ऽप्येतादृगेव । एतद्विरुद्धवचनान्यन्यथा व्याख्ये-यानि । तत्रोपेक्षया स्वत्वहानिं भुक्त्या च स्वत्व-माह नारदः --“भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते ।समक्षं तिष्ठतोऽप्यस्य तान् भुक्तिः कुरुते वशे ॥
”व्यक्तमाह बृहस्पतिः --“स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया ।”उपेक्षया क्षमया । तत्कारणञ्च स्वामिनःसुशीलत्वमहेच्छत्वदयालुत्वादि । एवञ्च विंशति-वर्षात् पूर्व्वं स्वकृतिसाध्यकर्षणपालनाद्यैरुत्-पन्नद्रव्य एव स्वत्वम् । एवं दशवर्षात् पूर्व्वंस्वकृतिसाध्यदोहनपालनाद्यैरुत्पन्नदुग्धादौ एवस्वत्वम् । तत्तत्कालपरतस्तु भूमौ गवादिधनेच स्वत्वमिति । पूर्व्वं तत्तन्नाशकभोगे तु चौर्य्य-दोषो भवत्येव ॥
* ॥
भोगे तु स्वत्वहानिमा-ध्यादीनां व्यावर्त्तयति पश्यतोऽब्रुवत इत्यभिधाययाज्ञवल्क्यः --“आधिसीमोपनिःक्षेपजडबालधनैर्विना ।तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥
”आधिर्बन्धकद्रव्यम् । उपनिःक्षेपः ।वासनस्थमनाख्याय समुद्रं यन्निधीयते ॥
”इति नारदोक्तेः ॥
वासनस्थं निःक्षेपाधारभूतसम्पुटादिस्थम् ।समुद्रं ग्रन्थ्यादियुतम् । जडो बुद्धिविकलः ।बालोऽप्राप्तषोडशवर्षः । उपनिधिः प्रीत्याभोगार्थमर्पितः । ततश्च आध्यादिभिर्जडादि-धनैश्च विना अन्यानि धनानि उक्तभोगकालेनस्वामिनो नश्यन्ति एतानि तु स्वामिनो ननश्यन्ति न वा भोक्तुर्भवन्ति ॥
* ॥
मिताक्षरायांस्मृतिः --“द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया ।भुक्तिरेव तु गुर्व्वी स्यान्न दिव्यं न च साक्षिणः ॥
”याज्ञवल्क्यः ।“आगमो ह्यधिको भोगाद्विना पूर्व्वक्रमागतात् ।नागमः कारणं तत्र भुक्तिः स्तोकापि यत्र नो ॥
आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ।न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥
योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।न तत्र कारणं भुक्तिरागमेन विना कृता ॥
”भूम्यादावागमः पूर्व्वपुरुषक्रमादागतभोगाद्-बलवान् । अतः क्रमागतभोग आगमाद्वलवान् ।तथा च बृहस्पतिः --“अनुमानाद्गुरुः साक्षी साक्षिभ्यो लिखितंगुरु ।अव्याहता त्रिपुरुषी भुक्तिस्तेभ्यो गरीयसी ॥
”त्रिपुरुषभोगमाह व्यासः --“प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तम् ।तौ विना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः ॥
पिता पितामहो यस्य जीवेच्च प्रषितामहः ।त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥
”आगमोऽपि बलवान्न भवति यत्र स्तोकापिभुक्तिर्नास्ति । तथा च नारदः ।“विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु ।विशेषतः स्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥
