| YouTube Channel

भावुकः (bhAvukaH)

 
Apte Hindi
Hindi
भावुकः
पुं*
- भू+उकञ्
बहनोई
शब्दकल्पद्रुमः
Sanskrit
भावुकः,
पुं,
(भू + उकञ् ।) नाट्योक्तौ भगिनी-पतिः इति हेमचन्द्रः
भावुकः, त्रि, भवनाश्रयः भवति यः इतिकर्त्तरि भूधातोर्ञुकप्रत्ययेन निष्पन्नः
रसविशेष-भावनाचतुरः इति श्रीधरस्वामी
यथा, --“निगमकल्पतरोर्गलितं फलंशुकमुखादमृतद्रवसंयुतम् ।पिबत भागवतं रसमालयंसुहुरहो रसिका भुवि भावुकाः
”इति श्रीभागवते
लग्नपलितप्रियान्धस्थूलसुभगाढ्यशब्दोपपदभू-धातोरभूततद्भावार्थे कर्त्तरि वाच्ये खुकञ्-प्रत्ययेन लग्नम्भावुक इत्यादयश्च निष्पन्नाः
कृदन्तरूपमाला
Sanskrit
1 {@“भुवोऽवकल्कने”@} 2 “अवकल्कनम् = मिश्रीकरणम्।
भावयति दध्नौदनम्।
अनित्यण्यन्तत्वार्था पञ्चमी।
‘विकल्कने’ इति नन्दी।
‘भावयेद् ब्राह्मणं तपः।’ --” इति क्षीरस्वामी।
“अवकल्कनं = चिन्तनम्।
इति काश्यपः।
क्वचित् स्वामिग्रन्थेऽनुकल्कनम्-इति पठित्वा, ‘अनुकल्कनम् = मिश्रीकरणम्।’ इति द्वश्यते।
…विकल्कनम् = विपाचनम् 3 उदाहृतम्।
तस्यान्न- विशेष्यकत्वेन विपक्वीकरणार्थे वृत्तिरस्य धातोः इति काशिकासम्मतमिति ज्ञेयम्।]] विपक्वी- करणम्।) तथा प्रयुज्यते-- ‘तपो भावितमात्मानम्--’ इति।
‘-- अवकल्पने’ इत्यपरे।
तथा धनपालः…” इति मा।
धा।
वृत्तिः।
‘मूलशुद्धिस्त्वत्र कीदृशी? इति विद्मः।’ इति पुरुषकारः।
‘सत्तायां भवति, प्राप्तौ णिचि भावयते तङि।
भवते शपि, तत्रैव भावयत्यवकल्कने।।’ 4 इति देवः।
भावकः-विका, 5 बिभावयिषकः-षिका, भावयिता-त्री, बिभावयिषिता-त्री
6 भावयन्-न्ती, बिभावयिषन्-न्ती
भावयिष्यन्-न्ती-ती, बिभावयिषिष्यन्-न्ती-ती
7 भावयमानः, बिभावयिषमाणः
भावयिष्यमाणः, बिभावयिषिष्यमाणः, बिभावयिट्-यिषौ-यिषः
8 भावितम्-तः, बिभावयिषितः-तवान्
भावः, 9 भावुकः, 10 भावनः, बिभावयिषुः
भावयितव्यम्, बिभावयिषितव्यम्
भावनीयम्, बिभावयिषणीयम्
भाव्यम्, बिभावयिष्यम्
ईषद्भावः- दुर्भावः-सुभावः
ईषद्बिभावयिषः-दुर्बिभावयिषः-सुबिभावयिषः
भाव्यमानः, बिभावयिष्यमाणः
भावः, बिभावयिषः
भावयितुम्, बिभावयिषितुम्
भावना, बिभावयिषा
भावनम्, बिभावयिषणम्
भावयित्वा, बिभावयिषित्वा
प्रभाव्य, प्रबिभावयिष्य
भावम् २, भावयित्वा २, बिभावयिषम्
बिभावयिषित्वा २। इति रूपाण्यस्य भवन्ति।
प्रासङ्गिक्यः
01
=>
(११६४)
02
=>
(१०-चुरादिः-१७४८। सक। सेट्। उभ।)
03
=>
(= [[३। ‘प्रभावुकमन्नं भवति।’ इति काशिकायाम् (३-२-१५४)
04
=>
(श्लो। ३)
05
=>
[[४। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासे इकारः। एवमुत्तरत्रापि ज्ञेयम्।]]
06
=>
[[५। ‘भू अवकल्कने’ इति पठितव्ये सति, ‘भुवोऽवकल्कने’ इति पाठः ‘अनित्य- ण्यन्तत्वार्थं पञ्चमी।’ इति ज्ञापयतीत्याहुः। तेन णिजभावपक्षे, धातोश्चिन्तनार्थकत्वे- अकर्मकत्वेन, चिन्तनस्य चित्तवत्कर्तृकत्वेन ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव। मिश्रीकरणाद्यर्थान्तरे तु यथासम्भवमात्म- नेपदमपि धातोरस्य भवतीत्यपि बोध्यम्।]]
07
=>
[पृष्ठम्०९६१+ २८]
08
=>
[[आ। ‘रोषान्ध्यभावितमसृग्भिरकल्पयत् तं कृष्णोऽपि नाकिजनराकितलाग्यवीर्यः।।’ धा। का। ३। ४१।]]
09
=>
[[१। तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु ‘लषपतपदस्थाभूवृष--’ (३-२-१५४) इत्यनेन उकञ्प्रत्ययः। ‘णेरनिटि’ (६-४-५१) इति णिलोपः। ‘न वाचमवमन्यन्ते नर्तकीमिव भावुकाः।।’ (या। अ। १-७) इत्यत्र, “भावुकाः = भावनाकृतो भगवद्भक्ताः। ‘भुवोऽवकल्कने’ इति भवतेर्णिजन्तात् ‘लषपत--’ (३-२-१५४) इत्यादिना उकञ्प्रत्ययः। ‘अवकल्कनम् = चिन्तनम्।’ इति व्याख्यातम्।” इति अप्पय्यदी- क्षितोक्तेः धातोरस्यैवोकञ्विधायके सूत्रे ग्रहणमित्यपि ज्ञायते।]]
10
=>
[[२। ण्यन्तादस्मात् नन्द्यादेराकृतिगणत्वात् कर्तरि ल्युः। भावनः = चिन्तकः। (अत्र भावितम् इति मिश्रीकरणार्थे धातोर्वृत्तिरिति ज्ञेयम्)]]