| YouTube Channel

भीष्मपञ्चकं (bhISmapaJcakaM)

 
शब्दकल्पद्रुमः
Sanskrit
भीष्मपञ्चकं,
क्ली,
(भीष्मेण कृतमुपदिष्ठं वा पञ्चकंएकादश्यादिपूर्णिमान्तपञ्चतिथिकर्त्तव्यम् ।)कार्त्तिकशुक्लपक्षीयैकादश्यादिपूर्णिमान्तपञ्च-तिथिकर्त्तव्यव्रतविशेषः यथा, --श्रीनारद उवाच ।“भगवन् ! यत् त्वया प्रोक्तं भीष्मस्य दिनंमहत् ।माहात्म्यं श्रोतुमिच्छामि तस्य मे कथय प्रभो !
कथं स्नानञ्च किं दानं को विधिः कस्य पूजनम् ।किं फलं केन वाकारि तन्मे कथय विस्तरात्
”ब्रह्मोवाच ।तद्भीष्मपञ्चकस्येदं माहात्म्यं विधिपूर्व्वकम् ।वक्ष्यामि फलसंयुक्तं येनेदञ्च कृतं पुरा
अयोध्या नगरी या कलिकल्मषनाशिनी ।वैष्णवी स्वर्गरम्या कलिकल्मषनाशिनी
हस्त्यश्वरथपत्त्याठ्या विष्णुचक्रप्रतिष्ठिता ।तस्यामासीन्नरवरः सूर्य्यवंशोद्भवो मुने !
अतिथिर्नाम देवर्षे ! धर्म्मात्मा नैकयज्ञकृत् ।तेन दत्तं पुरा राज्ञा कृतं यज्ञमनूत्तमम्
भार्य्यया चन्द्रभाविन्या सार्द्ध्वं भीष्मस्य पञ्चकम् ।चिकीर्षः परिपप्रच्छ वशिष्ठं तद्विधिं द्बिज !
”वशिष्ठ उवाच ।“शृणु राजन् ! प्रवक्ष्यामि व्रतं सौभाग्य-दायकम् ।रहस्यं भीष्मपञ्चाख्यं विष्णुतुष्टिप्रदायकम्
कार्त्तिके मासि राजेन्द्र ! प्रारभ्यैकादशीतिथिम् ।यावत् पञ्चदशी रम्या भविता चन्द्रपूर्णिता ।पञ्चभीष्ममिति ख्यातं तिथयः पुण्यदाः स्मृताः
प्रातःकाले समुत्थाय शौचं कृत्वा यथाविधि ।स्नात्वा सभार्य्यः पुरुषो नद्यादौ विमले जले
तर्पयेद्भीद्मवर्म्माणं कुरुवंशपितामहम् ।पितृभिस्तिलयुक्तैश्च जलाञ्जलिभिरुद्धृतैः
वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय ।तिलतोयाञ्जलिं तस्मै प्रयच्छेद्भीष्मवर्म्मणे
सन्तर्प्य कौरवश्रेष्ठं कुर्य्यादाचमनं ततः ।अर्च्चयित्वा विधानेन चन्दनादिभिरावृतः ।अर्घ्यं दद्याद्यतात्मा मन्त्रेणानेन भूपते !
बसूनामवताराय शान्तनोरात्मजाय ।अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे
इत्थं समापयेद्वतृस ! भीष्मपञ्चविधिं नरः ।नियमेनोपवासेन पञ्चगव्येन वा पुनः
पयोमूलफलाहारैर्हव्यैर्नानाविधैरपि ।नरो वा यदि वा नारी मुक्तपापो दिवं व्रजेत्
भुङ्क्ते विपुलान् भोगान् कार्त्तिकं नत्यजेद्धि यः ।अतोऽशक्तो नयेत् पञ्चभीष्माख्यं हरिपूर्णितम्
श्रुत्वैतद्विष्णुभक्तोऽसौ भक्त्या त्वचलया सह ।दम्पती यथा भीष्मं लब्ध्वा तौ तु महाफलम्
स्वल्पायासेन विप्रेन्द्र ! कृतं ताभ्यां हि तत् पुरा ।प्राप्तं राज्यं महीमेतां समुद्रवलयान्विताम्
प्रभुज्य प्रचुरान् कामान् व्रतकामौ यथा मुने ! ।दिव्याम्बराभरणौ तौ दिव्यमाल्यानुलेपितौ
दिव्यदेहविमानेन सर्व्वकिन्नरसेवितौ ।अप्सरोगीतनृत्येन स्तुतौ देवमहर्षिभिः ।सम्प्राप्तौ विष्णुलोकञ्च भीष्मपञ्चव्रतान्मुने !
