| YouTube Channel

भीमसेनः (bhImasenaH)

 
Apte Hindi
Hindi
भीमसेनः
पुं*
भीम+सेनः -
द्वितीय पांडव राजकुमार
भीमसेनः
पुं*
भीम+सेनः -
एक प्रकार का कपूर
Wordnet
Sanskrit
Synonyms:
भीमसेनः
noun
महाभारते वर्णितः एकः राजा
"दमयन्ती भीमसेनस्य पुत्री"
Synonyms:
भीमसेनः, भीमः, वीरवेणु, वृकोदरः, बकजित्, किचकजित्, कटव्रणः, नागबलः, गुणाकरः, जरासन्धजित्, हिडिम्बजित्, जयन्तः
noun
युधिष्ठिरस्य अनुजः तथा अर्जुनस्य अग्रजः।
"भीमसेनः बलशाली आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
भीमसेनः,
पुं,
मध्यमपाण्डवः कुन्तीगर्भेपवनाज्जातः तत्पर्य्यायः भीमः वीरवेणुः३ वृकोदरः वकजित् कीचकजित् ६किर्म्मरिजित् जरासन्धजित् हिडिम्बजित्९ कटव्रणः १० नागबलः ११ गुणाकरः १२ ।इति शब्दरत्नावली
तस्य जन्मविवरणं यथा, “धार्म्मिकस्तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् ।प्राहुः क्षात्त्रं बलं ज्येष्ठं बलज्येष्टं सुतं वृणु
ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा ।तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः
तमप्यतिबलं जातं वागुवाचाशरीरिणी ।सर्व्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत !
इदमत्युद्भुतञ्चासीज्जातमात्रे वृकोदरे ।यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत्
कुन्ती व्याध्रभयोद्विग्ना सहसोत्पतिता किल ।नान्बबुध्यत तं सुप्तमुत्सङ्गे स्वे वृकोदरम्
वज्रसंहननः सोऽथ कुमारो न्यपतद्गिरौ ।पतता तेन शतधा शिला गात्त्रैर्विचूर्णिता
”इति महाभारते आदिपर्व्वणि पाण्डवोत्पत्ति-नामाध्यायः
(गन्धर्व्वविशेषः यथा, महाभारते १२३ ५२ ।भीमसेनोग्रसेनौ ऊर्णायुरनघस्तथा
”)कर्पूरभेदः यथा, --“पोतासो भीमसेनस्तदनुशितकरः शङ्करा-वाससंज्ञःपांशुः पिञ्जोऽब्जसारस्तदनु हिमयुता वालुकाजूटिका ।पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलःपत्रिकाख्याकर्पूरस्येति भेदा गुणरसमहसा वैसदृश्येनदृश्याः
”इति राजनिर्घण्टः