भारतवर्षं (bhAratavarSaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritभारतवर्षं, (भारतं भरतसम्बन्धि वर्षमिति ।)जम्बुद्वीपस्य नववर्षान्तर्गतवर्षविशेषः । यथा, --“हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता ।तस्माच्च भारतं वर्षं तस्य नाम्ना महात्मनः ॥
”तस्य नव भागा यथा, --“भारतस्यास्य वर्षस्य नवभेदान्निबोध मे ।समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।नागद्वीपस्तथा सौम्यो गान्धर्व्वो वारुणस्तथा ॥
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरात् ॥
पूर्व्वे किराता यस्यान्ते पश्चिमे यवनाः स्मृताः ।ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्तःस्थिताद्विज ! ॥
इज्यायुद्धबणिज्याद्यैः कर्म्मभिः कृतपावनाः ।तेषां संव्यवहारश्च एभिः कर्म्मभिरिष्यते ॥
स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तथा ।महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ॥
बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ।तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥
विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः ।कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः ॥
वातन्धमो वैद्युतश्च मैनाकः सुरसस्तथा ।तुङ्गप्रस्थो नामगिरिर्गोधनः पाण्डुराचलः ॥
पुष्पवीर्य्यजयन्तौ च रेवतोऽर्व्वुद एव च ।ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः ॥
श्रीपर्व्वतश्चकोरश्च शतशोऽन्येऽल्पपर्व्वताः ।तैर्विमिश्रा जनपदा म्लेच्छाश्चार्य्याश्च भागशः ।तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ्निबोध मे ॥
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापगा ।यमुना च शतद्रुश्च वितस्तैरावती कुहूः ॥
गोमती धूतपापा च बाहुदा च दृषद्वती ।विपाशा देविका वङ्क्षुर्विशाला गण्डकी तथा ।कौशिकी चापरा विप्र ! हिमवत्पादनिःसृताः ॥
वेदस्मृतिर्वेतसिनी रात्रिघ्नी सिन्धुरेव च ।वेण्वा च स्यन्दना चैव सवानीरा मही तथा ॥
पारा चर्म्मण्वती लूपी विदिशा वेत्रवत्यपि ।सिप्रा ह्यवन्ती च तथा पारिपात्राश्रयाःस्मृताः ॥
शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ।मन्दाकिनी दशार्णा च चित्रकूटा तथापगा ॥
चित्रोत्पलाथ तमसा करतोया पिशाचिका ।तथान्या पिप्पला श्रोणी विपाशा वञ्जुला नदी ॥
सरोरुजा शुक्तिमती मङ्गुली त्रिदिवा क्रतुः ।ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥
शिप्रा पयोष्णी निर्बिन्ध्या तापी च निषधावती ।वेणा वैतरणी चैव शिनीवाली कुमुद्बती ॥
तोया चैव महागौरी दुर्गा चान्तःशिवा तथा ।बिन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥
गोदावरी भीमरथी कृष्णवर्णा तथापगा ।तुङ्गभद्रा सुप्रयोगा वाह्या कावेय्यथापगा ।सह्यपादविनिष्क्रान्ता इमास्ताः सरिदुत्तमाः ॥
कृतमाला ताम्रपर्णी पुष्यजात्युत्पलावती ।मलयाद्रिसमुद्भूता नद्यः शीतजलास्त्विमाः ॥