”इति दीपकलिका ॥
यत्र वादिन्यौ स्वस्वागमबलप्रवृत्तौ आगमयोश्चपूर्व्वापरभावो न निश्चीयते तत्र यस्य भुक्ति-स्तस्यागमो बलीयान् न त्वन्यस्येत्यर्थ इति मिता-क्षरा ॥
अर्थात् यत्रागमपौर्ब्बापर्य्यनिश्चयस्तत्र ।“सर्व्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।आधौ प्रतिग्रहे क्रीते पूर्व्वा तु बलवत्तरा ॥
”इति याज्ञवल्क्यवचनान्निर्णयः ॥
आगमस्त्विति आ सम्यग्गम्यते प्राप्यते स्वंभवति येन क्रयादिना स आगम इति व्यवहार-मातृका ॥
आगमः साक्षिपत्रादिकमिति याज्ञ-वल्क्यदीपकलिका ॥
आगमो धनोपार्ज्जनोपायःक्रयादिरिति मैथिलाः ॥
तत्रान्येनाभियुक्तआगमकर्त्ता तत्कूटतामुद्धरेत्तत्पुत्त्रपौत्त्रौ नाग-ममुद्धरेतां किन्तु भुक्तिरेव तत्र प्रमाणम् । विशे-षयति बृहस्पतिः ।“आहर्त्ता शोधयेद्भुक्तिमागमञ्चापि संसदि ।तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥
”इति शूलपाणिधृतम् ॥
तत्पुत्त्रादौ न किञ्चनेति मैथिलधृतम् ॥
आहर्त्ताअर्जनकर्त्ता । अत्र पुत्त्रस्य भुक्तिशोधनमात्रम् ।भुक्तिशोधनमाहतुर्व्यासकात्यायनौ ।“सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः ।प्रत्यर्थिसन्निधानञ्च पञ्चाङ्गो भोग इष्यते ॥
”प्रमाणमिति शेषः । सागमः क्रयादियुक्तः ।एष च भूमिविषयकविंशतिवर्षधनविषयकदश-वर्षान्यूनकालभोगपरः । योऽभिभुक्त इति योभोगे क्रियमाणे परेणाभियुक्तः परेतो मृतःस्यान्नागमसुद्धृतवान् तदा तत्पुत्त्रादिरेव तमु-द्धरेत् । तथाह नारदः ।“अथारूढविवादस्य प्रेतस्य व्यवहारिणः ।पुत्त्रेण सोऽर्थः संशोध्यो न तु भोगो निवर्त्तयेत् ॥
भोगः केवलभोगः । तथा च स एव । आदौतु कारणं दानं पश्चाद्भुक्तिस्तु सागमेति । एषस विवादभोगः षष्ट्यब्देतरपरः । तथाविध-भोगस्यागमं विनापि प्रामाण्यात् । तथा चव्यासः ।“वर्षाणि विंशतिं भुक्ता स्वामिनाव्याहता सती ।भुक्तिः सा पौरुषी भूमेर्द्विगुणा तु द्विपौरुषी ॥
त्रिपौरुषी तु त्रिगुणा न तत्रान्वेष्य आगमः ॥
”एतद्वचनमसमक्षभोगविषयकमिति समक्षविंश-तिवर्षभोगविषयकवचनेनाविरुद्धम् । एतादृक्-स्मृत्युक्तकाश एव कात्यायनः ।“स्मार्त्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।अस्मार्त्ते त्वागमाभावात् क्रमात्त्रिपुरुषागता ॥
”षष्टिवर्षैकपुरुषभुक्तौ त्रिपुरुषभुक्तिव्यपदेशस्यफलमाह न तत्रेत्यादि । अतएव नारदः ।“अन्यायेन तु यद्भुक्तं पित्रा पूर्व्वतरैस्त्रिभिः ।न तच्छक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतम् ॥
”अन्यायेनेत्यत्रानागममिति शूलपाणिधृतपाठः ।तुरप्यर्थः । पित्रा सह पितरमादा त्रिभि-रित्यर्थः । यत्तु ।“अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।चौरदण्डेन तं पापं दण्डयेदवनीपतिः ॥
