| YouTube Channel

भिन्नः (bhinnaH)

 
Apte Hindi
Hindi
भिन्नः
पुं*
- "भिद्+क्त, तस्य नः"
किसी रत्न में दोष या खोट
Kridanta Forms
Sanskrit
भिद् (भि॒दिँ॑र् विदारणे - रुधादिः - अनिट्)
ल्युट् = भेदनम्
अनीयर् = भेदनीयः - भेदनीया
ण्वुल् = भेदकः - भेदिका
तुमुँन् = भेत्तुम्
तव्य = भेत्तव्यः - भेत्तव्या
तृच् = भेत्ता - भेत्त्री
क्त्वा = भित्त्वा
ल्यप् = प्रभिद्य
क्तवतुँ = भिन्नवान् - भिन्नवती
क्त = भिन्नः / भित्तः - भिन्ना / भित्ता
शतृँ = भिन्दन् - भिन्दती
शानच् = भिन्दानः - भिन्दाना
Tamil
Tamil
பி4ன்ன: : துண்டாக்கப்பட்ட, உடைக்கப்பட்ட, பிரிக்கப்பட்ட, தனியான, விரிந்த, இல்லாதுபோன, பலவிதமான.
शब्दकल्पद्रुमः
Sanskrit
भिन्नः, त्रि, (भिद्यते स्मेति भिद् + क्तः ।) भेद-विशिष्टः भाङ्गा इति भाषा तत्पर्य्यायः ।दारितः भेदितः इत्यमरः १००
विदारितः इति शब्दरत्नावली
(यथा, हरिवंशे भविष्यपर्व्वणि ५३ १६ ।“भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बहुनिःसृतम् ।आकरं विकरं भिन्नं निर्मर्यादममानुषम्
”)सङ्गतः अन्यः फुल्लः इति मेदिनी ने, १४
क्षतरोगविशेषः तल्लक्षणं यथा, --“शक्तिकुन्तेषु खड्गाग्रविषाणैराशयो हतः ।यत्किञ्चित् प्रस्रवेत्तद्धि भिन्नमित्यभिधीयते
”आशयः कोष्ठः तस्यौषधं यथा, --“छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् ।रक्तक्षयात्तत्र रुजः करोति पवनो भृशम्
स्नेहपानपरीषेकलेपांस्तत्रोपनाहनम् ।कुर्व्वीत स्नेहवस्तिञ्च मारुतघ्नौषधैर्भिषक्
खड्गादिच्छिन्नगात्रस्य तत्कालं पूरितो व्रणः ।गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः
कषायमधुराः शीताः क्रियाः सर्व्वाः प्रयोजयेत् ।सद्यो ब्रणानां सप्ताहात् पश्चात् पूर्व्वोक्त-माचरेत्
आमाशयस्थे रुधिरे विदध्याद्वमनं नरः ।तस्मिन् पक्वाशयस्थे तु गृह्णीयात् सविरेचनम्
क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ।हिङ्गुसैन्धवसंयुक्तः कोष्टस्थं स्रावयेदसृक्
यवकोलकुलत्थानां निःस्नेहेन रसेन ।भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम्
जातीनिम्बपठोलपत्रकटुकादार्व्वीनिशाशारिवामञ्जिष्ठाभयतिक्ततुत्थमधुकैर्नक्ताह्वबीजैः समैः ।सर्पिःसिद्धमनेन सूक्ष्मवदना मर्म्माश्रिताःस्राविणोगम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्तिरोहन्ति
वृद्धवैद्योपदेशेन पारम्पर्य्योपदेशतः ।जातीघृते तु संसिद्धे क्षेप्तव्यं सिक्थकं बुधैः
”जात्यादिघृतम् इति भावप्रकाशः
*
(अथोपाङ्गचिकित्सा ।“छिन्नं भिन्नं तथा भग्नं क्षतं पिच्छितमेवच
दग्धन्तेषां प्रतीकारः प्रोक्तश्चोपाङ्गसंज्ञकः
”इति हारीते प्रथमे स्थाने द्वितीयेऽध्याये
)