पितृसोमर्षिकुल्या च इक्षला त्रिदिवालया ।लाङ्गूलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ॥
ऋषिका च कुमारी च मन्दगा मन्दवासिनी ।कृशा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥
सर्व्वाः पुण्याः सरस्वत्यः सर्व्वा गङ्गाः समु-द्रगाः ।विश्वस्य मातरः सर्व्वाः सर्व्वाः पापहराःस्मृताः ॥
अन्याः सहस्रशश्चोक्ताः क्षुद्रनद्यो द्विजोत्तम ! ।प्रावृट्कालवहाः सन्ति सर्व्वकालवहाश्च याः ॥
मत्स्याः कुशूलाः कुल्याश्च कुन्तलाः काशिको-शलाः ॥
अर्व्वुदाश्च पुलिङ्गाश्च समकाश्च वृकैः सह ।मध्यदेशे जनपदाः प्रायशोऽमी प्रकीर्त्तिताः ॥
सह्यस्य चोत्तरेणैव यत्र गोदावरी नदी ।पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥
गोवर्द्धनपुरं रम्यं भार्गवस्य महात्मनः ।वाह्लीका वाटधानाश्च आभीराः कालतोयकाः ॥
अपरान्ताश्च शूद्राश्च पह्नवाश्चर्म्मखण्डिकाः ।गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥
शतह्रदा ललित्थाश्च पारदाहारमूषिकाः ।माठरा रक्षहतकाः कैकया दशमानिकाः ॥
क्षत्त्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।काम्बोजा दरदाश्चैव वर्व्वरा ह्यङ्गलौकिकाः ॥
नीचाश्चैव तुषाराश्च पह्नवा वाह्यतोदराः ।आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः ॥
लम्पकाः सूनकाराश्च चूलिका जाह्नवैः सह ।अपधाश्चालिमद्राश्च किरातानाञ्च जातयः ॥
तामसा हंसमार्गाश्च काश्मीरास्तङ्गनास्तथा ।चूलिका हुडुकाश्चैव ऊर्णा दार्व्वास्तथैव च ॥
* ॥
एते देशा ह्युदीच्यास्तु प्राच्यान् देशान्निबोध मे ।अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः ॥
तथा प्लवङ्गा वङ्गेया मलदा मलवर्त्तिकाः ।ब्रह्मोत्तराः प्रविजया भार्गवाङ्गेयमर्द्दकाः ॥
प्राग्ज्योतिषाश्च मद्राञ्च विदेहास्ताम्रलिप्तकाः ।मल्वा मगधगोमेदाः प्राच्या जनपदाः स्मृताः ॥
अथापरे जनपदा दक्षिणापथवासिनः ।पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥
सेतुका मूषिकाश्चैव कुमारा वानवासिकाः ।महाराष्ट्रा माहिषिकाः कलिङ्गाच्चैव सर्व्वशः ॥
आभीराः सह चैषीका आटव्याः शवराश्च ये ।पुलिन्दा बिन्ध्यमालेया वैदर्भा दण्डकैः सह ॥
पौरिका मौलिकाश्चैव अश्मका भोगवर्द्धनाः ।तैलिकाः कुन्तला ह्यन्धा उद्भिदा नाल-कारकाः ॥
* ॥
दाक्षिणात्यास्त्विमे देशा अपरान्तान्निबोध मे ।सौर्पारकाः कालनदा दुल्लास्तालीयकैः सह ॥
कारस्करा लोहजङ्घा वानेया राजभद्रकाः ।तोसलाः कोशलाश्चैव त्रैपुरा विदिशास्तथा ॥
तुषारास्तुम्बराश्चैव पाटवो नैषधैः सह ।पुलिन्दाश्च सुशीलाश्च रूपपास्तामसैः सह ॥
तथा कुरुमिणश्चैव सर्व्वे चैव करस्कराः ।नासिकाख्याश्च ये चान्ये ये चैवान्तरनर्म्मदाः ।मारुकच्छाः समाहेयाः सर्व्वे सारस्वतैः सह ।कच्छीयाश्च सुराष्ट्राश्च आवन्त्याश्चार्व्वुदैः सह ॥
इत्येते ह्यपरान्ताश्च शृणु बिन्ध्यनिवासिनः ।मलजाश्च करूषाश्च मेकलाश्चोत्कलैः सह ॥
उत्तमर्णा दशार्णाश्च भोजाः किस्किन्धकैः सह ।अनूपास्तुण्डिकेराश्च वीरहोत्रा ह्यवन्तयः ॥
