| YouTube Channel

भिक्षकः-क्षिका (bhikSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भिक्ष भिक्षायाम् अलाभे लाभे च”@} 2 3 क्षीरस्वामी तु ‘भिक्ष याच्ञायाम्, अलाभे लाभे च, क्लेशे च, व्यक्तायां वाचि’ इत्युपादाय, ‘तत्तद्देशादिप्रसिद्धार्थानां पृथङ्निर्देशः।’ इति तत्रोपपत्तिमप्याह।
प्रसिद्धेषु धातुपाठकोशेषु क्लेशधातुः पृथगेव पठ्यते, तु भिक्ष- धातोरर्थत्वेन।
स्पष्टमिदं माधवधातुवृत्त्यादिषु प्रकृतस्थले।
अतोऽत्रास्मा- भिरपि क्लेशार्थकत्वमस्य नोपक्षिप्तमिति ज्ञेयम्।]] ‘--याच्ञायाम्…’ इति सर्वेषु कोशेषु दृष्टः पाठः।
भिक्षकः-क्षिका, भिक्षकः-क्षिका, बिभिक्षिषकः-षिका, बेभिक्षकः-क्षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकधिक्षतिवत् 4 ज्ञेयानि।
5 भिक्षाकः, 6 भिक्षुः 7, 8 तण्डुलभिक्षः, इत्यादीनि रूपाणि अस्य धातोः 9 10 विशेषेण भवन्तीति विशेषः।
11 भिक्षमाणः।
प्रासङ्गिक्यः
01
=>
(११५९)
02
=>
(१-भ्वादिः-६०६। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(८९८)
05
=>
[[६। ‘जल्पभिक्ष--’ (३-२-१५५) इत्यनेन तच्छीलादिषु कर्तृषु षाकन्प्रत्यये रूपमेवम्। षित्त्वात् स्त्रियां ङीषि भिक्षाकी इति भवति। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति प्राप्तस्य युचोऽपवादोऽयम्।]]
06
=>
[[७। तच्छीलादिषु कर्तृषु ‘सनाशंस भक्ष उः’ (३-२-१६८) इति उप्रत्ययः। ताच्छी लिकेषु वाऽसरूपविधिर्नास्ति।’ इति, अत्रैव सूत्रे (३-२-१६८) भिक्षधातोः ‘ताच्छी- लिकप्रत्ययविधायकस्थले पुनरुपादानात् ज्ञाप्यते इति बोध्यम्।]]
07
=>
[[E। ‘… संवृक्ष्यवेदमतशिक्षकभिक्षुगम्यम्।’ धा। का। १। ७७।]]
08
=>
[[८। ‘कर्मण्यण्’ (३-२-१) इति कर्मण्युपपदे अण्प्रत्ययः।]]
09
=>
[[ड्। ‘वज्रप्रभोद्भासिसुरायुधश्रीः या देवसेनेव परैरलङ्घ्या।।’ शि। व। ३। ६४।]]
10
=>
[पृष्ठम्०९५२+ २५]
11
=>
[[आ। ‘संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्।’ भ। का। ६। ९।]]