| YouTube Channel

भीष्मरत्नं (bhISmaratnaM)

 
शब्दकल्पद्रुमः
Sanskrit
भीष्मरत्नं,
क्ली,
(भीष्मं भयानकं रत्नं दुर्लभत्वात् ।)हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषः ।तस्योत्पत्त्यादि यथा, --सूत उवाच ।“हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य ।सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम्
शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाःप्रभावन्तः ।प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ।हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः ।भीष्ममणिं ग्रीवादिषु सम्पदं सर्व्वदा लभते
गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव ! ।विषाणि तानि नश्यन्ति सर्व्वाण्येव महीतले
”विषमानाबाधन्ते ये तमरण्यनिवासिनः समी-पेऽपि ।द्वीपिवृक्षशरभकुञ्जरसिंहव्याध्रादयो हिंस्राः
तस्योत्कवलितकृतिनो भवन्ति भयं चापिसमुपस्थितम् ।भीष्ममणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गुलित्रितयः ।पितृतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति
शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिक-विषाणि ।सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति
सैबलबलाहकाभं परुषं पीतप्रभं प्रभाहीनम् ।मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्राज्ञः
मूल्यं प्रकल्प्यमेषां विबुधवरैर्देशकालविज्ञानात् ।दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम्
”इति गारुडे भीष्मरत्नपरीक्षा नाम ७६ अः