| YouTube Channel

भावबोधकः (bhAvabodhakaH)

 
शब्दकल्पद्रुमः
Sanskrit
भावबोधकः,
पुं,
(भावस्य रत्यादेर्वोधकः अनु-भावकः ।) अनुभावः इत्यमरः २१
भावस्यरत्यादेर्बोधकः सूचको गुणक्रियादिरनुभावः ।अनुभाव्यते प्रतीतियोग्यतां नीयते रत्यादिरने-नेति अनुभावः घञ् तत्र रतेरनुभावाःलोचनचातुर्य्यभ्रूक्षेपादयः हासस्य कपोला-कुञ्चनानासोत्फुल्लनादयोऽनुभावा एवं अन्यत्रा-नुमन्तव्यम् किंवा भावाननुभावयतीति अन्अनुभावो मुखरागादिः इति तट्टीकायांभरतः