एते जनपदाः सर्व्वे बिन्ध्यपृष्ठनिवासिनः ॥
अतो देशान् प्रवक्ष्यामि पर्व्वताश्रयिणश्च ये ॥
* ॥
निर्हारा हंसमार्गाश्च कुपथास्तङ्गनाः खसाः ।कुत्साः प्रावरणाश्चैव ऊर्णा दर्व्वाः सहूहुकाः ॥
त्रिगर्त्ता मालवाश्चैव किरातास्तामसैः सह ।कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥
* ॥
एतत्तु भारतं वर्षं चतुःसंस्थानसंस्थितम् ॥
दक्षिणे परतो ह्यस्य पूर्व्वेण च महोदधिः ।हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ॥
तदेतद्भारतं वर्षं सर्व्वबीजं द्विजोत्तम ! ।देवत्वममरेशत्वं देवत्वं मर्त्यतां तथा ॥
मृगपश्वम्बरचरा योनीस्तद्वत् सरीसृपाः ।स्थावराणाञ्च सर्व्वेषामतो ब्रह्मन् ! शुभाशुभैः ॥
प्रयान्ति कर्म्मभूर्ब्रह्मन्नान्यलोकेषु विद्यते ।देवानामपि विप्रर्षे ! सदैवैष मनोरथः ॥
अपि मानुषमाप्स्यामो देवत्वात् प्रच्युताःक्षितौ ।मनुष्याः कुरुते तत्तु यन्न शक्यं सुरासुरैः ॥
स्वकर्म्मनिगडग्रस्तैः स्वकर्म्मक्षपणोत्सुकैः ।न किञ्चित् क्रियते कर्म्म सुखलेशोपबृंहितैः ॥
”इति श्रीमार्कण्डेयपुराणे भारतखण्डवर्णन-नामाध्यायः ॥
५७ ॥
* ॥
अपि च ।“भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवः ।मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभःकूटकः कोण्वः सह्यो देवगिरिरृष्यमूकःश्रीशैलो वेङ्कटो महेन्द्रो वारिधारो बिन्ध्यःशुक्तिमानृक्षगिरिः पारिपात्रो द्रोणश्चित्रकूटोगोवर्द्धनो रैवतकः ककुभो नीलो गोकामुखःइन्द्रकीलः कामगिरिरिति चान्ये शतसहस्रशःशैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसं-ख्याताः । एतासामपो भारत्यः प्रजा नामभिरेवपुनन्तीनामात्मना चोपस्पृशन्ति चन्द्रवशाताम्रपर्णी अवटोदा कृतमाला वैहायसीकावेरी वेण्वा पयस्विनी शर्करावर्त्ता तुङ्गभद्राकृष्णवेण्वा भीमरथी गोदावरी निर्बिन्ध्यापयोष्णो तापी रेवा सुरसा नर्म्मदा चर्म्मण्वतीअन्धः शोणश्च नदौ महानदी वेदस्मृतिरृषि-कुल्या त्रिसामा कौशिकी मन्दाकिनी यमुनासरस्वती दृशद्वती गोमती सरयूरोघवती षष्ठ-वती सप्तवती सुषोमा शतद्रुश्चन्द्रभागा मरुद्-वृधा वितस्ता असिक्नी विश्वेति महानद्यः ।अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहित-कृष्णवर्णेन स्वारब्धेन कर्म्मणा दिव्यमानुषनारक-गतयो बह्व्य आत्मन आनुपूर्व्व्येण सर्व्वा ह्येवसर्व्वेषां विधीयन्ते । यथावर्णविधानमपवर्ग-श्चापि भवति । योऽसौ भगवति सर्व्वभूतात्मनिअनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेअनन्यनिमित्तभक्तियोगलक्षणो नानागति-निमित्ताविद्याग्रन्थिबन्धनद्वारेण यदा हि महा-पुरुषपूरुषप्रसङ्गः । एतदेव हि देवा गायन्ति ।“अहो वतैषां किमकारि शोभनंप्रसन्न एषां स्विदुत स्वयं हरिः ।यैर्जन्म लब्धं नृषु भारताजिरेमुकुन्दसेवौपयिकस्पृहा हि नः ॥
किं दुष्करैर्न्नः क्रतुभिस्तषोव्रतै-र्दानादिभिर्वा द्युजयेन फल्गुना ।न यत्र नारायणपादपङ्कज-स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥
