| YouTube Channel

भीष्माष्टमी (bhISmASTamI)

 
Spoken Sanskrit
English
भीष्माष्टमी bhISmASTamI
f.
8th day in the light half of the month mAgha
Monier Williams Cologne
English
भीष्माष्टमी
f.
the 8th day in the light half of the month Māgha (when there is a festival sacred to Bhīṣma),
W.
Indian Epigraphical Glossary
English
Bhīṣmāṣṭamī (IA 17), Māgha su-di 8 or amānta Māgha
(i. e. pūrṇimānta Phālguna) va-di 8.
Wordnet
Sanskrit
Synonyms:
भीष्माष्टमी
noun
माघमासस्य शुक्लपक्षे वर्तमाना अष्टमी।
"भीमाष्टम्यां भीष्मेन प्राणाः त्यक्ताः।"
शब्दकल्पद्रुमः
Sanskrit
भीष्माष्टमी,
स्त्री,
(भीष्मस्य अष्टमी भीष्मनाशिकाअष्टमी वा ।) माघशुक्लाष्टमी तत्र भीष्मस्यतर्पणादिकं कर्त्तव्यम् यथा, भविष्योत्तरे ।“शुक्लाष्टम्यान्तु माघस्य दद्याद्भीष्माय यो जलम् ।संवत्सरकृतं पापं तत्क्षणादेव नश्यति
”धवलधृता स्मृतिः ।“अष्टम्यान्तु सिते पक्षे भीष्माय तु तिलोदकम् ।अन्नञ्च विधिवद्दद्युः सर्व्वे वर्णा द्विजातयः
”सर्व्वे वर्णा इत्युपादानात् ब्राह्मणशूद्रयोरप्पधि-कारः द्विजातय इति सम्बोधनम्
स्मृति-रत्नाकरे विष्णुधर्म्मोत्तरम् ।“मध्याह्नव्यापिनी ग्राह्या श्राद्धे भीष्माष्टमीतिथिः ।स्नाने तर्पणे दाने ग्राह्या सूर्य्योदयी परा
यदा कदाचित् कुम्भांशं गता सूर्य्योदयी परा ।पूर्व्वस्यामेव कर्त्तव्यं तर्पणं श्राद्धमेव
यदैकस्मिन् भवेन्मासि कदाचिन्माकरी द्वयम् ।भीष्माष्टमी द्बयं वापि तदा ग्राह्या परा तिथिः
व्राह्मणस्त्वन्यवर्णानां यः करोत्यौर्द्ध्वदेहिकम् ।तद्वर्णत्वमसौ याति इह लोके परत्र
”इति मरीचिवचनन्तु भीष्मकृत्येतरपरम्
तथा स्मृतिः ।“ब्राह्मणाद्यास्तु ये वर्णा दद्युर्भीष्माय नो जलम् ।संवत्सरकृतं पुण्यं तत्क्षणादेव नश्यति
असवर्णजलदाननिषेधस्तु प्रकरणवलादपिभ्रात्रादिविषय इति श्रीदत्तः
तर्पणमन्त्रस्तु ।“वैयाघ्रपद्यगोत्राय सांकृतिप्रवराय ।अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे
भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम्
”इत्याशंसामन्त्रः पुत्त्रपौत्त्रोचितामित्यभिधानात्पितृकर्म्मरीत्या ब्राह्मणः पितृतर्पणानन्तरंक्षत्त्रियस्तु तत्पूर्व्वं तर्पयेत् इति संवत्सर-प्रदीपादयः
इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
भीष्माष्टमी स्त्री त० भीष्मस्य देहत्यागदिवसे माघस्यशुक्लाष्टम्याम् अतस्तस्मिन् दिने सर्ववर्णैस्तस्य तर्पणं का-र्य्यम् यथोक्तं ति० त० मविष्योत्तरे “शुक्लाष्ट-म्यान्तु माघस्य दद्याद् भीष्माय यो जलम् ।संवत्सरकृतं पापं तत्क्षणादेव नश्यति” घबल-धृता स्मृतिः “अष्टम्यान्तु सिते पक्षे भीष्माय सतिलो-दकम् अन्नञ्च विधिवद्दद्युः सर्वे वर्णा द्विजातयः” ।सर्वे इत्युपादानात् ब्राह्मणशूद्रयोरप्यधिकारः द्वि-जातय इति सम्बोधनम् “ब्राह्मणस्त्वन्यवर्णानां यःकरोत्यौर्द्धदेहिकम् तद्वर्णत्वमसौ याति इह लोके प-रत्र च” इति मरीचिवचनन्तु भीष्मकृत्येतरपरम् ।तथा स्मृतिः “ब्राह्मणाद्यास्तु ये वर्णा दद्युर्भीष्मायनो जलम् संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम!” ।असवर्णजलदाननिषेधस्तु प्रकरणादपि भ्रात्रादिविषयइति श्रीदत्तः “आभिरद्भिवराप्नोतु पुत्रपौत्रोचितांक्रियाम्” इत्याशंसामन्त्रे पुत्रपौत्रीचितामित्यभिधानात्पितृकर्मरीत्या तच्च कर्त्तव्यम् ब्राह्मणः पितृतर्पणानन्तरंक्षत्रियादिकस्तु तत् पूर्वं तर्पयेत् इति संवत्सरप्रदी-पादयः अत्र वीज वर्णज्यैष्ठ्यम्” रघु०