| YouTube Channel

भिदिँर् (bhidi~r)

 
धातुप्रदीपः
Sanskrit
भिदिर् विदारणे
- भिनत्ति भिन्ते अभिदत् अभैत्सीत् अभित्त भिदा भेदः भित्तिः 2
क्षीरतरङ्गिणी
Sanskrit
भिदिर् विदारणे
- भिनत्ति, भिन्ते अभिदत् अभैत्सीत् अभित्त भेत्ता भित्तं शकलम् (8259), भिन्नमन्यत् भिद्योद्धयौ नदे (31115) काष्ठभित् विदिभिदिछिदेः कुरच् (32162)-भिदुरं पविः भित्तिः कृतिभिदिलतिभ्यः कित् (उ0 3147)-भित्तिका कॄगॄशॄपॄकुटि (उ0 4143) इतीः-भिदिर्वज्रम् कर्मकर्तरि केलिमः (द्र0 3196 का0) भिदेलिमं काष्ठम् रक् (द्र0 उ0 213)-भिद्रम् इषितिमि (द0 उ0 826 कपाठः) इति किरच्-भिदिरम् भिदादौ (33104 गणसूत्र) भिदा विदारणे 2
धातुवृत्तिः
Sanskrit
भिदिर् (अर्थः) विदारणे
(भिनत्ति भिन्तः भिन्दन्ति भिनत्सि भिन्थः भिन्थ भिनद्मि मिन्द्वः भिन्द्मः बिभेद बिभिदतुः बिभिदुः बिभेदिथ बिभिदिव भेत्ता भेत्स्यति भिनत्तु भिन्तात् भिन्ताम् भिन्दन्तु भिन्धि भिनदानि अभिनत् अभिन्ताम् अभिन्दन् अभिनः अभिनतम् अभिन्त अभिनदम् अभिन्द्व भिन्द्यात् भिन्द्याताम् भिन्द्याः भिन्द्याम् ) आशिषि भिद्यात् भिद्यास्ताम् ) लुङि ( अभिदत् अभिदताम् अभैत्सीत् अभैत्ताम् भिन्ते भिन्त्से भिन्देबिभिदे बिभिदिषे भेत्ता भेत्स्यते भिन्ताम् भिन्दाताम् भिन्त्स्व भिनद अभिन्त अभिन्दाताम् अभिन्दत अभिन्त्थाः अभिन्दि भिन्दीत ) आशिषि ( भित्सीष्ट अभित्त अभित्साताम् बिभित्सति बिभित्सते बेभिद्यते बेभिदीति बेभेत्ति भेदयति अबीभिदत् ) सर्वत्र रुधिवत्प्रकिया भिदेलिमानि काष्ठानि [ केलिमर उपसंख्यानम् ] इति केलिमर् अयं कर्मकर्तरि, ( भिद्यो नदः ) "भिद्योध्यौ नदे'' इति कर्तरि क्यपि निपात्यते कर्तर ( काष्ठभित् प्रभित् ) "सत्सूद्विष'' इत्यादिनाक्विप् ( भिदुरं काष्ठम् ) "विदिभिदिच्छिदेः कुरच्'' इति कुरच् स्वभावादयं कर्मकर्तरि ( भिदा ) भिदादित्वादङ् तत्र भिदा विदारणे इतिपाठादन्यत्र भित्तिरिति भवति ( भित्तम् ) "भित्तं शकलम्'' इति शकले निष्ठानत्वाभावादन्यत्र भिन्नमिति भवति ( भिदिरं वज्रम् ) "इषिमदि'' इत्यादिना किरच् ( उद्भित् ) क्विप (उद्भिदः) इगुपधलक्षणः कः 2