”ब्रह्मोवाच ।“इत्येतत् कथितं वत्स ! माहात्म्यं कात्तिको-द्भवम् ।भीष्मपञ्चकमाहात्म्यं सेतिहासं पुरातनम्
तत् सर्व्वं कुरु विप्रेन्द्र ! यदि ते भक्तिरच्युते ।निश्चलः कायमनसा वचसा सुमनीभव
”“शृण्वन्ति मर्त्याश्च पठन्ति ये वैभूखण्डमध्ये भगवद्गुणान् मुने ! ।मतिञ्च लब्ध्वा भगवत्यशेषतःकथामुपेन्द्रस्य पुरं प्रयान्ति
”कलिमलमपहृत्य प्राणिनो देवदेवंसुभगसकलभोगान् भोजयित्वा यान्ति ।हरिपुरममरेशैर्गीतवाद्यैर्विशालै-र्विहितसकलकृत्यास्तोषयन्ते हरिं ये
एतत् कार्त्तिकमाहात्म्यं भक्त्या यः शृणुयान्नरः ।सर्व्वपापविनिर्म्मुक्तः कृष्णे लभते रतिम्
”इति पाद्मोत्तरखण्डे कार्त्तिकमहात्म्ये १३२अध्यायः
अपि ।“सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने ।चातुर्म्मास्ये ततस्तस्मात् कार्त्तिके भीष्मपञ्चकम्
ततः श्रेष्ठतमं शुक्ल एकादश्यां समाचरेत् ।स्नायात्त्रिकालं पित्रादीन् यवाद्यैरर्च्चयेद्धरिम्
यजेन्मौनी घृताद्यैस्तु पञ्चगव्येन वारिभिः ।स्नापयित्वाथ कर्पू रमुखैश्चैवानुलेपयेत्
घृताक्तगुग्गुलोर्धूपं द्विजः पञ्चदिनं दहेत् ।नैवेद्यं परमान्नन्तु जपेदष्टोत्तरं शतम्
ओँ नमो वासुदेवाय घृतव्रीहितिलोदकम् ।षडक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत्
प्रथमेऽह्नि हरेः पादौ यजेत् पद्मैर्द्वितीयके ।विल्वपत्रैर्जानुदेशं नाभिं भृङ्गेण चापरे
स्कन्धौ विल्वैर्जवाभिश्च पञ्चमेऽह्नि शिरोऽर्च्चयेत् ।मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात्
गोमूत्रक्षीरदधि पञ्चमे पञ्चगव्यकम् ।नक्तं कुर्य्यात् पञ्चदश्यां व्रती स्याद्भुक्तिमुक्ति-भाक्
”इति गारुडे भीष्मपञ्चादिव्रतं नाम १२३ अध्यायः
वकपञ्चकम् यथा, --“आरभ्यैकादशीं पञ्च दिनानि व्रतमाचरेत् ।भगवत् प्रीतये भीष्मषञ्चकं यदि शक्रुयात्
तथा धात्रीव्रतं पौर्णमास्यां कुर्व्वीत कार्त्तिके ।तथा नवम्वां शुक्लायामक्षयं नवमीव्रतम्
पैतामहादिकृच्छ्राणि मासोपोषणमेव ।समर्थः कार्त्तिके कुर्य्यात् ज्ञात्वा पाद्मादितोविधिम्
”इदि श्रीहरिभक्तिविलासे १६ विलासः