| YouTube Channel

भिका (bhikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुभ हिंसायाम्”@} 2 3 तोभकः-भिका, तोभकः-भिका, तुतुभिषकः-तुतोभिषकः-षिका, तोतुभकः- भिका
तोभिता-त्री, तोभयिता-त्री, तुतुभिषिता-तुतोभिषिता-त्री, तोतुभिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि क्षुभ 4 धातुवज्ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(७५२)
02
=>
(१-भ्वादिः-७५३। सक। सेट्। आत्म।)
03
=>
[[B। ‘अनभ्यसन्तोभककंसजीवस्रंसाय पापध्वदयं प्रतस्थे।।’ धा। का। २। २।]]
04
=>
(३१६)
1 {@“तुभ हिंसायाम्”@} 2 तोभकः-भिका, तोभकः-भिका, तुतुभिषकः-तुतोभिषकः-षिका, तोतुभकः- भिका
तोभिता-त्री, तोभयिता-त्री, तुतुभिषिता-तुतोभिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकगुधधातुवत् 3 बोध्यानि।
क्त्वायां तुभित्वा-तोभित्वा इति रूपद्वयं बोध्यम्।
प्रासङ्गिक्यः
01
=>
(७५३)
02
=>
(४-दिवादिः-१२४१। सक। सेट्। पर।)
03
=>
(४०५)
1 {@“तुभ हिंसायाम्”@} 2 तोभकः-भिका, तोभकः-भिका, तुतुभिषकः-तुतोभिषकः-षिका, तोतुभकः- भिका
तोभिता-त्री, तोभयिता-त्री, तुतुभिषिता-तुतोभिषिता-त्री, तोतु- 3 भिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि कुषधातुवत् 4 बोध्यानि।
शतरि-- 5 तुभ्नन्-ती।
प्रासङ्गिक्यः
01
=>
(७५४)
02
=>
(९-क्र्यादिः-१५२१। सक। सेट्। पर।)
03
=>
[पृष्ठम्०६७३+ २६]
04
=>
(२३३)
05
=>
[[आ। ‘आधोरणानपि दन्तवरेण तुभ्नन् क्लिश्नन् मतिं पलसुरादिकमश्नतां सः।’ धा। का। ३। ११।]]
1 {@“शुन्भ भाषणे”@} 2 ‘-- दीप्तौ हिंसने च’ इति वोपदेवः।
‘--भासने’ इति दुर्गः।
‘-- भाषणे हिंसायां च’ इति क्षीरस्वामी।
एवं देवमैत्रैयादयोऽपि।
‘शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम्।’ 3 इति देवः।
“स्वामी तु निरनुषङ्गं पपाठ।
इंदमेव आत्रेयस्यापि मतम्
तुदादौ ‘शोभत इति शपि’ इति वचनात्।
दुर्गस्तु भासने इत्यस्यार्थमाह।
एवं धनपालशाकटायनौ।
गुप्तस्तु ‘सावष्टम्भनिषुम्भ4 संभ्रमनमद्- भूकोलंम्’ मालतीमाधवम् 5 इत्यादिदर्श्नान्मूर्धन्यादित्वमाह” इति माधवः।
शुम्भकः-म्भिका, शुम्भकः-म्भिका, शुशुम्भिषकः-षिका, शोशुभकः- भिका
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककुञ्चतिवत् 6 ज्ञेयानि।
इगुपधलक्षणकप्रत्यये कित्त्वादुपधानकारलोपे शुभः, ‘स्फायितञ्चि--’ 7 इत्यादिना रक्प्रत्यये नकारलोपे शुभ्रम् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१७३६)
02
=>
(१-भ्वादिः-४३३। सक। सेट्। पर।)
03
=>
(श्लो। ११४)
04
=>
(शुम्भ)
05
=>
(५-२२)
06
=>
(२२२)
07
=>
(द। उ। ८-३१)
1 {@“शुभ दीप्तौ”@} 2 ‘शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम्।’ 3 इति देवः।
‘-- हिंसने च’ इति वीपदेवः।
अर्थभेदात् पुनः पाठः।
शोभकः-भिका, शोभकः-भिका, शुशुभिषकः-शुशोभिषकः-षिका, शोशुभकः- भिका
इत्यादिकानि रूपाणि सर्वाण्यपि कुप्यतिवत् 4 ज्ञेयानि।
शुभम्, शोभनः, शोभनम्, शोभा 5, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१७३९)
02
=>
(१-भ्वादिः-७५०। अक। सेट्। आत्म।)
03
=>
(श्लो। १४४)
04
=>
(२२४)
05
=>
[[आ। ‘कृष्णोऽपि तापोल्लुठिताङ्गशोभा आश्वास्य मारक्षुभिता महेलाः।’ धा। का। २-२। “‘नाम्नि तु पुंस्त्वं प्रायिकम्’ इति घञन्तस्यापि स्त्रीत्वम्” इति अत्र दृश्यते।]]