कल्पायुषां स्थानजयात् पुनर्भवात्क्षणायुषां भारतभूजयो वरः ।क्षणेन मर्त्येन कृतं मनस्विनःसंन्यस्य संयान्त्यभयं पदं हरेः ॥
न यत्र वैकुण्ठकथा सुधापगान साधवो भागवतास्तदाश्रयाः ।न यत्र यज्ञेशमखा महोत्सवाःसुरेशलोकोऽपि न वै स सेव्यताम् ॥
प्राप्ता नृजातिन्त्विह ये च जन्तवोज्ञानक्रियाद्रव्यकलापसम्भृताम् ।न चेद्यतेरन्न पुनर्मृतायतेभूयो वनौका इव यान्ति बन्धनम् ।यैः श्रद्धया वर्हिषि भागशो हवि-र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।एकः पृथङ्नामभिराहुतो मुदागृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥
सत्यं दिशत्यर्थितमर्थितो नृणांनैवार्थदो यत् पुनरर्थिता यतः ।म्वयं विधत्ते भजतामनिच्छता-मिच्छापिधानं निजपादपल्लवम् ॥
यद्यत्र नः स्वर्गसुखावशेषितंस्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।तेनाजनाभे स्मृतिमज्जन्मनः स्या-द्वर्षे हरिर्यद्भजतां शं तनोति ॥
”श्रीशुक उवाच । जम्बूद्वीपस्य च राजन्नुपद्बीपा-नष्टौ हैक उपदिशन्ति सागरात्मजैरश्वान्वेषणइमां महीं परितो निखनद्भिरुपकल्पितान् ।तद्यथा । स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्त्तनो रमणकोनन्दहरिणः पाञ्चजन्यः सिंहलो लङ्केति । एवंतव भारतोत्तमजम्बुद्वीपवर्षविभागो यथोप-देशमुपवर्णितः ।” इति श्रीभागवते महापुराणे५ स्कन्धे द्वीपवर्षवर्णनं नाम १९ अध्यायः ॥
(विष्णुपुराणे च । २ अंशे ३ अध्याये ।“उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।वर्षं तत् भारतं नाम भारती यत्र सन्ततिः ॥
१ ॥
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! ।कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ॥
” २ ॥
अपरञ्च ।“अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति वै ।तिर्य्यक्त्वं नरकञ्चापि यान्त्यतः पुरुषा मुने ! ॥
४ ॥
इतः स्वर्गश्च मोक्षश्च मध्यमन्तश्च गम्यते ।नखल्वन्यत्र मर्त्त्यानां कर्म्मभूमौ विधीयते ॥
” ५ ॥
अपि च ।“चत्वारि भारते वर्षे युगान्यत्र महामुने ! ।कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥
१९ ॥
तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः ।दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥
” २० ॥
“अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! ।यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ॥
२२ ॥
अत्र जन्म सहस्राणां सहस्रैरपि सत्तम ! ।कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
२३ ॥
गायन्ति देवाः किल गीतकानिधन्यास्तु ते भारतभूमिभागे ।स्वर्गापवर्गास्पदमार्गभूतेभवन्ति भूयः पुरुषाः सुरत्वात् ॥
२४ ॥
कर्म्माण्यसङ्कल्पिततत्फलानिसंन्यस्य विष्णौ परमात्मभूते ।अवाप्य तां कर्म्म महीमनन्तेतस्मिल्लयं येत्वमलाः प्रयान्ति ॥
२५ ॥
जानीम नैतत् क्व वयं विलीनेस्वर्गप्रदे कर्म्मणि देहबन्धम् ।प्राप्स्याम धन्याः खलु ते मनुष्याये भारते नेन्द्रियविप्रहीनाः ॥
” २६ ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
