| YouTube Channel

भिक्ष (bhikSa)

 
Yates
English
भिक्ष_ (ङ) भिक्षत 1.
d. To beg, to
get
to fail to get
to be weary.
Wilson
English
भिक्ष r. 1st cl. (भिक्षते)
1 To beg.
2 To obtain.
3 To fail of obtaining.
4 To solicit any thing through cupidity or covetousness.
5 To be weary or distressed.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भिक्ष्
मूलधातुः:
भिक्ष
धात्वर्थः:
भिक्षायाम्
गणः:
भ्वादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
भिक्षते
धातुप्रदीपः
Sanskrit
भिक्षँ भिक्ष याच्ञायां, लाभे, ऽलाभे
- भिक्षते भिक्षा ।भिक्षुः भिक्षासमूहे भिक्षादिभ्योऽण् (4/2/38) भैक्षत् ।। 606 ।।
शब्दकल्पद्रुमः
Sanskrit
भिक्ष, लाभार्थलोभोक्तिक्लिशि इति कवि-कल्पद्रुमः
(भ्वा०-आत्म०-याचने द्विक०-लाभेलोभोक्तौ सक०-क्लिशि अक०-सेट् ।) अर्थोयाचनम् लोभादुक्तिर्लोभोक्तिः ङ, भिक्षतेभूमिं नृपात् पण्डितः लभत इत्यर्थः भिक्षतेदातारं धनं भिक्षुः याचत इत्यर्थः भिक्षतेदातारं दीनः लोभाद्वदतीत्यर्थः भिक्षतेजनः क्लिश्यतीत्यर्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
भिक्ष लोभे लाभायोक्तौ
सक०
याचने द्विक० क्लेशे अक०भ्वा० आत्म० सेट् भिक्षते अभिक्षिष्ट विभिक्षे
क्षीरतरङ्गिणी
Sanskrit
भिक्षँ भिक्ष याच्ञायाम् , अलाभे, लाभे
- 400। क्लेशे व्यक्तायां वाचि तत्तद्देशादिप्रसिद्धार्थानां पृथङ्निर्देशः भिक्षते जल्पभिक्ष (3268) इति षाकन्-भिक्षाकः भिक्षाकी सनाशंस (32168) इत्युः-भिक्षुः क्लेशे चेति सभ्याः पृथक् पेठुः, तथा क्लेश भाषण इति चान्द्रं सूत्रम् (चा0 धा0 1445) क्लेश बाधन इति दौर्गम् क्लेशते क्लेशितः दिवादौ (तु0 450) क्लिश्यति क्र्यादौ (954) क्लिश्नाति चुरादौ क्लेशयति 601
धातुवृत्तिः
Sanskrit
भिक्षँ भिक्ष (अर्थः) भिक्षायाम्, अलाभे, लाभे
( भिक्षते ) इत्स्यादि पूर्ववत् अयं द्विकर्मकः, तत्राप्रधाने दुहादीनामिति वचनात् लकृत्यखलर्था अप्रधाने भवन्ति ( पौवो गां भिक्ष्यते भिक्षितव्यः भिक्षितः सुभिक्ष इत्यादि ) षष्ठी तु द्वितयावदुभयत्र भवति (भिक्षिता गौः पौवस्येति) अप्रधाने तूभयथा गोणिकापुत्र इति भाष्य उक्तत्वात् पौरवमिति द्वितीयापि भवति ( भिक्षितवयो राजा देवदत्तेन ) इत्यत्रानभिहिते कर्मणि कर्त्तरि "कर्तृकर्म्मणोः'' इति षष्ठ्या उभयप्राप्तौ कृति प्रतिषेध इत्युक्तत्वात् भ्वति सर्वमेतन्नाथतावुपपादितं तत एवावगन्तव्यम् ( भिक्षुः ) "सनाशंसभिक्षउः'' इति ताच्छीलिक उप्रत्ययः ( भक्षाकः ) "जल्पभिक्षः'' इति षाकन् षित्त्वात् स्त्रियां ( भिक्षाकी ) 598
कृदन्तरूपमाला
Sanskrit
1 {@“भिक्ष भिक्षायाम् अलाभे लाभे च”@} 2 3 क्षीरस्वामी तु ‘भिक्ष याच्ञायाम्, अलाभे लाभे च, क्लेशे च, व्यक्तायां वाचि’ इत्युपादाय, ‘तत्तद्देशादिप्रसिद्धार्थानां पृथङ्निर्देशः।’ इति तत्रोपपत्तिमप्याह।
प्रसिद्धेषु धातुपाठकोशेषु क्लेशधातुः पृथगेव पठ्यते, तु भिक्ष- धातोरर्थत्वेन।
स्पष्टमिदं माधवधातुवृत्त्यादिषु प्रकृतस्थले।
अतोऽत्रास्मा- भिरपि क्लेशार्थकत्वमस्य नोपक्षिप्तमिति ज्ञेयम्।]] ‘--याच्ञायाम्…’ इति सर्वेषु कोशेषु दृष्टः पाठः।
भिक्षकः-क्षिका, भिक्षकः-क्षिका, बिभिक्षिषकः-षिका, बेभिक्षकः-क्षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकधिक्षतिवत् 4 ज्ञेयानि।
5 भिक्षाकः, 6 भिक्षुः 7, 8 तण्डुलभिक्षः, इत्यादीनि रूपाणि अस्य धातोः 9 10 विशेषेण भवन्तीति विशेषः।
11 भिक्षमाणः।
प्रासङ्गिक्यः
01
=>
(११५९)
02
=>
(१-भ्वादिः-६०६। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(८९८)
05
=>
[[६। ‘जल्पभिक्ष--’ (३-२-१५५) इत्यनेन तच्छीलादिषु कर्तृषु षाकन्प्रत्यये रूपमेवम्। षित्त्वात् स्त्रियां ङीषि भिक्षाकी इति भवति। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति प्राप्तस्य युचोऽपवादोऽयम्।]]
06
=>
[[७। तच्छीलादिषु कर्तृषु ‘सनाशंस भक्ष उः’ (३-२-१६८) इति उप्रत्ययः। ताच्छी लिकेषु वाऽसरूपविधिर्नास्ति।’ इति, अत्रैव सूत्रे (३-२-१६८) भिक्षधातोः ‘ताच्छी- लिकप्रत्ययविधायकस्थले पुनरुपादानात् ज्ञाप्यते इति बोध्यम्।]]
07
=>
[[E। ‘… संवृक्ष्यवेदमतशिक्षकभिक्षुगम्यम्।’ धा। का। १। ७७।]]
08
=>
[[८। ‘कर्मण्यण्’ (३-२-१) इति कर्मण्युपपदे अण्प्रत्ययः।]]
09
=>
[[ड्। ‘वज्रप्रभोद्भासिसुरायुधश्रीः या देवसेनेव परैरलङ्घ्या।।’ शि। व। ३। ६४।]]
10
=>
[पृष्ठम्०९५२+ २५]
11
=>
[[आ। ‘संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्।’ भ। का। ६। ९।]]