”इति दण्डविधायकव्यासवचनं तद्धर्म्मशास्त्रविरो-धात् न मुख्यार्थपरम् । तदाह स एव ।“यत्र विप्रतिपत्तिः स्याद्धर्म्मशास्त्रार्थशास्त्रयोः ।अर्थशास्त्रार्थमुत्सृज्य धर्म्मशास्त्रार्थमाचरेत् ॥
”एवमेव शूलपाणिः । वस्तुतस्तु अनागममितिदण्डविधायकवचनं स्त्रीधननरेन्द्रधनपरम् ।“स्त्रीधनञ्च नरेन्द्राणां न कदाचन जीर्य्यति ।अनागमं भुज्यमानमपि वर्षशतैरपि ॥
”इति स्वत्वनिषेधकनारदवचनैकवाक्यत्वात् ।यत्र विप्रतिपत्तिः स्यादिति वचनस्याप्येतदुदा-हरणम् । यत्रैकस्य जयेऽवधार्य्यमाणे मित्र-लब्धिरपरस्य जयेऽवधार्य्यमाणे धनलब्धिस्तत्र ।“हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।अतो यतेत तत्प्राप्ताविति वेदविदां मतम् ॥
”इति याज्ञवल्क्योक्तार्थशास्त्रमुत्सृज्य क्रोध-लोभविवर्ज्जित इति धर्म्मशास्त्रमवलम्ब्य व्यव-हारं पश्येत् । अतएव ।“सभ्येनावश्यवक्तव्यं धर्म्मार्थसहितं वचः ॥
”इति कात्यायनोक्तमिति । भवदेवस्तु व्यासवच-नन्तु प्रतिवादिनोऽसन्निधाने पुरुषैकद्वयभोगा-भिप्रायं त्रैपुरुषिकभोगस्य तत्रापि प्रमाणत्वा-दित्याहुः ॥
अथ भुक्तिस्वत्वापवादः ।तत्र बृहस्पतिः ।“भुक्तिस्त्रैपुरुषी सिद्ध्येदपरेषां न संशयः ।अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति ॥
अस्वामिना च यद्भुक्तं गृहक्षेत्रापणादिकम् ॥
सुहृद्वन्धुसकुल्यस्य न तद्भोगेव हीयते ॥
विवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च ।सुदीर्घेणापि कालेन तेषां तत्तु न सिद्ध्यति ॥
”आपणो विक्रयस्थानम् । विवाह्यो जामाता ।इति च व्यवहारतत्त्वम् ॥
कृदन्तरूपमाला
Sanskrit1 {@“भुज पालनाभ्यवहारयोः”@} 2 अभ्यवहारः = भोजनम्।
‘भुजेद् भुनक्ति भुंक्ते स्युः, कौटिल्ये पालनेऽदने।’ 3 इति देवः।
4 भोजकः-जिका, भोजकः-जिका, 5 बुभुक्षकः-क्षिका, बोभुजकः-जिका
भोक्ता-भोक्त्री, भोजयिता-त्री, बुभुक्षिता-त्री, बोभुजिता-त्री
6 भुञ्जन्-ती, देवदत्तं यज्ञदत्तः- 7 भोजयन्-न्ती, बुभुक्षन्-न्ती
-- भोक्ष्यन्-न्ती-ती, भोजयिष्यन्-न्ती-ती, बुभुक्षिष्यन्-न्ती-ती
-- 8 भुञ्जानः, भोजयमानः, बुभुक्षमाणः, बोभुज्यमानः
भोक्ष्यमाणः, भोजयिष्यमाणः, बुभुक्षिष्यमाणः, बोभुजिष्यमाणः
हुतभुक्, हव्यभुक्, 9 बलिभुक्-बलिभुजौ- 10 बलिभुजः
-- -- भुक्तम्-भुक्तवान्, 11 प्रभुक्तः, भोजितः, बुभुक्षितः, बोभुजितः-तवान्
12 13 भोजः, 14 विश्वभोजः, 15 उष्णभोजी-शीतभोजी, 16 कलहभोजी, 17 अश्राद्धभोजी, कांस्यभोजी, 18 19 भुञ्जानः, भोजः, 20 बुभुक्षुः, बोभुजः
भोक्तव्यम्, भोजयितव्यम्, बुभुक्षितव्यम्, बोभुजितव्यम्
प्रनिभोजनीयम्-प्रणिभोजनीयम्, भोजनीयम्, बुभुक्षणीयम्, बोभुजनीयम्
21 भोज्यम्-भोग्यम्, भोज्यम्, बुभुक्ष्यम्, बोभुज्यम्
