| YouTube Channel

भाषिता-त्री (bhASitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भाष व्यक्तायां वाचि”@} 2।
भाषकः-षिका, भाषकः-षिका, बिभाषिषकः-षिका, बाभाषकः-षिका
भाषिता-त्री, भाषयिता-त्री, बिभाषिषिता-त्री, बाभाषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकभामतिवत् 3 ज्ञेयानि।
4 व्याभाषकः, 5 सुभाषी, सुभाषितम्, भाषा, 6 आत्मनेभाषा-परस्मैभाषा, भाष्यम् इतीमानि रूपाणि अस्य धातोः भवन्तीति विशेषः।
7 भाषितुम्।
प्रासङ्गिक्यः
01
=>
(११५७)
02
=>
(१-भ्वादिः-६१२। सक। सेट्। आत्म।)
03
=>
(११५५)
04
=>
[[१। ‘निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्’ (३-२-१४६) इत्यादिना तच्छीलादिषु कर्तृषु वुञ् प्रत्यये रूपमेवम्।]]
05
=>
[[२। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
06
=>
[[३। स्त्रियाम् ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्यये भाषा इति सिद्ध्यति। आत्मनेभाषा, परस्मैभाषा इत्यत्र ‘वैयाकरणाख्यायां चतुर्थ्याः’ (६-३-७) ‘परस्य च’ (६-३-८) इत्यलुक्। आत्मनेभाषा = आत्मनेपदम्। परस्मैभाषा = परस्मैपदम्। धातुपाठेषु वैयाकरणाख्यायामेते प्रसिद्धे। भाष्ये तु (६-३-७) प्रकृतस्थले आत्मनेभाषः, पस्मैभाषः इति घञन्त एव प्रयुक्तो लक्ष्यते।]]
07
=>
[[B। ‘भाषितुं खलु हर्षवर्षितो गेषितुं समुचितं नाशकत्।’ धा। का। १। ७८।]]