| YouTube Channel

भुक्तं (bhuktaM)

 
शब्दकल्पद्रुमः
Sanskrit
भुक्तं, त्रि, (भुज् + कर्म्मणि क्तः ।) भक्षितम् ।इत्यमरः ११
(यथा, मनुः ५५ ।“पूजितं ह्यशनं नित्यं बलमूर्ज्जञ्च यच्छति ।अपूजितन्तु तद्भुक्तमुभयं नाशयेदिदम्
”उपभुक्तम् यथा, रघुः ।“मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।तथाप्यनन्यपूर्व्वेव तस्मिन्नासीद्वसुन्धरा
”भावे क्तः ।) भक्षणे, क्ली इति त्रिकाण्डशेषः
(यथा, रामायणे ५८ १२ ।“आसितं शयितं भुक्तं सूत ! रामस्य कीर्त्तय ।जीविष्याम्यहमेतेन ययातिरिव साधुषु
”)