ईषद्भोजः-दुर्भोजः-सुभोजः
-- -- भुज्यमानः, भोज्यमानः, बुभुक्ष्यमाणः, बोभुज्यमानः
22 भुजः-भोगः, 23 भोगः, भोजः, बुभुक्षः, बोभुजः
भोक्तुम्, 24 भोक्तुं शक्नोति, भोजयितुम्, बुभुक्षितुम्, बोभुजितुम्
25 भुक्तिः, 26 भुजिः, अन्नभोजिका, भोजना, 27 बुभुक्षा, बोभुजा
भोजनम्, भोजनम्, बुभुक्षणम्, बोभुजनम्
भुक्त्वा, भोजयित्वा, बुभुक्षित्वा, बोभुजित्वा
उपभुज्य, उपभोज्य, प्रबुभुक्ष्य, प्रबोभुज्य
28 अग्रेभोजम्-भुक्त्वा, प्रथमं भोजं-भुक्त्वा, पूर्वं भोजं-भुक्त्वा वा व्रजति।
भोजम् २, भुक्त्वा २, भोजम् २, भोजयित्वा २, बुभुक्षम् २, बुभुक्षित्वा २, बोभुजम् २
बोभुजित्वा २
29 भुज्युः, 30 भुजिष्यम्-भुजिष्या।
01 (११६२)
02 (७-रुधादिः-१४५४। सक। अनि। पर।)
03 (श्लो। ६५)
04 [पृष्ठम्०९५७+ २५]
05 [[१। सन्नन्ते सर्वत्र ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, धातुजकारस्य षकारे, तस्य ‘षढोः कः सि’ (८-२-४१) इति ककारे च रूपनिष्पत्तिर्ज्ञेया।]]
06 [[२। शतरि, शपो रुधादित्वेन श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपे नकारस्य श्चत्वेन ञकारे च रूपमेवम्।]]
07 [[३। अभ्यवहारार्थे धातोरस्य ण्यन्तात्, ‘निगरणचलनार्थेभ्यः’ (१-३-८७) इति शतैव। ‘गतिबुद्धिप्रत्यवसानार्थ--’ (१-४-५२) इत्यादिना अणौ कर्तुः णौ कर्मसंज्ञाऽत्रेति विशेषः।]]
08 [[४। ‘भुजोऽनवने’ (१-३-६६) इत्यनेन अवनभिन्नार्थे आत्मनेपदं शानच्। ण्यन्तेऽपि पालनार्थे शानज्ज्ञेयः। सन्नन्तेऽपि पालनार्थे ‘पूर्ववत् सनः’ (१-३-६२) इति शानज्भवतीति बोध्यम्। धातूनामनेकार्थत्वात्, ‘भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी।’ (रामा-अर। ४७-४), ‘बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्।।’ (रघुवंशे। १५-१) इत्यादिषु, अनुभवार्थेऽपि आत्मनेपदं भवतीति बोध्यम्। स्पष्टमिदं माधवधातुवृत्तौ।]]
09 [[५। कर्मण्युपपदे ‘क्विप् च’ (३-२-७६) इति कर्तरि क्विप्। बलिभुक् = वायसः।]]
10 [[आ। ‘तूष्णीं प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान्।।’ अनर्घराघवे ४। १।]]
11 [[६। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति कर्तरि क्तः।’ ‘प्रभुक्तो गोरसं कृष्णः प्रभुक्तोऽनेन गोरसः।’ इति प्र। सर्वस्वे। अस्य धातोर्भक्षणार्थकत्वात् ‘क्तोऽधि- करणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणेऽपि क्तप्रत्ययो बोध्यः। प्रत्यवसानार्थकाः = भक्षणार्थका धातवः।]]
12 [पृष्ठम्०९५८+ २९]
13 [[१। इगुपधलक्षणं कप्रत्ययं बाघित्वा ‘अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।’ (का। ३-१-१३४) इति वचनात् कर्तरि अच्प्रत्ययः।]]
14 [[२। विश्वं भुनक्ति इति विश्वभोजः। ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्ययः।]]
15 [[३। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः। एवं शीतभोजी, कलहभोजी इत्यत्रापि ज्ञेयम्। कलहं भुनक्ति = पालयति इति कलहभोजी = नारदः।]]
16 [[आ। ‘… पुरतोऽभवत् कलहभोजिनो मुनेः।।’ च। भा। ५। ५३।]]
17 [[४। ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः। सति भोजनेऽश्राद्धमेव भुङ्क्ते इत्यत्र व्रतं गम्यते। एव कांस्यभोजी इत्यत्रापि व्रते गम्ये णिनिप्रत्यय इति ज्ञेयम्।]]
18 (भोगं)
19 [[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति चानश्प्रत्ययः। ताच्छीलि- कोऽयं प्रत्ययः।]]
20 [[B। ‘बलात् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा।।’ भ। का। ४। २।]]
21 [[६। ‘भोज्यं भक्ष्ये’ (७-३-६९) इति ण्यति कुत्वाभावो निपात्यते। ‘भक्ष्ये’ इत्यत्रोपल क्षणं खादनसामान्यधर्मस्य। तेन ‘भोज्या यवागूः’ इत्यत्र पानार्थकस्यापि भोज्या इति सिद्ध्यति। भक्षणादिभिन्नार्थे तु ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे भोग्यः = कम्बलः इति सिद्ध्यति।]]
22 [[७। ‘भुजन्युब्जौ पाण्युपतापयोः’ (७-३-६१) इति पाणावभिधेये घञि कुत्वाभावः, गुणाभावश्च निपात्यते। भुज्यतेऽनेनेति भुजः = पाणिः। ‘बाहावभिधेये भुज इति प्रयोगो लाक्षणिकः।’ इति बृहच्छब्देन्दुशेखरे स्फुटम्। भुजादन्यत्र घञि कुत्वे भोगः = शरीरम्।]]
23 [[८। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। भोगः = स्त्रीभोगाज्जातोऽक्षिरोगविशेषः। कारणे कार्योपचारोऽत्र। भोगः = सर्पकायश्च।]]
24 [[९। पूर्वकालत्वाभावेऽपि शक्नोत्यर्थे ‘शकधृषज्ञा--’ (३-४-६५) इति तुमुन्प्रत्ययः।]]
25 [पृष्ठम्०९५९+ २६]
26 [[१। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक्प्रत्ययः। अन्नभोजिका इत्यत्र उत्पत्तिरूपार्थे ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति स्त्रियां ण्वुच्। ‘पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका।।’ इति प्र। सर्वस्वे।]]
27 [[आ। ‘अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया।।’ भ। का। ७। ८४।]]
28 [[२। ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (३-४-२४) इति अग्रेप्रथमपूर्वशब्देषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ विकल्पेन भवतः।]]
29 [[३। ‘भुजिमृङ्भ्याम्--’ (द। उ। १-१३५) इति युक्प्रत्ययः। भुज्युः = गन्धर्वः।]]
30 [[४। ‘रुचिभुजिभ्यां किष्यन्’ (द। उ। ८-१५) इति किष्यन्प्रत्ययः। भुजिष्यम् = भोग्यम्। भुजिष्या = दासी।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
